भाषा

ENहिગુ
ग्रंथ पाठ

विनयसूत्र · अध्याय 3

3.1

वर्षा उपगच्छेत्* ।

3.2

। त्रैमासीम्* ।

3.3

। प्रतिपदि ।

3.4

। आषाढ्यानन्तरायाम्* ।

3.5

। श्रावणाया वा ।

3.6

। विहारं केलायेयुः दशाहार्धमासेन भविष्यत् तायां ।

3.7

। सप्ताष्टैर् इत्य् अपरम्* ।

3.8

। पूर्वे ह्नि शयनासनस्य पात<<न>>म्* ।

3.9

। [42अ1] । । आपादकठिल्लकात ।

3.10

। अपारणे नेकस्य ।

3.11

। सो क्तगन्धैश् चाङ्गेरीपटलकगते शुक्ले वासस्य् उपनिक्षिप्ताः शलाका वृद्धान्ते निवेश्या यञ् चायं चास्मिन्न् आवासे क्रियाकारो यो युस्माकम् उत्सहते तेन क्रियाकारेणास्मिन्न् आवासे वर्षावस्तुं स शलाकां ग्रिह्णातु न च वः केनचिद् अन्तर्वर्षे संघमध्ये रणम् उत्पा[42अ2]दयितव्यो यो वः कस्यचित् किञ्चिज् जानाति स इदानीं* वदन्त यो <<वो>> न्तर्वर्षे संघे रणम् उत्पादयिष्यति तस्य संघ उत्तर उपपरीक्षितव्यं मत्स्यत इति भिक्षून् वेदयेत ।

3.12

। ग्रहणोपशमनं प्रति संघं ज्ञपयेद् अन्यः ।

3.13

। शास्तुर् अग्रे ग्रहणं ।

3.14

। अर्धम् उक्तेनासनेनान्येः ।

3.15

। आचार्योपाध्यायैः श्रामणेराणां ।

3.16

। नैवासिकाना[42अ3]म् अस्य् एतद् अन्ते शनैः स्थापनम ।

3.17

। गणयित्वा प्रवेदनम् इयद्भिर् भिक्षुभिर् अस्मिन्न् आवासे शलाका गृहीतेति ।

3.18

। अन्त तस्य तत्ताडककुञ्जिकेन पुरतः स्थित्वा रोचनोपक्रमं
स्थविरामुको विहारः सलाभः सचीवरिको गृहाणेति यथागुणम्* ।

3.19

। ज्ञात्वोद्देशम् अस्तूपसंघार्थे गतस्य गन्त्र्या भागित्वं [42अ4] वृक्षमूलहरितसार्धलस्थण्डिलेष्व् अपि यथावृद्धिकोद्देशः ।

3.20

। द्वादिभ्यो <<ऽ>>संभावने लयनस्यान्ततो निष्यदनप्रामाण्ये<<ना>>स्य भूमेः ।

3.21

। पात्रकरकोषा[ट्]उकदन्तकोष्ठस्थानस्यापेक्षणं ।

3.22

। द्वारकोष्ठकसोपानकोष्ठिकाप्रासादोपस्थानभक्तजेन्ताकशाला नोद्दिशेयुः ।

3.23

। न रात्रो शयनासनम्* ।

3.24

। नाध्युषितं ग्लानेनान्यस्मै लयनम ।

3.25

। [42अ5] नैतत् त्व् आप्राप्त्यभावे न ददीरन्* ।

3.26

। नैनम् उपस्थायकम् वास्य कर्म कारयेरन् ।

3.27

। न कुष्ठी सांघिकं शयनासनं परिभुञ्जीत ।

3.28

। प्रत्यन्ते स्य विहारं दद्युः ।

3.29

। न ससवे प्य् अत्र सांघिके तिष्ठेद् आप्रासादपुष्किरिणीद्वारकोष्ठकपरिषण्डचंक्रमस्थानवृक्षात्* ।

3.30

। न वर्चःप्रस्रावकुट्योः प्रविशेत ।

3.31

। उपास्थाय<<क>>दानेनैनम् अनुकम्पयेरन्* ।

3.32

। [42अ6] पात्रचीवरस्थापनार्थम् आरण्यकेभ्यः सर्वदा लयनम् उद्दिशेयुः ।

3.33

। वर्षोपगमने स्युः केचिद् आगन्तव इति वस्तु शयनासनञ् च स्थापयेयुः ।

3.34

। प्रभूतागताव् उपगतेः पुनर् उद्देशः ।

3.35

। नोर्धम् उपनायिकातः ।

3.36

। द्व्यादेर् असंभावना भूम्[न्]य् एकस्य ।

3.37

। नैकाहस्यार्थे शयनासनं गृह्णीत्* ।

3.38

। न लाभलोभात्* [42ब्1] विहारम्* ।

3.39

। सर्वं परिभुञ्जीत ।

3.40

। पूर्वाह्णे क्वचित् पाठस्वाध्यायावस्थानचंक्रमाणां क्वचिद् मध्याह्ने परत्रान्यत्र <<पात्र>>चीवरस्थापनम् आवासो परत्र रात्राव् इत्य् अस्य योगः ।

