विनयसूत्र · अध्याय 4
। न मौनं समाददीत ।
। शुद्धि[43ब्2]म् उक्त्योर् अनेन प्रत्यवगतौ स्थूलात्ययः ।
। दृष्टस्रुतपरिशङ्काभिः वर्षोषितः संघ प्रवारयेत्* ।
। पश्चिमे ह्नि वर्षाणां ।
। गोचरा रोचयेयुः ।
। यतः प्रभृति केलायनम् इयत्भिः दिवसैः संघस्य प्रवारणा भविष्यति युष्माकम् आरोचितम् भवत्व् इति ।
। विहारस्य मण्डनम्* ।
। कूटागाराणां बन्धनम्* ।
। राहानां चि[43ब्3]त्रणं स्तूपानां मोच्चनमोलनं च ।
। सिद्धासनस्य मण्डनम्* ।
। अद्य सर्वरात्रिकं धर्मश्रवणं भविष्यति तत्र युष्माभिः सामग्री देयेति गोचरारोच्य सूत्रविनयमात्रकधरैर् अधिष्टचतुर्दश्यां सर्वरात्रिकधर्मश्रवणदापनम्* ।
। परस्यान्तैः प्राक्कर्मतो धम्यया विनिश्चयकथया रात्रेर् अतिनामनम्* ।
। प्रागरुणसं[43ब्4]भेदा<<त्>> प्रवारणात् कर्म ।
। प्रवारणकं संमन्येरन्* भिक्षुं ।
। अपारणे नेकं ।
। न्यायम् अत्रांशसः पंक्तौ व्यापारणं ।
। दर्भानसौ चारयेत्* ।
। प्रवारणं प्रत्यन्येन संघस्य ज्ञपनम्* ।
। प्रतिभिक्ष्वा प्रवारणात् पुरतस् तिष्ठेत्* ।
। तस्मै प्रवारणं त्रिः ।
। द्विस् तावता ग्लान(न)क्लान्तिशयनासनसंभेदकालातिक्रान्ति[43ब्5]सम्बाधस्नंपत्तिसंभावने ।
। तावतापि सकृत्* ।
। तेनापरस्मै निष्ठितायां पंक्तौ ।
। अभावे न्यस्मै ।
। सर्वसंघेन प्रतिवारिते एतत् त्वस्य संघे निवेदनम्* ।
। सर्वे समर्थयेयुः ।
। येन तेनासूचेः ।
। अतः श्रामणेरान्* प्रवारयेत्* ।
। ततो भिक्षुणीः ।
। प्रवारितत्वम् अधिष्ठाय गतस्यार्वाक्तत्प्रवारणायासहकृतौ ।
। न स्त्रियां परिवृत्यापि ।
। अशक्यतायाम् अवस्थातुं भागप्राप्तं भिक्षुम् अवलोकयेत्
गणप्रवारणेन ।
। [44अ1] । ।प्रवारयेद् अन्तर्वर्ष प्रक्रमिष्यन्* करणीयेन ।
। स्थापयित्वापि वस्तुपुद्गलम् उभयम् वा ।
। प्रतीच्छेयुर् एणाम् ।
। स्थापनेन नन्त्यताम् उपनीय ।
। पुत्गगलं स्थापयेन् न न वस्त्व् इति वस्तु स्थापयेत्* पुत्गलञ् चेति
अभङ्गः प्रतीष्टैः व्यपलापे स्थापनस्य प्रतीष्टताया स्थापितस्य वा ।
। नैवंविधं किञ्चिद् अस्तीतिवादे मृषात्वम् अत्र पूर्वस्यास्य वा ।
। कलिकृताञ् चेत् भिक्षूणाम् आगनम् उपगताः शृणुयुः द्वित्रिपोषधातिक्रान्तिश् चेत् प्रवारयेयुः ।
। असंपत्तौ यञ्च [44अ3] पाणिमण्डकानि संमन्येरन्* ।
। वाक्यस्वल्पकेन प्रत्युत्गम्य पात्रचीवरप्रतिशमनं लयनम् आलंककूटागारोद्देशः ।
। स्नात्रस्नेहलाभकरणं ।
। करणधर्मश्रवणदा(द)नम् इत्य् एषां प्रलोभनानि प्रयुञ्जीरन्* असंपत्ताव् आत्मीभावस्य पोषधं कुर्वीरन्* मण्डलकेषु ।
। ननु युष्माकम् अद्य प्रवारणेति ब्रुवाणा[44अ4]नाम् आगमयतायुष्मन्तागन्तुका यूयं नैवासिका अनेनार्थेनेति प्रतिवदेयुः ।
। प्रक्रान्तेषु प्रवारणाम् ।
। नाकृतक्षमणः सान्तरस्य प्रवारयेत्* ।
। दशार्द्धमासेन भविष्यत्तायाम् अस्यास् तत्कालः ।
। सप्ताष्टैर् इत्य् अपरः ।
। न सन्निपातः ।
। नासावक्षान्त्वानाकृतसंमोदनसंनि[44अ5]हितानां सर्वस् तदा ।
। न रुषितं क्षमयेत्* ।
। न भिक्षुणी भिक्षुं बहिरावासात्* ।
। न पादयोर् निपत्य ।
। क्षान्ते नियत्य गमनं ।
। नैनां क्षमयन्*तीमनादृ(दृ)त्य भिक्षुर् गच्छेत्* ।
। न विलंघयेत्* ।
। संज्ञप्तेः क्षमनीयस्य पुरस्ताद् दापनम् अभिज्ञान ।
। नानिष्टाव् उपायपर्येषणं नापद्येत्* ।
। न चीरयेत्* ।
। न पर्य[44अ6]वस्थानापगतिन् नोदीक्षेत्* ।
। न क्षम्यमाणो न क्षमेत ।
मूल पाठ: Vinayasūtra · Edition: Preliminary transliteration of the ms. found in Tibet by Rahula Sankrityayana · Data entry Yoshiyasu Yonezawa et al. · GRETIL (Göttingen) · CC BY-NC-SA 4.0