3.41

। खण्डफुल्लम् उपगतो वासवस्तुनः प्रतिसंस्कुर्वीत ।

3.42

। वर्षकस्य वर्षोषिताभिर् भिक्षुणीभिर् अभिसंस्करणं ।

3.43

। कलिकरनिवेशासंपत्यर्थम्* ।

3.44

। हेमन्तिकग्रैष्माव् अपि शयनासन[42ब्2]ग्राहो कुर्वीरन्* ।

3.45

। कार्स्नेन चोद्दौशम्* ।

3.46

। तद्यथा सामन्तकस्यापि विहारपरिगणयोः ।

3.47

। प्रासादस्यापि सैतदः ।

3.48

। नोर्ध्वम् एनां प्रक्रान्तत्वाद् एषाम् अनुवर्त्तयेरन्* ।

3.49

। न प्रकृतिस्थार्थे घट्टं कुर्वीरन्* ।

3.50

। न भाविनार्थेन ।

3.51

। अयम् अमुत्रर्ताव् अहौरात्रे तदवयवे वा भविष्यत्य् अयम् अमुत्रायाम् आचार्यस्य भविष्यत्य् अयम् उपाध्यायस्य सा[42ब्3]र्धम् विहारिणो यम् अयम् अन्तेवासिन आलप्तकादेर् अयम् इति विहारान् नुद्दिशेयुः ।

3.52

। न प्रतीच्छेत्* ।

3.53

। लतावारिकस्यालयप्रतिविधानार्थम्* सम्मतिः ।

3.54

। <<नि>>रण्डानां सातनम्* ।

3.55

। क्षौद्राणां सूत्रकेणावृद्ध्ये वेष्टनं ।

3.56

। सत्वे नेकस्य वृद्धपीठानाम् अप्य् उद्देशत्वं ।

3.57

। संस्तराणां च ।

3.58

। न सांघिकम् अव[42ब्4]नद्धं नाशनधर्मणे शुचिना श्रामणेराय शयनासनं कश्चिद् दद्यात्* ।

3.59

। न भिक्षुण्यै ।

3.60

। दानम् अस्यै विहारस्यात्र वाससम्पत्तौ पर्यन्ते ।

3.61

। शयनासनस्य च शिष्टस्याप्रणीतस्य ।

3.62

। न वष् केनचित् सांघिकं शयनासनम् विना प्रत्यास्तरणेन परिभोक्तव्यं न कल्पप्रत्यास्तरणेन न मलप्रत्यास्तरणेनेति वेदयेत ।

3.63

। अन्वर्धमास च प्रत्यवेक्षेत्* ।

3.64

। [42ब्5] समयम् उत्क्रम्य परिभुक्तावाछिन्द्याद् आरोच्य निःश्रये निःश्रितस्यान्यस्य संघे ।

3.65

। अमुकेन दानपतिनामुकेन वैय्यपृत्यकरेणामुकेन गोचरग्रामकेन स्वः संघो वर्षा उपगमिष्यतीत्य् आरोचयेत्* ।

3.66

। अनुन्मादित्वप्रतिविनोदित्वयोः कौकृत्यस्यान्यस्य च दुःखदौर्मनस्यस्य
सुखसौमनस्यस्य चोत्यादित्वानुरक्षित्वयोः
ग्लानोपस्थायकत्वस्य च [42ब्6] सब्रह्मचारिषु भूतेः
प्रत्याशंसनेनावासं गोचरञ् च पिण्डकभैषज्यदात्रोर्
अवलोक्योपगमनम्* ।

3.67

। छन्ने भिक्षोः पुरस्तात्* ।

3.68

। नानेकत्र विहारे ।

3.69

। न यस्मिन्न् अभिक्षुकत्वम् अकपाटकत्वञ् च सहितम्* ।

3.70

। सत्वे दानपतिवैय्यापृत्यकरगोचरग्रमिकोपस्थायकानाम् उत्कीर्तनम्* ।

3.71

। न वहिःसीम्न्य् अरुणोद्गमयेद् अनधिष्ठितम्* ।

3.72

। [43अ1] सप्ताहम् अधिष्ठितम्* ।

3.73

। सप्ताहम् अतितिष्ठे र्थे धर्म्ये ।

3.74

। तद्यथा नाम निर्यातनविहारप्रतिष्ठापनशयनासनदानध्रुवभिक्षाप्रज्ञपनचैत्यप्रतिष्ठापयष्टिध्वजारोपणपूजाकरणालचन्दनकुंकुमसेक्
दानपाठकोकृत्यप्रतिविनोदनदृष्टिगतप्रतिनिसर्गपक्षसंपत्त्यवसारणपरिवासादिचतुष्कदानावर्त्तनग्लानप्रश्वसनेषु भिक्षोः ।

3.75

। [43अ2] भिक्षुण्या गुरुधर्ममानाप्यदाने च ।

3.76

। ब्रह्मचर्योपस्थानसम्वृतेः शिक्षमाणायाः ।

3.77

। उपसंपादने च ।

3.78

। अत्र श्रामणेरस्य ।

3.79

। श्रामणेरिकायाः शिक्षासंवृतिदाने ।

3.80

। शिरोवेष्टनरजोहरणसीमन्तोन्नयनजटापहरणकुण्डलबन्धनेषु गृहिगृहिण्योः ।

3.81

। <<वि>>संघावशेषगतम् अनुपसंपन्नानां पूर्वं ।

3.82

। उन्मज्जनम् अ[43अ3]वसारणे गृहिगृहिण्योः ।

3.83

। लङ्घयेद् एतद् भक्तभैषज्योपस्थायकाभावे शक्तौ तैर् विना यापयितुम्* ।

3.84

। श्रामण्यजीवितब्रह्मचर्यान्तरायसंभावने ।

3.85

। अनु<<नव>>लोमिकचित्तोत्पादनपापिकवाग्निश्चारणयोः भेदाय पराक्रममाणे संघस्य ।

3.86

। नैतच् छान्त्यै ससम्भावनो न गच्छेत्* ।

3.87

। गतो न लङ्घयेत्* ।

3.88

। न प्रति<<शूता>> वर्षावासे [43अ4] नावासस्य सम्बन्धनम्* ।

3.89

। न कुर्वीत्* नास्त्य् अस्यैकपोषधतायाम् आवासयोर् उत्थानम्* ।

3.90

। अस्त्य् एकलाभतायां ।

3.91

। पञ्चानाम् अपि निकायानाम् उपगन्तव्यत्वं ।

3.92

। न शुद्धानां स्रामणेराणां ।

3.93

। अवार्षिकानाञ् च ।

3.94

। नैषाम् एव रूढिर् उपगतेः ।

3.95

। न ग्राह्यत्वं शयनासनस्य ।

3.96

। [43अ5] नासत्वे ग्राहकस्य ।

3.97

। नासंमतेन ग्राहणं ।

3.98

। नानुत्पादितादौ पिटकधरकालिकृत्स<<दस>>त्वयोर् असंश्रितत्वं ।

3.99

। उषितत्वम् अनुपगतस्य स्थानामोक्षे ।

3.100

। नाकाशे रूढिर् उपगतेः ।

3.101

। न नाव्युत्सृज्य प्राप्तपृथिवीम् उपनिबद्धाम् वा भूमिस्थे स्थिरे संजनतो न्तरापयायित्वम्* ।

3.102

। ध्वन्सस् तद् दृशम् अभिनिःसृत्याधर्मपक्षसंक्रान्ताव् अरुणोद्गतौ [43अ6] न संदिग्धतायाम्* ।

3.103

। नान्त्ये धिष्ठानस्य षडहे रूढिः ।

3.104

। ध्वन्सो वगतनिष्कार्य <<त>>स्याप्रतिनिर्वृत्यवस्थानयोः ।

3.105

। पर्यन्तं परम् अत्र सप्ताहत्वं ।

3.106

। अलब्धं संवृतेर् एष पर्यन्तः ।

3.107

। अन्यस्य चत्वारि षड्रात्रः ।

3.108

। दानम् अस्याः ।

3.109

। नात ऊर्द्धं बहिवस्तव्यता ।

3.110

। पञ्चानाम् अपि निकायानाम् एतत्* ।

3.111

। अन्तःसी[43ब्1]म्न्य् अस्य रूढिः ।

3.112

। भिक्षोः पुरस्तात्* ।

3.113

। अनाशंक्यम् अनाक्षिप्तत्वं तीर्थ्यस्य दृष्टेर् विवेचनार्थं ज्ञातेः करणीयेनागमाधिगमयोर् आत्मनः कांक्षाविनोदनार्थं गमनायैतत्कृतेः ।

3.114

। अनु<<त्*>>क्षैप्यत्वम् उपगततास्थस्य ।

3.115

। निदर्शनं वासः ।

मूल पाठ: Vinayasūtra · Edition: Preliminary transliteration of the ms. found in Tibet by Rahula Sankrityayana · Data entry Yoshiyasu Yonezawa et al. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc