भाषा

ENहिગુ
ग्रंथ पाठ

विनयसूत्र · अध्याय 2

2.1

। न नष्टप्रकृतिक्रितता प्रत्याख्यात[8अ2]त्वं ।

2.2

। न तत्यं ।

2.3

। न मूके ।

2.4

। नामौषगतिके ।

2.5

। नाभोधितत्वे ।

2.6

। न रहसि ।

2.7

। न रहस्संज्ञया ।

2.8

। शिक्षा प्रत्याचक्षे बुद्धं धर्मं संघं सूत्रं विनयं मातृकाम् आचार्यम् उपाध्यायम् आगारिकमान्धारयश्रमणोद्देशं षण्ड्कपण्डकं भिक्षुणीदूषकं । स्तेयसंवासिकं नानासंवासिकम् असंवासिकं तीर्थिकं तीर्थिकावक्रान्तगं मातृघातकं पितृघातकम् अर्हघातकं संघभेदकं [8अ3] तथागतस्यान्तिके दुष्टचित्तरुधिरोत्पादकम् अलं मे युस्मद्विधैः ब्रह्मचारितिः सार्धं संवासेन वासभोगेन चेति प्रत्याख्यानवचनानि ।

2.9

। प्रविष्टस्पर्शस्विकृतो प्रश्रावकरणस्य ।

2.10

। तत्र ।

2.11

। अविकोपिते ।

2.12

। मुखे वर्चोमार्गे वा ।

2.13

। विकोपितेषु स्थूलं ।

2.14

। अप्रतिबलत्वे ह्रासः ।

2.15

। अहासम् अमनुषगतिकत्वयौस्नपण्डकतासिव[8अ4]सेव्यसान्तरत्वमृततासु ।

2.16

। असंचेतितनष्टप्रकृत्यवर्स्थाकाम् अप्रविष्टत्वे ।

2.17

। स्वक्यतायां सेव्यमानस्य ।

2.18

। वहिर्निघर्षपूर्वकत्वे नन्तर्मुक्त<<त्वे>>परतायां ।

2.19

। नागुप्तो दिवा पार्श्वं दत्त्वा मिद्धम् अवक्रमेत्* ।

2.20

। तिस्रो गुप्तयः ।

2.21

। बद्धद्वारपरिवृतस्थत्वम् आरक्षितत्वं भिक्षूणा ग्रथितत्वम् अधोनिवसनस्य ।

2.22

। न यत्र स्त्रिया काम्येत तत्रो[8अ5]पसंक्रामेत ।

2.23

। न यत्रामनुषो स्पर्शायोद्यतः तत्र निवसेत्* ।

2.24

। धारयेत् तीव्ररागो वस्तिं* ।

2.25

। छागचर्मणो मृगस्य मूषिकस्य वा ।

2.26

। कषायानम् अदौर्गन्ध्यार्थम्* ।

2.27

। शोचनं शोषनञ् च ।

2.28

। तत्कालार्थम् अपरन्* ।

2.29

। प्राभूत्येन द्रवीभूतावास्तरदानं ।

2.30

। वालुकायाः पांशोर् वा ।

2.31

। निक्षिप्य शौचं कृत्वा भोजनचैत्यवन्दनं ।

2.32

। दन्तात् परं मुखस्यादिः ।

2.33

। वर्चोमार्गस्य विलगण्डिकान्तात्* ।

2.34

। चर्मपुटात् प्रस्रावणस्य ।

2.35

। मणेरस्य प्रविष्टता तदन्तः ।

2.36

। प्रदेशस्यास्याद् अष्टत्वं दष्टता शून्यत्वं क्लिन्नता शटितत्वं खादितता प्राणकैर् इति विकोपितता ।

2.37

। न मध्यछन्नत्वे गम्यस्याप्य् अपह्रासः ।

2.38

। अप्रज्ञाने च सन्धेः पाटितस्य मध्यासेव्यस्य संहितस्य ।

2.39

। प्रज्ञाने नन्तरं पर्व ।

2.40

। [8ब्1] स्थू[ल]कृत्वम् पक्वस्य निर्लोम्नः सूकरादेः ।

2.41

। शिरछिन्ने मुखस्य ।

2.42

। पृथक्*कृतयो<<ः>> कायात्य्सेव्यसेवनयोः ।

2.43

। अन्ययोर् अपि परकीययोः परत्र समायोजने ।

2.44

। अन्यस्य छिन्ने कायेपि छिद्रस्य ।

2.45

। सेव्यस्य चानन्तरस्य पण्डिकायां ।

2.46

। बाह्यस्य सीम्नः परस्तात्* ।

2.47

। प्रसेविकायाः ।

2.48

। द्विगुणीकृता स्पृष्टिप्रवेशयोः ।

2.49

। तद् अन्त्योक्तावन्तरणम् अभिसंहितं येना[8ब्2]न्तरितस्य न सर्वेण सर्वम् असंभावनं स्पृष्टेः ।

2.50

। अन्येनान्तरितत्वम् अस्पृष्टिप्रवेशेन व्याख्यातं ॥
प्रथमे पाराजिके पृच्छागतं ॥

2.51

। भिक्षुभावासंचेतनं प्रक्रितिनाशः ।

2.52

। द्वयं विकोपितत्व(ं)म् अन्तः वहिश् च ।

2.53

। कुपितत्वं शिक्षायाः सेवां प्रति परस्याभ्युपगतौ ।

2.54

। देयत्वम् अत्र पुनर् अस्याः ।

2.55

। स्थूलम् अस्यां भिक्षोः ।

2.56

। संग्रहगतौ च ।

2.57

। प्रवेशनार्थं व्रणपी[8ब्3]डने ।

2.58

। भीतिलज्जयोः संरागासंपत्तेः ।

2.59

। स्फोटादंगजातस्य रसासंवितौ ।

2.60

। अकर्मण्यप्रवेशने ।

2.61

। हस्तेन हस्तं पादेन पादं सन्धिना सन्धिं* वस्तिना वस्तिम् अत्यघट्टने ।

2.62

। इञ्जितत्वमात्रके संयुक्तस्य ।

2.63

। दादुदन्तशैलवस्त्रम् अपधीतिकोपक्रान्ताव् इन्द्रियमात्रस्य चेद् अवनामः ।

2.64

। सर्वाङ्गेषु स्पर्शदानेषु मौलं ।

2.65

। पादस्य सेवा[8ब्4]र्थम् उद्यतेनाङ्गजाते प्रक्षेपे ।

2.66

। वहिस्पर्शने सेव्यस्य तन्मात्रपरतयाङ्गजातेन ।

2.67

। पराज्ञपने च सेवायां ।

2.68

। न प्रकृत्या कर्मण्यत्वम् अपक्रामकृत्* ।

2.69

। नाग्रपृष्ठयोर्यतयाम्भस् ततो न्यतो निष्ठाने ।

2.70

। न शिष्टैर् अपि मार्गैर् उपक्रमिष्य इति ।

2.71

। तत्भ्रष्टो हम् इत्य् अभिप्रायः ।

2.72

। न रोगापगत्यर्थता ।

2.73

। न मार्गे न्यत्वसंज्ञानं विमतिर् वा ।

2.74

। स्थूलकृत्व[8ब्5]म् अनयोर् अमार्गे ।

2.75

। ..नापत्तिर् अतिद्रुतस्य स्त्र्युपरिनिपाते ।

2.76

। कण्ठे चाकाममार्तया च लम्बने ।

2.77

। स्पर्शने चौष्ठेनौष्ठस्य ।

2.78

। न शून्याः पुरस्तात् प्रश्रावं कुर्वीत्रः ।

2.79

। न यत्र प्राणात्ययापातस् तत्रारण्ये प्रतिवसेत् ।

2.80

। न यत्राङ्गजातादानभयन् तां नग्नो नदीन् तरेत्* ।

2.81

। संप्रजानन्न् एनां नावा तरेत्* ।

2.82

। गवाञ् च सव्ये गच्छेत्* ।

2.83

। उद[8ब्6]यन च प्रेक्षे[त्*] ।

2.84

। पिण्डाय च ग्रामं चरेत्* ।

2.85

। सुप्रत्यवेक्षितं कृत्वा प्रव्राजयेत ।

2.86

। नेकाक्य् अभ्यवकाशे पार्श्वं दद्यात्* ।

2.87

। नापावृतद्वारे गारे भिक्षुणी समापद्येत च ।

2.88

। हरणहारणयोः ।

2.89

। दूतेनापि ।

2.90

। अदत्तस्य ।

2.91

। पञ्चमाषिकादेः ।

2.92

। स्तेय[9अ1] । ।चित्तेन ।

2.93

। मनुषगितकपरिगृहीतस्य ।

2.94

। तत्संज्ञायां ।

2.95

। अनापेतत्वं स्वमित्वस्यापहृतत्वे नुत्सृष्टतायाम् आशयेन ।

2.96

। भवत्य् अधिष्ठातुर् अपात्रागतीये स्वामित्वं असत्वम् आशयानुबन्धस्याभ्यवहाराय दाने ।

2.98

। नान् अभियोक्तृस्वत्वम् अभिप्रयुक्तानां दवदहादिभिर् आदानार्थं मृगपक्षिसरीसृपा[णा]ं ।

2.99

। अनिगलने वस्तुतो व्यवस्था ।

2.100

। हारस्थानकालेन [9अ2] मूलस्य ।

2.101

। नानभिप्रेताद् आपत्तिः ।

2.102

। स्वभावको लिकविश्वासचित्तैः परं विज्ञाप्य ।

2.103

। अन्यथा विनास्तेयचित्तेन ।

2.104

। कृपपर्ध्यामोचने ।

2.105

। प्रयोगे दुःकृतं सर्वत्र ।

2.106

। स्थूलम् अस्मिन्न् अकाये मूलस्य चेत्* ।

2.107

। अनन्तरे चेतत्* ।

2.108

। न्यूनापकृतौ ।

2.109

। अस्वामिकस्य निवेः ।

2.110

। स्वस्यान्यगतेः ।

2.111

। अस्वीकृतौ च गोपननाशनवर्भोन्सर्गादौ वियोजने ।

2.112

। दुष्कृतं का[9अ3]रुण्यचित्तेन ।

2.113

। न प्रतिकृतावकृतत्वम् आदेः ।

2.114

। प्रयोगप्रयोगत्वं प्रागामर्शात्* ।

2.115

। अहानौ प्रतिपदं भेदः ।

2.116

। प्रतिसत्वं तत्गते ।

2.117

। न कीलान् मोक्षो नावः सृष्टिः ।

2.118

। हारो भारस्य तत्कृत्य हरणे ।

2.119

। निकरस्योच्च्[इ]त्य ।

2.120

। स्थानोत्तमातिक्रान्ति<<ः>> द्रव्यो तु मेन निमज्जने ।

2.121

। नयने सा मतिर् यास्मिन् यश् चाद्वारे ।

2.122

। च्युतिर् अपकाशने पार्श्वाधारस्य पार्श्वान्तरेण [9अ4] सीम्नः ।

2.123

। न व्यस्तान्तर्गतस्य तद्वत्त्वे ।

2.124

। तत्र रूपं चाटस्फोटितपेखावर्णान्तरसन्धिव्यवधयः ।

2.125

। व्यवधित्वं लक्षमाणप्रविभागार्थां प्राणि[नि] पार्श्वादीनां ।

2.126

। स्तरस्य स्तृतत्वे स्थानत्वं ।

2.127

। निक्षिप्तवत् प्ररोहः ।

2.128

। विवेचनम् आमुक्तास्य भूम्यातदतिक्रान्तः शुल्कस्य ।

2.129

। मनुष्यस्य संकेते न चेत् तत्संपत्तिः ।

2.130

। उत्पाटनं पक्षिणस् तथा चेत्* ।

2.131

। मुक्तिर् वद्धश् च तिरश्चः ।

2.132

। अनाभासित्वं निबन्ध[9अ5]नोर्यूथनाभ्यां ।

2.133

। आभासनं मन्त्रैर् आकर्षणे ।

2.134

। पूर्वम् अनुगच्छद् उपहरतोर् हानिनिवृत्यप्रक्रमप्रवेशो कोशैर् न तदात्तस्य ।

2.135

। नावः स्थलकुल्याप्रकीर्णोदकैः ।

2.136

। अनुत्स्नातश् च ।

2.137

। तिर्यङ्क्वा नाभाषितायां तीरान्तरस्य ।

2.138

। तत्प्राप्तिर् इतरथात्वे ।

2.139

। तरपुटकातिक्रमः प्रतिस्रोतः निष्पत्तिः स्वकर्मान्तस्य तदर्थं व्यधिकेतरस्यातु छन्देन परकर्मान्तेष्व् अम्भसः ।

2.140

। प्रेरणेन वारणे वा ।

2.141

। [9अ6] लब्धिरंशस्य तदर्थम् अपहर्तॄणां प्रतिपत्वृत्तान्तनिवेदने ।

2.142

। भूमिदृहयोः परिक्षेपेण संधिसङ्गतिः ।

2.143

। जयो विवादेन राजकुले चेत्* ।

2.144

। युक्तकुले चेन् निराकृतप्रयोगत्वं परअस्य ।

2.145

। अस्य प्रयोगत्वं ।

2.146

। अनाशङ्क्यमणध्वस्तेयचित्तस्य शुक्लगते दोषोत्थानं ।

2.147

। यदातुत्वं भाण्डस्य तस्य देयत्वं ।

2.148

। न मुक्ते न्यदीयातिक्रामणं न हारः ।

2.149

। नामुक्तो न्येनातिक्राम[9ब्1]येत्* ।

2.150

। नासंचेतितातिक्रामणासंपत्यै न पतेत ।

2.151

। आरक्षकस्थापनं भिक्षोर् अनेकस्य ।

2.152

। समुदानेयत्वं तत्भक्तस्य ।

2.153

। निवारणं तेन ।

2.154

। आख्यानं प्रक्षिप्ततायां ।

2.155

। चिह्नकरणम् असंभवे ।

2.156

। प्रच्छनम् आदाने ।

2.157

। स्पृश्यत्वम् असंपत्ताव् अन्यथापनयनस्य ।

2.158

निर्यातितत्वम् अप्रतिपातितस्य निश्चयोपगतौ ।

2.159

। संवर्णनं पित्रोस् तद् अर्थोन्मुक्यै ।

2.160

। रत्नानाञ् च ।

2.161

। दानम् इतरार्थार्थम् इतरार्था[9ब्2]द् उधारग्रहणधमर्णा ।

2.162

। न सशुल्ककरणीयोन्वोढिं* भजेत्* ।

2.163

। अतत्वं रक्तस्य गोमयनिष्पीड्येनापि ।

2.164

। छिन्नदशायाम् अस्य च ।

2.165

। अरूढिस् तन्मतेर् अदृस्ते ।

2.166

। न परवृत्तौ प्रहरेत्* ।

2.167

। नाविश्वसनीये विश्वस्ततां भजेत ।

2.168

। तत्वम् अधरस्योत्तरस्यां ।

2.169

। पृयो सौ मनापो गुरुर् भावनीयः पूज्यः प्रशस्यः प्रेताग्रहणेन ।

2.170

। कुर्यात् प्रतिकर्मणा कर्म पुण्यबुद्ध्या च ।

2.171

। न भृतिकया ।

2.172

। [9ब्3] न देशनिरुक्तेर् व्यसनं ।

2.173

। नापभ्रष्टमातुमतिचिरं धारयेत्* ।

2.174

। उपधिवारिकस्य देयत्वं ।

2.175

। संघे तेन प्राव्रजितसंभावनायाम् उपदर्शनं ।

2.176

। अननुमज्जे स्वामिनः प्रतिसंस्तरोगायाम् उपनिबन्धनं ।

2.177

। नाननुज्ञातात् ग्लानेन तत्भषज्यं पाचेत्* ॥
अदत्तादानपाराजयिके विभङ्गः ॥

2.178

॥ न सपरिग्र्हम् अनुज्ञा[त्]ओ न्येन कल्पेन स्वीकुर्यात्* ।

2.179

। न स्वीकृतं मोचयेत्* ।

2.180

। [9ब्4] याचैनं धर्मदेशनया ।

2.181

। उ<<प्>>आर्द्धमूल्येन च ।

2.182

। युक्तं पात्रचीवरस्य स्फुटेनापि ग्रहणं ।

2.183

। नासत्संभावना वा ह्य् उत्सृष्टम् इत्य् अमहाजनप्रत्यक्षम् अधितिष्ठेत्* ।

2.184

। नामनुषाधिष्ठत्वे शवद्रव्यस्यापरिग्रहत्वं ।

2.185

। पृष्ठतो स्य प्रदुष्टस्य गमनं ।

2.186

। अवमू[र्ध]कं निपन्नायोपरिदानं पादान्तात् प्रभृति ।

2.187

। नाक्षंतात् गृह्नीयात्* ।

2.188

। न स्वयं क्षण्वीत क्षाणये[द्] वा ।

2.189

। प्रतिशमनम् एव दन्तका[9ब्5]ष्ठो .. कोषाडुकगोमयमृदां यथासुखकरणं धारणम् अकामं संबद्धेनापहृयमानस्य भिक्षोः श्रामणेरस्य वा ।

2.190

॥ काकणिचतुष्कं माषकः ।

2.191

। निदर्शनं पञ्चत्वं चतुर्थस्य कार्षापणात्* ।

2.192

। यत्रास्य विङ्शतिपर्वत्वं तदाश्रित्य ।

2.193

। हारकालस्थानगणनेनास्य व्यवस्था ।

2.194

। प्रकर्षपर्यन्तभूतत्वम् अशक्यकरणमूल्यस्य महत्त्वेन ।

2.195

। नाल्पत्वेन [9ब्6] अस्य न्यूनत्वेनन्तर्गतत्वं ।

2.196

। अतुलरत्नत्वम् अत्र बुद्धधातोः ।

2.197

। दुष्कृतं पूजार्चतायां ।

2.198

। निर्दोषत्वं लेख्यस्य ।

2.199

। विनाश्यापहृतौ तद् अवस्थस्य हारवस्तुत्वं ।

2.200

। अपरिग्रहत्वम् उत्तरकुरौ ।

2.201

। स्वक्यवद् एतत्* ।

2.202

। तात्कालिकस्यात्मनः स्वामित्वं ।

2.203

। देवत्वं निर्वृतस्य ।

2.204

। प्रयोगवद् अनुज्ञातस्य निःसृष्टत्वेनोपभोगः ।

2.205

। दायनं च मन्त्रौषधाभ्यां ।

2.206

। पारार्थ्ये च मौल[10अ1] । ।विधं ।

2.207

। कल्पेन च ।

2.208

। विचपनं च रुचितापहारेछायां ।

2.209

। प्रयोगो व्यंसनं द्यूतेन चेत्* जितत्वभूतं ।

2.210

। एतद् अत्र हारः ।

2.211

। तस्य संख्याने ।

2.212

। तत्वं लोपाध्यारोपयो चिह्नस्य ।

2.213

। स्थानोत्तरे च निक्षिप्ते ।

2.214

। निष्पत्तिर् अत्र हारः ।

2.215

। तद्वद् वर्गान्तरे गणनं ।

2.216

। व्यपलापश् च पौर्वस्येतरेषु द्वै(न्)तरस्य वा पूर्वेषु ।

2.217

। यत्रैतत् सर्वादौ तत्रांशित्वं ।

2.218

। प्राप्नुवतोत्भावनञ् चाप्रभवतः ।

2.219

। अनादिष्टपाच[10अ2]नञ् च ।

2.220

। प्रयोगोपलापो(व)<<या>>चितकायम् इत्य् अकनिष्टक्षेपाणां ।

2.221

। संनिष्ठपनं हारः ।

2.222

। निहितनिक्षेपस्य सह चेद् व्याचनेन पञ्चाच् चातः पुरस्ताच् चेत् प्रयोगान्तरत्वं ।

2.223

। नाशनं स्थूरां छेदो मारणञ् च ।

2.224

। स्थूलकृत्वं सीमाकाशस्य शुल्कभंक्तौ ।

2.225

। निर्दोषत्वम् ऋद्धिनयने न्यसीम्नश् च ।

2.226

। दुष्कृतम् उद्योजनस्य ।

2.227

। मार्गान्तरोपदेशिश् च ।

2.228

। न्यूनम् उपा<<यो>>दाहारः ।

2.229

। पथिवदपथं ।

2.230

। अन्यावपनव[ं*] [10अ3] मुखकण्ठेनान्त्यस्य स्तेयचित्ततापगताव् अनुष्ठितत्वं ।

2.231

। न लिप्यादौ ह्रासः ।

2.232

। न प्रसज्य भञ्जनं च हारः ।

2.233

। न सस्थानस्य ।

2.234

। न मारितत्वं कृतता ।

2.235

। नैकदेशेन स्थानामुक्तौ ।

2.236

। शाटनं तेनापनये हारः ।

2.237

। निर्गमः स्यन्दकरकृच्छ्रिद्रणेन ।

2.238

। एकत्वञ् चापश्चिमाद् अतो त्र द्रव्यस्य ।

2.239

। प्रत्यादानं राशेः हारभेदः ।

2.240

। नियोज्यानैक्ये प्रनितदंशम्* ।

2.241

। हर्तृणाञ् च ।

2.242

। ल[10अ4]भेरन् एकमत्ये त्र हारः ॥

2.243

॥ प्रागन्ते मृतत्वे प्रतिनिक्षेप्यत्वं ।

2.244

। मृतपरिस्कार(ं)त्वं विपर्यये ।

2.245

। भ्रातृवत् संघो न तदर्थं हारो न स्वीकारः ।

2.246

। स्ववत् स्वम्यभेदः ।

2.247

। नापक्रमेणादाननिश्चये [वा] शिष्टैः हृतौ तद्गत्वं ।

2.248

। नांशस्वीकारेच्छानादानाभिप्रायः ।

2.249

। न तत्गतकर्मानुष्ठानं न तस्य ।

2.250

। न सार्धम्विहारित्वं अन्तेवासिता च हारा[10अ5]नुत्थाने कारणं ।

2.251

। मर्यादार्थे परिक्षेपे तन्त्रं ।

2.252

। न स्थितं मर्यादासंचारणस्यानेनाक्षेपः ।

2.253

। समक्षान्ते प्य् अनाभासित्वं हारः वशीकृतत्वं फलात् ग्रहे मनुष्यस्य ।

2.254

। नैषात्मनः ।

2.255

। न हारे यद् अभिसंहितं तत्संबन्धाद् अनाभिसंहित(ं)स्यापक्रमः ।

2.256

। स्थूलं यो यत् गृह्णीते तस्य तद् इति व्यवस्थायाम् अन्यहारे ।

2.257

। सपरिग्रहाच्छ्मशानात् ग्रहणो ।

2.258

। सूनकवाटव्[आ]ण्डपत्रपुष्पफलारामदेर् मन्त्रैर्शष[10अ6]णे ।

2.259

। ग्रासानुप्रदानेन नयताश्वम् अधिरूढेन चैवम् एष हर्तव्यम् इति कायविप्रकारे ।

2.260

। नावं च ।

2.261

। इत इति च ।

2.262

। मातृपितृभ्रतृभगिन्युपाध्याचार्यस्थूपसंघादौ संकल्प्य शुल्ककरणीयकरणीयातिक्रमणो ।

2.263

। याचितो धारयोर् अदानसंकल्पे ।

2.264

। वण्टने चान्त्यर्थं दत्तस्य ।

2.265

। परिगृहीतसंज्ञिनो परिगृहीते ।

2.266

। कुल्मासौदनसक्ष्णुमत्स्यमांसखाद्यवस्तुकपिण्डपादपरिग्रहे[10ब्1]नाज्ञाते न्यत्र वस्तुत्वं ।

2.267

। नामे धीष्टेन ।

2.268

। दुष्कृतम् अनिमन्त्रितभोजने ।

2.269

। गमने चापहृत्यै ।

2.270

। न संप्रधारणा स्यातः पृथक्त्वं ।

2.271

। निराग्रहम् इति स्वप्रत्यवेक्षितं कृत्वा गृह्णीयात्* ।

2.272

। न कायावपादं कुर्यात्* ।

2.273

। न कुलायकं भंज्येत्* ।

2.274

। नानुषितस् तत्र वार्षिके चीवरांशे वयतेत ।

2.275

। न हर्तुर् दानपतिचित्तेन प्रतिग्रहे दोषः ।

2.276

। नागमस्तैन्यचौराद् अध्वजबद्धका गृह्णीयत्* ।

2.277

। [10ब्2] शस्त्रलूनं दुर्वर्णीकृत्यातो गृह्(ण्)ईतं धारयेत्* ।

2.278

। दानम् एवं कृतस्यापि याचने ।

2.279

। न चक्रकं कुर्यात्* ।

2.280

। न मन्त्रैर् मोचने दोषः ।

2.281

। मूषिकापहृतस्य च स्वस्यादाने न्यभिक्ष्वर्थस्य तद् अर्थं ।

2.282

। .. अभिद्रुतस्य लुब्धकेर् मृगस्याश्रमं प्रविष्टस्यादाने ।

2.283

। मृतस्यास्य तेभ्यो देयता ॥
अदत्ता(न्)दानपाराजयिके विनीतकानि ।

2.284

। न मरण[10ब्3]चेतनानुगुणं ग्लानायोपसंहारे स्नपसंहरेत्* ।

2.285

। नाविज्ञ्[आ]म् अस्यानुक्तौ मृत्यौ प्रत्यनीकत्व(ं)म् उपस्थापयेत्* ।

2.286

। न सत्यां गतौ ।

2.287

। न मरणोपकरणम्* ।

2.288

। मरणार्थाद् एनम् अनुष्ठानाद् उपस्थाको वारयेत्* ।

2.289

। नार्थार्थे परस्य मृत्युम् आकांक्षयेत्* ।

2.290

। अकरणीयत्वं चित्तं नाकरणीयकरणानुमोदनस्य ।

2.291

। जीवतौपरोधा ।

2.292

। तच् चित्तेन [10ब्4] मनुषगते ।

2.293

। अभेदः कायतत्संबद्धमुक्तपर<<स>>मादापनानां ।

2.294

। विषचूर्णगर्तदारुनष्टप्रकृतिप्रेषणोर् अस्कन्दपत्रकूटवेताडमन्त्रप्रयोगानां पातनस्य ।

2.295

। जलाग्न्योः प्रक्षिप्तेः ।

2.296

। धारणस्य शीतोष्णयोः ।

2.297

। दौत्यप्रेषणादीनां अल्पत्वस्यानुष्ठाने ।

2.298

। स्त्रीपुरुषषण्डकत्वे घात्यस्य ।

2.299

। अन्यदा तन् निदानं मृतौ ।

2.300

। अनिमित्त[10ब्5]त्वं विवृन्दनात्* परस्याम्* ।

2.301

। स्थूलम् अभिसंहितस्य मातृगर्भयोः कुक्षिमर्दे ।

2.302

। अधिवासनायां तु तन् निमित्तं वधप्रवृत्त्[ए]ः ।

2.303

। त्वन् नाम्ना मरणोपकरणं ददामीति चोक्तेः ।

2.304

। अन्यघाते वा तिरश्चो निर्मितस्यापि ।

2.305

। नानुक्तम् अवलोक्येन ग्लानाय भैषज्यं दद्यात्* ।

2.306

। वेद्यतत्प्रव्रजितक्लिष्टानाम् अत्रावलोक्यत्वं ।

2.307

। व्यधिना च ।

2.308

। वृद्धवृद्धानां [10ब्6] सप्रव्रजानां भिक्षूणां ।

2.309

। पूर्वाभावे परस्य ।

2.310

। अभावो मरणाय हितकामतया भैषज्यानुप्रदाने ह्रासस्य ।

2.311

। नासह्यभारो <<त्र>> क्षेपे साहार्जय्यं भजेत्* ।

2.312

। भजेत दूपश् चेत् प्रत्ययो व्यवकीर्णतायां गृहस्थैर् नियुक्ततायां समोत्क्षेपे ।

2.313

। स्थापने पि समत्वे नियुञ्जीत्* ।

2.314

। नेष्टका क्षिपेत्* ।

2.315

। न चटितां स्फुटितां वा नारोच्य तत्वम् अ[11अ1]र्प्ययेत ।

2.316

। कुर्यात् तस्करपराभृत्यै फिप्फिरं* ।

2.317

। क्षिपेत्* परिकृतां संगण्ढादि ।

2.318

। अनुवातं च पांसुघटभस्मकर्परं ।

2.319

। धारयेत्* क्षपनं ।

2.320

। न श्रान्तं क्षिपेद् भिक्षुं ।

2.321

। सनाथ्यस्यास्य करणम् ।

2.322

। विश्रामणं ।

2.323

। भाण्डिकदानं ।

2.324

। अशक्तौ प्राप्णुम् आवासं समं चेन् न काले भक्तस्य पानकस्य वा ।

2.325

। पात्रनिर्मादनं ।

2.326

। गन्त्रीस्थापनं ।

2.327

। प्रतिग्रहणं ।

2.328

। प्रत्य[11अ2]वेक्षणं ।

2.329

। काले चेत् प्रत्युत्गमनम् आदाय ॥
वधपाराजयिके विभङ्गः ॥

2.330

॥ हस्तछेदनम् मनुष्यगतिकस्य स्थूलं ।

2.331

। दवे ग्निदाने ।

2.332

। केशविक्रये ।

2.333

। राजकुले येन मुषितस् तस्यार्पणे ।
वधपाराजयिके क्षुद्रकगतं ॥

2.334

॥ नियोगोपदेशः ।

2.335

। निदर्शनम्* मातृगर्भः ।

2.336

। स्थूलम् आत्मनो घाते ।

2.337

। दुष्कारो साधुर् अविकृतचित्तस्य कारः ।

2.338

। नासंहिता[11अ3]र्थसंपत्ते कर्तृत्वं ।

2.339

। न जन्मान्तरे कर्मोदयः ॥
वधपाराजयिके पृच्छागतं ॥

2.340

॥ स्थूलं मृत्युर् एवं मे भवतीति ब्रुवाणस्याप्रति(य)<<प>>ता तथात्वसंपादने मृयताम् इत्य् अनुस्थानैः ग्लानस्य ।

2.341

। असंप्रेयाभ्यवहार्यदाने ।

2.342

। गण्डस्यापरिपक्वस्य पाटने ।

2.343

। गर्तप्रक्षेपकवाटयी उनादौ पातने ।

2.344

। प्रपातोत्सर्गोद्वन्धादौ मरणार्थे नुष्ठाने ।

2.345

। न ग्लानाय सहसा [11अ4] शस्त्रकं रजुम् वा दद्यात्* ।

2.346

। संप्रजानं वैयपृत्यं कुर्यात्* ।

2.347

। मन्त्रचपेटञ् च दद्यात्* ।

2.348

। प्रहारञ् चादेरपनोदाय तत्भूतः सुप्रत्यवेक्षितं कृत्व ले..येत्* ।

2.349

। नाल्पांशो गुरुभारोद्यमं कुर्यात्* ।

2.350

। नावमुर्धको गच्छेत्* ।

2.351

। नाशिक्षितः शिक्षां योजयेत्* ।

2.352

। न प्रहरणम् उक्ताव् आज्ञापयेत्* ।

2.353

। न ग्लानम् असमर्थनिनयेत्* ॥
वधपाराजयिग विनीत[का]नि ॥

2.354

॥ विनिधाय संज्ञाम् उत्तरमनुष्यधर्मयुक्ततोक्ता<<व् आ>>त्मनः ।

2.355

। तत्वं पश्यामि मा पश्यन्ति शब्दन्* शृणोमि मम श्रेण्वन्त्य् उपक्रमामि मानुपसंक्रामन्ति सार्धम् आलपामि संलपामि प्रतिसंमोदे सातत्यम् अपि समापद्ये मया सार्धम् इत्य् उक्ते ।

2.356

। देवनागयक्षगन्धर्वकिन्नरमहोरगप्रेतपिशाचकुम्भाण्डकटपूतनप्रतियो[11अ6]कितायां ।

2.357

। स्थूलकृत्वं पांसुपिशाचकस्य ।

2.358

। अनित्यादिसंज्ञा<<ध्याना>>प्रमाणारूप्यफलाभिज्ञादिकम् उत्तरो धर्मः ।

2.359

। स्थूलकृत्वं स्वलक्षणग्राहकस्य क्लेशविस्कम्भिनः शमथनिमित्तस्य ।

2.360

। नानुक्तिस् तद्व त्व् अस्य तद्वद् धर्मकत्वोग्तिः ।

2.361

। परावदेशत्वम् अस्त्य् असाव् इत्य् उपसन्धाने स्वस्य ।

2.362

। नोपसंधाने ।

2.363

। नासमन्वाहृत्य व्याकुर्यात्* ॥
प्रलापे विभङ्गः ॥

2.364

। [11ब्1] नाख्यापनम् उत्तरस्य प्राप्तपरिहानिप्रतिपादनम्* ।

2.365

। उत्तरख्यापनछन्देन सनामार्थाभिधाने स्थूलं ।

2.366

। विपर्ययस्य ।

2.367

। संसूचनेन च न भूतोत्तरत्वे स्य जातत्वं ॥
प्रलापे पृच्छागतं ॥

2.368

। स्थूलम् अर्हन्तदन्तोग्रचार्हसि चीवरादिकं ब्राह्म[ण्]ओ वाहित<<प>>आपधर्मा षड्गतस्येन्द्रियाणि सुदान्तगुप्तरक्षितभावितानीत्य् उक्तस्य तूष्णीम्भावेनाधिवासने ।

2.369

। यदि भदन्तो र्हन् पिण्ड[11ब्2]पा[त्]अं मे गृहाण प्रविश गृहाम् आसने निषीद <<ह>>स्तोदकं गृहाण भोजनं प्रतिगृहाण सूपिकं भुं[क्]ष्वानुमोदस्व निष्क्रामेति तद्वत् संपादने ॥
प्रलापे विनीतकानि ॥
समाप्त उत्तरप्रलापः ॥

2.370

॥ अभाववत् स्वप्नः ।

2.371

। अकृतत्वं तत्*फलस्य ।

2.372

। मोचने ।

2.373

। तच्छन्देन ।

2.374

। स्वशुक्रस्य ।

2.375

। आद्ये ।

2.376

। अविशेषः सुखविद्याबीजभैषज्यमीमांसार्थितानां ।

2.377

। [11ब्3] स्पर्शनेन ।

2.378

। व्यापृत्या ।

2.379

। अङ्गजातस्य ।

2.380

। बाह्येनापि सत्व(ं)संख्येन स्थितेन तदाहारे ।

2.381

। विनाप्य् अभिनिग्रहाभिनिपीडनाभ्यां ।

2.382

। विनिर्भोगव्यासकव्यवसर्गसुखप्रत्यनुभवैश् च ।

2.383

। अनाडीगतस्य <<अ>>कृतत्वं वि(द्)धावस्थायां प्रतिविरतो समाप्तेः ।

2.385

। ह्रासकृत्वं नृतुप्रनृतुयोः ।

2.386

। आकाशे कटिचालनस्य ।

2.387

। प्रदेशान्तरस्पृष्टेः ।

2.388

। [11ब्4] प्रतिश्रोतो धारणकस्य ।

2.389

। प्रतिवातञ् च ।

2.390

। अभिनिर्भोगसुखप्रत्यनुभावोपसंपतः ।

2.391

। नाडीगतस्य ।

2.392

। न मापनार्थतयां रक्तचित्ततायां स्पृष्टिर् अप्रयोगः ।

2.393

। दर्शने दुष्कृतं ।

2.394

। धारणे चानुश्रोतोवातं ।

2.395

। अनापत्ति सहसा अतदर्थप्रवृत्ताव् ऊरुवस्त्रपरसंस्पर्शकण्डूयनैः ।

2.396

। अस्पृश्यानुभूतेः ।

2.397

। स्मरणतस् तस्यापि ॥
मोचने [11ब्5] विभङ्गः ॥

2.398

। च्यविष्यमाणाच्युते समनन्तरं विण्हनाडीगते ।

2.399

। नारम्भमात्रेण प्रयोगत्वं ।

2.400

। तद्व त्वं निष्प्रयोगायां मुक्तौ स्वादने ।

2.401

। न पीडमर्दपरिमर्दानाञ् चाङ्गजातस्य ।

2.402

। कर्मण्यस्यास्य परिमार्गे भैषज्येन मोचन ।

2.403

। परकीयच् च ॥
मोचने पृच्छा ॥

2.404

॥ विनीलिकादौ विघटिति अस्थिशङ्कलिकयोः शिर<<ः>>कर्णनाससु ग्रिवान्त[11ब्6]रे पार्श्वपृष्ठक्रोडवलिषु वालान्तरे हस्तांसबाहुषु बाह्वन्तरे कट्युरुपादजं*घासु जंघान्तरे च मोचने मौलं ।

2.405

। स्थूलकोचवनेअमतचिलिमिनिकबिम्बोपधानकमंचपीठवृशि<<काय>>पीठान्तरे घटघटिकाघटविकरकिनीकठिल्लकशिलालेपलेपान्तरार्गडमांसपेशिषु ।

2.406

। व्रणपीडने ।

2.407

। निपीडने स्त्रीक्यं तस्यारम्भे ।

2.408

। अङ्गु[12अ1]ष्ठस्यात्र प्रक्षिप्तौ ।

2.409

। उपसंक्रामतो मुक्तौ ।

2.410

। संक्रामप्तश् च स्थानात् स्थानं ।

2.411

। अयोनिशश् च मनसिकुर्वतः ।

2.412

। अंगजातं धारयतः ।

2.413

। अनापत्तिः वस्तिसंघर्षणात्* ।

2.414

। परिष्वङ्गेनापीदानीं* पुराणद्वितीयया ।

2.415

। पादजंघाबाहूर्वंगुल्पादौ च स्त्रिय ग्रहणे ।

2.416

। स्त्रिया कर्तृत्वम्* ।

2.417

। [12अ2] इह ।

2.418

। रहसि निषद्यास्थानयोः ।

2.419

। सभोजनतायाञ् च ।

2.420

। सह शय्यायां अध्वन्यविज्ञपुरुषया सार्द्धमूढो ।

2.421

। उत्तरत्र द्वये ।

2.422

। देशेने गृहिण्याः पुंसो .आन्निध्यविज्ञस्य ।

2.423

। सान्निध्ये प्य् अकल्पिकायां ।

2.424

। दुःकृतस्य ।

2.425

। न्यूनत्वं द्वीपान्तरजाविकारभाजो ।

2.426

। वोढृत्वम् अस्य ।

2.427

। व्यर्थं ताद्विध्ये परं लिङ्गम् ।

2.428

। अवताकरम् अत्र ।

2.429

। आज्ञाने सुभषित[12अ3]दुर्भाशितयोर् अर्थस्य त्रयो न्.ये न्यत्र प्रतिसेवने मेथुनस्येति प्रतिबलत्वे मौलस्य ।

2.430

। अनन्तरस्यान्यत्र ।

2.431

। तद्वत् पण्डिका पण्डिको निर्मिता च ।

2.432

। इह च त्रये पुरुष ।

2.433

। तत्सुखानुभवनछन्दे चेत् संरागसंप्रयुक्तेनेति ।

2.434

। गात्रसंम्सर्शस्वीकारे ।

2.435

। तद्वत्वम् अत्र वेणेः ।

2.436

। तत्प्रतिबद्धस्य च चीवरस्य ।

2.437

। अविशिष्टत्वम् आमर्षयामर्शालम्भग्रहणाकर्षपरिक[12अ4]र्षोल्लिंगाव् अलिङ्गाभिनिपीडानाम् ।

2.438

। सेव्यकृत्वस्य च ।

2.439

। अनन्तरं चीवरान्तरये ।

2.440

। अनन्यत्वं दुष्कृतह्रासस्य ।

2.441

। न भिक्षुणी स्पृशेत ।

2.442

। न स्त्रियं ।

2.443

। स्पृशेद् अंभस्यार्ताम् उत्तारणाय बाहौ केशेषु वा मातृदुहितृभगिनीसंज्ञाम् उपस्थाप्य ।

2.444

। वालुकास्थाने चेष्टालाभार्थम् अवाङ्मुखावस्थापनं ।

2.445

। पीठवत्* रक्षणं ।

2.446

। भक्तायावलोक्य गो[12अ5]पालपशुपालकान गमनम्* ।

2.447

। प्रत्यवेक्षणं जीवति न वेति पौनःपुन्येन ।

2.448

। निर्दोषो नुकम्पया शुद्धचित्तस्य स्त्रिपरिष्वङ्गः ।

2.449

। श्लक्ष्णोष्णमृदुकाभिप्रायत्वे स्थूलं* ।

2.450

। अनापत्तिर् अनुकम्पया दुःखात मोचने ।

2.451

। मातृदुहितृभगिनीषु तत्संज्ञाने ।

2.452

। पूर्वसंभुक्तायां संमोदने ।

2.453

। भिक्षापांसुलेड्डुकादेः स्त्रीन्द्रिये प्रक्षिप्तौ स्थूलं ।

2.454

। दुष्कृतं पादांशादिना स्त्रीघट्टने ।

2.455

। तदासनस्य च ।

2.456

। पिच्छिलितपतितस्त्र्युत्थापने ।

2.457

। अनापत्ति स्त्रियास्यै तत्त्रयकरणे ग्रहणे च ।

2.458

। आलिं*गने मात्रा ।

2.459

। दुहित्रोत्सङ्गे निषन्तौ ।

2.460

। स्त्रिया प्रस्खल्योपरि पाते ।

2.461

। [12ब्1] मेथुनोक्तौ ।

2.462

। याद्यर्थेन ।

2.463

। यत्र बोद्धुं भव्यता स विज्ञपने न्तः ।

2.464

। न तद्गतार्थोक्ते ऽप्रयोगत्वं ।

2.465

। अविशिष्टत्वं वर्णावर्णयाज्ञोपयाज्ञापृच्छापरिपृच्छाख्यानाशंसाक्रोशप्रत्यनुभाषणप्रतिपदां ।

2.466

। अनापत्तिर् अर्थान्तराभिप्रायेण जनपदनिरुक्तिवशात्* ।

2.467

। सदृशाङ्शत्वस्य वा नाम्नः ।

2.468

। स्थूलं छेकाशीति [12ब्2]वादे पापिकसीति छेकं ते पापकं वा व्रणमुखम् इति संविभागं कुर्विति मां संविभजस्वेति मया सार्धं स्वपिहि समागमम् वा कुर्विति ।

2.469

। तथाविकुर्वाणधर्मिकाभाषणे ।

2.470

। यवान् देहि देहि भगिनि मह्यं यत्ते भगिनि पश्यामि तद् देहि यत् ते भगिनि पुरतस् तद् देहि यत् ते भगिनि मन-आपं तद् देहि प्रियं ते देयम् इत्य् अहम् उक्ता किन् ते प्रियम् इत्य् उक्ते त्वं [12ब्3] मे भगिनि प्रिया ।

2.471

। देहि मे भगिनि पानीयं खाद्यकं यवागूं भोजनं त्वम् एवैतद् इत्य् उक्तिषु ।

2.472

। गर्दभास् त एतत् कुर्वन्त ।

2.473

। चारिकां भगिनि चरस्य् उल्लापयमाना पुरुषान् पिण्डपातं ।

2.474

। अलातमस्मिन् प्रक्षिप्तेति च ।

2.475

। प्रक्रित्या च दौष्ठुल्यभाषिणो दुष्ठुलया भाषणे ।

2.476

। मेथुनेनात्मनः परि[12ब्4]चरणस्य वर्णने ।

2.477

। तद्वत् तद् वर्णितानुमोदनार्थं वचनं ।

2.478

। तद् एव प्रत्युच्चारणं ।

2.479

। तेन मेथुनेन वानुपसंधाने प्रयोगत्वं ।

2.480

। उभाभ्यां तस्य ।

2.481

। परिचर्यासंवर्णनं ।

2.482

। संयोगे ।

2.483

। अन्यस्य ।

2.484

। अन्येन ।

2.485

। तदर्थं ।

2.486

। अनुपनतोपनतेः सम्पत्येः गृहीतदौतेयस्य संप्रयोज्यतो निवेदि भवतस् तत्रेतरतदुक्ते पूर्वत्र प्रवेदने ।

2.487

। कृतत्वं श्रु[12ब्5]तत्वे प्यमध्यवृत्तेः ।

2.488

। पृथक्त्वम् एषां करणीयतायाम् ।

2.489

। नाकर्तृत्वे ऽन्त्यस्य नृत्वे न प्रयोगत्वं ।

2.490

। न फलेक्यात् प्रतिकर्तृसमाप्ते व्यापारस्य लोपः ।

2.491

। स्वत्वम् अत्र दूतस्य ।

2.492

। संप्रयोज्यत्वं तत्प्रभोः ।

2.493

। दुष्कृतत्वम् अन्यस्य ।

2.494

। वाक्त्वं लिपिहस्तम् उद्रोद्देशं संकेते निमित्तानां ।

2.495

। अनुपनतिर् वेश्यात्वं ।

2.496

। प्रवतत्वं चास्वत्वेन प्राक् चतुष्टात्* ।

2.497

। [12ब्6] भ्रष्टत्वं फलहितत्वे ।

2.498

। तद्वशा चेद् अभार्यानुश्रावितत्वे प्राणिवत्त्वं तदन्तरसमन्तरकलिहितत्वतिलिन्तिलिकाच्छिन्नत्वत्रिसङ्करापरितत्वाचारप्रतिनिःसृष्टत्वाभार्यानुश्रावितत्वघण्टा च घुष्टत्वानां दुःक्रितकृत्त्वं त्रयस्यास्याम् आर्यस्य ।

2.499

। कस्माद् अयं न प्रतितिष्ठतीयं न गच्छति श्वशुरगृहान् न नीयत इति चोक्तीनां ।

2.500

। [13अ1] स्थूलं गर्धासन्निपतासेवनक्रीडोपनतात्मनां सांचरित्रे ।

2.501

। व्यपदेशे प्रतीष्टतायां ।

2.502

। कलिहेन हारणे ।

2.503

। भार्याम् अमुका स्त्रियं क्रीणीहीत्य् उक्तौ ।

2.504

। दुष्कृतं स्त्रियम् इति ।

2.505

। काचिल् लभेति च ।

2.506

। स्थूलं दत्ततो त्त्रमसमाधानेन ।

2.507

। धर्मोपाधिं* पुरस्कृत्य शब्दनेन ।

2.508

। अन्यार्थाम्(अ) संहितञ् च(ं) ।

2.509

। नादुष्टताया सत्त्वस्यान्यत्रेत्य् अनाक्षिप्तत्वं ।

2.510

। निर्दोषम् अयात्र ईर्यापथचतुष्कस्य ।

2.511

। अतन्त्रत्वं नियुक्तत्वानियुक्तत्वयोः ।

2.512

। स्वत्वं नियुक्तस्य ।

2.513

। प्रतीष्टा वः यथोक्तकारे कायेन वा वाचा वा ।

2.514

। एकत्वं कृतेः ।

2.515

। अकर्तृत्वम् अङ्गानां भेदस्य ।

2.516

। याचिते नुज्ञाते वा तेन तद्विधेनाशुद्धे

2.517

वस्तुन्य् अदेशिते आवसस्य कारणे न्ते ।

2.518

। अनन्तरे प्य् एतद् अया[13अ3]चितत्वं ।

2.519

। एकार्थम् अतिप्रमाणस्य ।

2.520

। अकल्पिकता सारम्भत्वम् अपराक्रमतेत्य् अशुद्धिः ।

2.521

। क्षुद्रजन्त्वाशयवत्त्वं राजकुलतीर्थकावसथसन्निःसृतत्वाच् छेद्यवृक्षत्वम् अर्वाग्व्यामान्तानन्तर्यतो बहिर्नदीप्राग्भारोदपानावष्टब्धत्वम् इति यथासंख्यम् एतानि ।

2.522

। प्रामणिको हस्तो ध्यर्धः सुगतवितस्तिः ।

2.523

। तत द्वादशकसप्तको प्रमाणाम् अ[13अ4]न्तरत ।

2.524

। लब्धदेशनत्वं संघतो देशितत्वं ।

2.525

। नाशुद्धस्य याचेत्* ।

2.526

। स्वप्रत्ययेन वा गच्छेयु नियुक्तानां वा भिक्षूणाम् ।

2.527

। संस्तरे प्य् एतत् ।

2.528

। अनापत्तिः कृतलाभपरिभोगयोः ।

2.529

। पुराणाभिसंस्करणे च ।

2.530

। प्रयोगत्वम् आरम्भस्य ।

2.531

। तद्वद् अच्छन्नकारणे न्तः ।

2.532

। अनेकार्थं [13अ5] अनिसृष्टे पौद्गलिकेन ।

2.533

। विप्रकृतस्य च ।

2.534

। दुष्कृतम् अनिर्वाहे याचनाद् ऊर्धं ।

2.535

। पाराजयिकाध्याचरणस्य भिक्षोर् ध्वस्तस्याप्य् अनङ्गम् अत्र पक्षतः स्वत्वं मृषावादेन कस्यचिद् विज्ञप्तौ ।

2.536

। च्याचनच्छन्देन ।

2.537

। न तं मूलम् अन्तरं ।

2.538

। असत्वं प्रमुषितस्य अकारणमृषावादित्वे ऽर्थतत्वं ।

2.539

। [13अ6] वाच्यान्तरप्रतिष्ठेन वाक्येन मृषा ।

2.540

। स्थूलम् असेवनेनानुध्वंसने ।

2.541

। अनुत्*ग्रहे च नाम्नः ।

2.542

। तथागतस्यान्तिके दुष्टचित्तरुधिरोत्पादने संघभेदे च संसूचने सन्धाय भाषितम् इत्य् अपि दुष्कृतं ।

2.543

। परपर्षदपकृष्टौ स्थूलम् ।

2.544

। निवाररूपेणाप्रतिनिसर्गानुष्ठानरूपानु[13ब्1]गतिः ।

2.545

। निवारणवत्त्वं ज्ञप्तेः एकक्षणात्वं वाक्यस्य ।

2.546

। पृथक्त्वम् आवृत्तेः ।

2.547

। न निगमनस्य ।

2.548

। प्रयोगत्वं प्रवृत्तेः ।

2.549

। तस्याकृतप्रवासनीयचोदनस्मारणस्य ।

2.550

। अनाज्ञप्यत्वम् अस्य ।

2.551

। नैषु न नाज्ञपयेयुर् मेथकेन कर्मणा च ।

2.552

। तदन्ते प्रतिनिसर्गे ।

2.553

। पराक्रान्तित्वस्य ।

2.554

। भेदे ।

2.555

। संघस्य ।

2.556

। [13ब्2] तत्साहाय्यप्रतिपत्तृतायाः ।

2.557

। स्वप्रवासनस्य कर्तरि संघे मिथ्याशायेनैषास्यात्र प्रवृत्तिर् इति वक्तृत्वस्य मृषा ।

2.558

। चोदितत्वे भिक्षुणाधिशीलम् अवचनीयत्वस्यात्र भिक्षुभिर् आत्मनः कृतेः ।

2.559

। नापूर्वे होरात्रे [13ब्3] नस्त्य् अस्य सत्त्वं ।

2.560

। प्रयोगपात्रत्ववासे ।

2.561

। प्रथमारुणादिर् एषो स्य ।

2.562

। सूर्योद्गमने कर्म [वृत्य]ये ।

2.563

। सत्वं नैसर्गिके संज्ञानतः प्राधान्येन ।

2.564

। अपेतत्वम् अस्य निर्यातितत्वे (निर्याचितत्वे) ।

2.565

। तत्वं प्रव्रज्यापेक्षार्थतायां नियमनस्य ।

2.566

। चीवराद् विकल्पनायाञ् च ।

2.567

। ध्वंसो त्रानुवृत्तत्वस्य ।

2.568

। भ्रंसे च प्रकृते ।

2.569

। सतो स्यान्यत्रापि तद्वस्तुनि [13ब्4] जातत्वं ।

2.570

। सजातो साप्ताहिके ।

2.571

। नैसर्गित्वस्य तदापत्तिसत्तायां स्वीकृते परिस्कारमात्रे ।

2.572

। नेतद् ऊनत्वे खण्डस्य ।

2.573

। सांघिकस्य च ।

2.574

। निस्तत्वम् अत्र तन्त्रम्* ।

2.575

। नेदम्* त्रयम् आस्तीर्णकठिनस्य ।

2.576

। सद्भावे स्वत्वस्यानुवृत्तस्य दशरात्रं ।

2.577

। पराहादौ ।

2.578

। वाससि ।

2.579

। त्रिमण्डलस् छादिपर्यन्तप्रमाणे ।

2.580

। असम्बद्धे धिष्ठानेन ।

2.581

। [13ब्5] सम्बद्धे च सानुवृत्तौ अन्यत्रानधिष्ठिततद्गोत्रात् प्रभृत्य् अन्यत्र ।

2.582

। निर्दोषो निशदनेन विप्रवासः ।

2.583

। न प्रमील्य प्रत्यास्तरणं गच्छेन् न चेद् अन्यैव प्रतिप्राप्तिर् इति संस्था ।

2.584

। वासे देवम् अभिप्रेत्य गतो कालसम्पत्तौ तत्र याचित्वैतत्* ।

2.585

। असम्पत्तौ चतुर्गुण उत्तरासं*गे बहुतरजागरणेन ।

2.586

। नानर्हे संघाटीनिक्षिप्ते[13ब्6](र्) आवसे वर्षाषाटि निक्षिपेत्* ।

2.587

। न वृष्टौ ।

2.588

। न नद्यन्तेरेतत्वे गन्तव्यस्य ।

2.589

। नानयोर् आशङ्कायां ।

2.590

। सभिक्षुकसकपाटकत्वं* साहितम् आवास्यवर्षत्ता देवस्य वर्षाशङ्किता वा जलान्तरितत्वं गन्तव्यस्येत्य् अस्याभावेनादत्तसम्वृत्तिर् अणास्तीर्णकठिनः संघाटीं* विना न क्वचिद्* गच्छेत्* ।

2.591

। अन्याधिष्ठानम् उत्सृज्य चीवरस्थानप्राप्त्यसंभवे प्रति[14अ1] । । विधिः ।

2.592

। दानम् अविप्रवाससंवृत्तेः संघाट्या गुरुकत्वे जीर्णं वाधिकयोः ।

2.593

। अधिष्ठितस्यालब्धसम्वृत्तेः कर्तृत्वं ।

2.594

। सोपविचारात् तत्स्थानाद् अन्यत्र स्थितस्यारुणोद्गतौ ।

2.595

। कृतमर्यादे मर्यादास्थानपर्यन्तः ।

2.596

। नैकत्वे परिगृहीतुर् अवान्तरमर्यादानां भेतृत्वम् ।

2.597

। अविभक्ततायां च धनतो दृष्टितश् च ।

2.598

। शाखोप[14अ2]शाखानाम् असंसंगे पृथक् स्थानत्वं साधारण्यमूलस्य ।

2.599

। मूलामूलादेश् च ।

2.600

। संसक्तशाखाविटपवृक्षाणाम् एकस्थानत्वं ।

2.601

। तलक इव तत्राधोभागस्य प्रवेशः ।

2.602

। नौशकटयोश् च ।

2.603

। निर्मर्यादे व्याप्यङ्गपर्यन्तः ।

2.604

। उपविचारव्यामस् सामन्तकेन ।

2.605

। कुड्यपरिक्षिप्तो ग्रामे यावत् षड्गवयुक्तेन वंशशकटेन[14अ3] स्फुरणम् अध्वना वा कुक्कुटस्योत्पात्य निलयने वाटपरिक्षिप्ते जैडकरजासंप्रकृतिह्रीमत्पुरुषप्रविचारभूम्यध्वना वा ।

2.606

। परिखापरिक्षिप्ते द्वादशपदिकया निःश्रयण्या च्छोरितसंकारस्थूललोष्टाध्वनो वा ।

2.607

। तत्स्थाने त्रिकरणीयपरिसर्पणातिना मन रजोभिश् च यावतस् तदगतस्य संभावनं ।

2.608

। निर्मर्यादे ऽध्वन्यभिन्नग[14अ4](ग)तेर् मनुष्यस्येकान्न(ं)पञ्चाशद् व्यामाः ।

2.609

। न सीमान्तरं पृथक्त्वं क्रोशान्तान् मध्यतः परस्य ।

2.610

। न पापखण्डतोपगताव् अधिष्ठनस्य ।

2.611

। नारूढिनैसर्गिके ।

2.612

। सांघिके च ।

2.613

। भवत्य् अतो विप्रवासः ।

2.614

। नान्याधिष्ठानाद् अन्यस्थानत्वहानिः ।

2.615

। नान्येदं धर्मकयोः दृष्टितश् चेदनाक्षेपः ।

2.616

। [14अ5] न साधारणैर् द्वारकोष्ठकस्य ।

2.617

। न धनत इति पितृपुत्रयोः ।

2.618

। विवर्जिताप्य् एतत्* ।

2.619

। सभोजनत्वे च ।

2.620

। नोपविचारत्वं ग्रामे स्याभवतो विहारस्य ।

2.621

। पूर्णवदसत्यां पूरकप्रत्यासां मां न्यूनं मां समसामन्तकात्* ।

2.622

। सत्वे चाधिष्ठानिकस्य ।

2.623

। अन्यत्रास्य त्रिंशद्राह्रातिक्रान्तौ ।

2.624

। अ[14अ6]पूरकत्वम् विजतियस्य वर्णादितः ।

2.625

। सर्ववर्णत्वं शौक्ल्ये ।

2.626

। तद्गणाहादौ एथितत्वं संपत्तौ तस्य ।

2.627

। पुटद्वयम् अहतात् संघाटीपर्यन्तः ।

2.628

। निषदनस्य च ।

2.629

। एक उत्तरासंगान्तर्वासनौ ।

2.630

। द्विगुणम् ऋतुहतात्* ।

2.631

। अनियम पांसुमयेषु ।

2.632

। दद्याल्लूहत्वे परित्ततायां वाधिकानि या[14ब्1]वदर्थम्* ।

2.633

। अदेयत्वम् अधिकस्य ।

2.634

। नैसर्गिककृत्वञ् च ।

2.635

। न न्याय्यम् उत्पाटयेद् अत्रैव परिकर्म कृत्वारोपयिष्य इत्य् अनुसम्पाद्य चित्तं ।

2.636

। यथातथोत्पाटितस्य प्राक्समायोगान् नैस्सर्गिककृत्वम् ।

2.637

। खण्डसंघाट्यां नव प्रभृत्यां पञ्चाविं*शतेर् युग्*मवर्जं ।

2.638

। अतः परं कन्था ।

2.639

। प्रथम एषां त्रिकैः द्वितृतीयमण्डलकत्वं ।

2.640

। अर्धच[14ब्2]तुर्थमण्डलकं द्वितीये ।

2.641

। तृतीये र्धपञ्चममण्डलकत्वं ।

2.642

। त्रिपञ्चकानि स्वहस्तैः ज्येष्ठान्याधिष्ठानिकानि ।

2.643

। कनिष्ठान्य् उभयतो र्धहस्तम् उत्सृज्य ।

2.644

। अन्तरं मध्यानां प्रमाणं ।

2.645

। अन्तर्वाससो द्विपञ्चकम् अपि द्विचतुष्कञ् च ।

2.646

। आत्रिमण्डलच्छादितत्वतो पि ।

2.647

। कायसप्तांशद्वयं हस्ते र्थः ।

2.648

। अकारयति कुसूलककरणम्* ।

2.649

। दुष्कृतकृत्त्वं न्यूनवद् अन्तरे ।

2.650

। अप्रत्याशत्वम् अच्छादने र्धमण्डलस्य ।

2.651

। अकल्पिके च ।

2.652

। निरधिष्ठनानाञ् च मुखपोचपरिश्रावप्रत्यास्तरणचिलिमिलिकादीनां परिस्कारचीवराणां ।

2.653

। प्रतिगुप्तेर् अन्तरात्यास्थानं ।

2.654

। अनुपेक्षणम् अत्र भिक्षुणीभिः ।

2.655

। [14ब्4] पिण्डकस्यास्मै दानं ।

2.656

। ज्ञातिर् आसप्तमाभ्यां पितृभ्याम् अन्यतरेणाप्य् एकपूर्वजः ।

2.657

। संज्ञानस्य कर्तत्वं प्राधान्येन । । वृंदे तत् ।

2.658

। भिक्षुणीत्वतदज्ञातित्वयोः ।

2.659

। उत्तरस्मिं*श् च ।

2.660

। अधिष्ठितस्वपुराणधावनार्हचीवरनिषदनानां कस्य निर्धावनरञ्जनाकोटनेषु विज्ञप्त्या ।

2.661

। प्रदेशस्यापि कृतौ कर्मणः कृतत्वं ।

2.662

। कृतत्वे कारितत्वं ।

2.663

। आ[14ब्5]फलपर्यन्ताद् एकत्वं ।

2.664

। पर्वभूतत्वे फलानाम् ऐक्यम् ।

2.665

। संज्ञानप्रधानतायां यथार्थे मौलं*

2.666

उपमूलत्वम् अयथार्थत्वे संज्ञानवद्विमतिः ।

2.667

। सांघिकं क्रियाकारम् अनुरक्षेत्* ।

2.668

। अनिस्सरणम् अत्रागन्तुकत्वं सदसत्वरूपनिर्ज्ञानार्थम् अस्य तेन प्रश्नः ।

2.669

। अनति..मय्य ।

2.670

। न बुद्धोक्तः सांघिकाद् विचालः ।

2.671

। गृह्णीयान् निःसृ[15अ1] । । ज्यमानम् अतिरेकं पात्रचीव<<र>>शिक्यसरितकायबन्धनं संघ उपनिक्षेपाय ।

2.672

। तथोपनिक्षेप तस्य यथेष्टं तद्विकलैर् आदानं ।

2.673

। नोच्चारप्रस्रावस्यन्दनिकाकर्दमादिनासितधावने स्त्य् अपह्रासः ।

2.674

। दुःकृतं चिलिमिनिकागृहचोडौपधानकविकल्पितनिःसृष्टसांघिकानां ।

2.675

। प्रतिगृह्णीयाद् भिक्षुणी महार्हं वासः परिवर्हणाय कुर्याद् भिक्षुण्या सार्द्धं परिवर्त्तं ।

2.676

। तुल्येन तत्तुष्टिक्रिता वा

2.677

। विज्ञप्त्या चीवरस्य ।

2.678

। अनापत्तिः पटकप्रदाने संघाय सौभाषनिकस्य ।

2.679

। उपसंपाद्यमानम् उषितयोः ।

2.680

। चित्तश्रद्धम् उद्भाव्य पुरतः स्थापयित्व निर[15अ3]पेक्षणं प्रक्रमणे

2.682

। हस्तिभूतत्वं लब्धदा ।

2.683

। दर्शनोपविचारगततास्यादिः प्रयोगत्वम् असन्निहितप्रतिष्ठेः ।

2.684

। वैशद्यमयात्रावसत्वं च पटप्रदानादौ तन्त्रं ।

2.685

। अनापत्तिस् तावत् कालिकचित्तेन विस्मृत्य मूल्यादाने

2.686

। मनुषगति[15अ4]गतो गृहीभूतः प्राण्यज्ञातिर् आपत्तिकृत् ।

2.687

। उत्तरस्मिंश् च त्रये ।

2.688

। अनाच्छिन्ननष्टदग्धहृतो र्ढचीवरस्य ।

2.689

। विज्ञाने दुष्कृतस्य ।

2.690

। मौलस्य लब्धौ चीवरस्य ।

2.691

। अनूनस्य ।

2.692

। यद्विधस्यार्घवर्णसमतो विज्ञप्तिः ।

2.693

। अनापत्तिर् अन्यस्य ।

2.694

। न तुकदशिकयोश् च विज्ञपने ।

2.695

। न्यूनत्वमौतोस्तानस्य च ।

2.696

। तद्वत् तत्प्रकृतिः ।

2.697

। सर्वस्याभावे धिष्ठेयस्य विज्ञपनार्हत्वं ।

2.698

। अस्यापत्यता ।

2.699

। परं गृहिणो द्वादशहस्तकः पडकोत्तरम् अन्तरं सप्तद्विकषाटकः ।

2.700

। भिक्षोः ज्येष्ठे यथोक्तपुटे संघाटीनिवसने ।

2.701

। युग्मस्य विज्ञप्यत्वं ।

2.702

[15ऽअ1]। अन्यतरस्य ।

2.703

। अतिरिक्तस्यातः प्रमाणाद् अविज्ञप्यत्वं ।

2.704

। पूर्वकस्य च पूर्वलब्धौ उत्तरलब्धाव् अधिकस्य देयत्वं ।

2.705

। उत्तरलाभ [15ऽअ2]अतिकस्य देयत्वं ।

2.706

। विज्ञप्ताव् अविज्ञप्तस्य दुक्कृतं ।

2.707

[15अ5र्]। विज्ञप्ताव् अविज्ञप्यस्य दुष्कृतं ।

2.708

। लब्धौ मूलं ।

2.709

। अदाने च देयस्य ।

2.710

। संकल्पितम् अप्रवारितस्य ज्ञातं तुल्यम् असंकल्पितेन ।

2.711

। तद् एवान्यत् ।

2.712

। वैशद्यपि दातुः ।

2.713

। एकत्वं लब्धेः प्रयोगैक्ये ।

2.714

। प्रेषितम् अकल्पिकं चीवरमूल्यं प्रतिक्षिप्य परिप्रष्णपूर्वकम् उपदिष्टं वैयापृत्यकरम् आदिष्टं दूतेनोक्तो वृत्ता[15ब्2]न्तात्वाख्यानपूर्वकञ् चोदयेत ।

2.715

। नाशक्तवत्तायां संप्रधारेणे चोदितत्वं ।

2.716

। असम्पत्तौ द्वितीयम् अपि ।

2.717

। त्रितीयञ् च ।

2.718

। तत आतृतीयम् उद्देशे तिष्ठेत्* ।

2.719

। असम्पत्तौ दातारं श्रावयेत्* ।

2.720

। वृत्तायाम् एवं प्रतिनिःश्रिष्टौ प्रयच्छत उक्तप्रतिनिःसर्गाद् अभ्युपेतदातृचित्तग्रहणानुष्ठानात् प्रतिगृह्णीयात्* ।

2.722

। परंचोद[15ब्3]नेन स्थाने ऽभ्युपेते वा ।

2.723

। गृहीतौ ।

2.724

। मनुष्यद्वेत्रयस्य गृहीत्वे च ।

2.725

। अनुक्तौ दुष्कृतं ।

2.726

। अप्रतिक्षेपे ।

2.727

। अपृष्टोपदेशे च ।

2.728

। नैराश्ये चाश्रावणे ।

2.729

। धारयेत संस्तरं ।

2.730

। कृतिकारणयोः ।

2.731

। कोशेयस्य ।

2.732

। संस्तीर्णतादि संस्तरे ।

2.733

। कृतिनिष्ठानस्य ।

2.734

। अनापत्तिः कृ[15ब्4]तलाभे भोगाभिसंस्करणेषु ।

2.735

। न्यूनत्वं न्यूनमिश्रत्वे ।

2.736

। विनष्टतायाञ् च द्रव्यस्य ।

2.737

। शुद्धकालकैडकरोम्नाम्* ।

2.738

। जात्या ।

2.739

। तत्वं नीलकर्नमककंचशकानां ।

2.740

। अतिरिक्तत्वे ऽर्द्धस्य तेषां ।

2.741

। समांश[15ब्5]त्वम् इतरत्रावदातगोचरकानां ।

2.742

। पार्श्वपृष्ठग्रीवजं पूर्वं ।

2.743

। शिरपादोदरजम् उत्तरं ।

2.744

। दैर्घ्यवितस्तारयोर् अतिमात्रत्वे छेदनं ।

2.745

। वर्धनं ह्रस्वस्वासंवृतत्वयोः ।

2.746

। छेदे संबन्धनं ।

2.747

। प्रतिवायो भेदे दौर्बल्ययोः ।

2.748

। दुष्प्रतिसंस्करत्वे दानं ।

2.749

। अलब्धसम्वृत्तेः सत्य् अन्यत्र स्वकाम् अत्यक्ते वान<<ति>>क्रान्ते ।

2.750

। [16अ1] । । षड्वर्षसंगतौ कृततायां संस्तरस्य ।

2.751

। सत्ववद् आरम्भे विप्रकृ<<त्>>त्वं ।

2.752

। नान्तगतौ प्रयोगस्यानापत्तिकृत्वं ।

2.753

। पृथक्त्वं प्रव्रजान्तरस्य ।

2.754

। अदत्तपुराणनिषदनसुगतवितस् तैर् नवनिषदनस्य परिभोगे ।

2.755

। सच्चेतत् ।

2.756

। एतावतापि ।

2.757

। शक्यप्रतिसंस्कारेणापि ।

2.758

। संदर्भसमुदा[16अ2]गमेन वा ।

2.759

। सति वोढर्यसति च योजनत्रयादूर्धमैडकोर्णोद्वहने ।

2.760

। क्रोशो ध्वनि गतेर् आत्मा ।

2.761

। प्रयोगस्यार्द्धं दुष्कृतम् ऋद्धेर् अन्येन नभसा हरणे निर्मिते च ।

2.762

। निर्दोषं खोलापूलालेप्यकायष्कुञ्चकलोठकमुरुचिकाव्यर्थं तन्मात्राणां ।

2.763

। परमाण्वण्वब्लोहशशविगोवातायनच्छिद्ररजोलिक्षयूगयवा[16अ3]ङ्गुलीनां षट्* पूर्वम् उत्तरं ।

2.764

। षट् चतुरङ्गुलो हस्तो र्धचतुर्थ<<ः>> हस्तकः पुरुषश् च चतुर्हस्तकं धनुस् तत् शतपञ्चकं क्रोशः ।

2.765

। तदन्तादि चरण्यस्य न कायभारं वहेत ।

2.766

। न पार्श्वपृष्टकटिशिरोभिः ।

2.767

। अनाशङ्क्यम् अस्मिन्नसाधरणत्वं ।

2.768

। नार्द्धभागादूर्धम् उत्पाटयेत्* ।

2.769

। पुराणाचीवर[16अ4]स्य स्थाने एडकरोमाणि ।

2.770

। विचटनम् आकोटनस्य ।

2.771

। स्वीकृते रत्नस्य ।

2.772

। गम्यतायां तत्पूरिः ।

2.773

। स्वस्य चाकृतकल्पस्य ।

2.774

। स्पृष्टो स्पर्शेन च ।

2.775

। यथाकथञ्चित ।

2.776

। पात्रिकताम्रस्य दुष्कृतां । अ

2.777

। अनापत्तिर् अन्यस्य ।

2.778

। त्रपुसज्जशीसलोहानां श्रामणेरयोश् च ।

2.779

। [16अ5] दानपतेः स्वामित्वाधिमोक्षो वैय्यपृत्यकरस्य स्वामित्वाधिमोक्षो वैयापृत्याकरस्य स्वामित्वाभ्युपगमनमैधिष्ठानम् इति कल्पाः ।

2.781

। नाविद्यमानधर्मार्थप्रत्ययाद् अन्यत्र रुढिः ।

2.782

। न दूरत्वे स्वामिनो ध्वस्तिः ।

2.783

। कल्पते कारणम् आत्मार्थं भोजनस्य ।

2.784

। तत्करे चार्पणाय कार्षापणग्रहणं ।

2.785

। पथ्यदनस्य चारनात्* ।

2.786

। उप[16ब्1]स्थापयेद् अग्न्यर्थि सूर्यकान्तं ।

2.787

। नैनम् अगुप्त स्थापयेत ।

2.788

। दनादत्तादायिनेदर्षयेत्* ।

2.789

। फलम् उत्पाद्यस्यास्मै दद्यात्* ।

2.790

। उदकार्थि चन्द्रकान्तं ।

2.791

। समानः पालनविधिः ।

2.792

। अनन्तः कृतत्वम् उपस्कारानुज्ञाने रत्नस्वीकरस्य ।

2.793

। न रीतिताम्रकंसंदारुपात्रं स्वीकुर्यात्* ।

2.794

। स्वीकृतस्यास्यान्यस्य वा परिभोगश् चेत्* [16ब्2] भैषज्यशरावकपरिभोगेण <<॥>>

2.795

द्वयम् अधिष्ठानिकमायसं मृन्मयञ्च ।

2.796

। मणिमुक्तवैदूर्यशंखशिलाप्रवाडरजतजातरूप अस्मगर्भम् उसारगल्वलोहितिकादक्षिणावर्तप्रभृति रत्नं ।

2.797

। न्यूनत्वम् अयात्रिके ।

2.798

। अनन्तरे पि ।

2.799

। छिन्नभिन्नखण्डदग्धाप्रचरितपूर्वानाहतालक्षणप्रतिरूपकम् एतत्* ।

2.800

। [16ब्3] लाभे प्सोरापत्तिः ।

2.801

। गृहीत्वे परस्याज्ञातित्वे मौली ।

2.802

। उत्पत्तौ वृद्धेः ।

2.803

। अनन्तरे च ।

2.804

। पणेन रत्नेन वा व्यवहारात्* ।

2.805

। एकत्वं प्रयोगे ।

2.806

। प्रयुञ्जित्* रत्नार्थं ।

2.807

। आरामिकोपासकयोः सत्वे नियोगेन ।

2.808

। बन्धकं द्विगुणम् आदाय साक्षिसम्वत्सरं आसदिवससंघस्थविरोवारिक गृहीतृधनला[16ब्4]भानारोप्य पत्रे ।

2.809

। ज्ञातवानेतद् इतरस्मै प्रवेदयेत्* ।

2.810

। अन्येन दद्यात् सांघिकं संघभक्तोपक्रीणते धान्यं मूल्येन ।

2.811

। तस्यैव चेत् सविशेषं ।

2.812

। क्रीणीयात्* क्षये संघः ।

2.813

। नवञ् च ।

2.814

। पुराणम् चिक्रीय निष्प्राणकं चेत्* ।

2.815

। न मूल्यं कुर्यात ।

2.816

। न गृहिव्यवहारेषु हस्तं प्रक्षिपेत्* ।

2.817

। गृहिणा [16ब्5]क्रायणं ।

2.818

। असम्पत्तावात्रयाद् वाद्निश्चारणं ।

2.819

। अकरणं परार्थे प्य् उत्सृज्य रत्नत्रयं पणापणः ।

2.820

। न बन्धकं कुर्यात्* ।

2.821

। संघेन तदर्थं संघकर्मिकेणोधिस्य दानं ।

2.822

। नापृष्ट्वा वृद्धवृद्धां संघार्थम् उद्यच्छेत्* ।

2.823

। यत्राभिलिखितता सम्पत्तिम् अस्यानुतिष्ठेत्* ।

2.824

। पात्रस्याधिष्ठितस्य ।

2.825

। [17अ1] । । निस्सृष्ठत्वं प्रव्रज्यापेक्षार्थतायां नियमने ।

2.826

। अकल्पिकत्वं पाण्डुशुक्लाधिकानां न्यूनता प्यामस्य ।

2.827

। निर्दोषत्वं कुपात्रकस्यैकस्य ।

2.828

। नाधिलोभं कुर्वीत् परिस्कारे त्यध्यावसानं न पत्राद् अस्तधायेत्* ।

2.829

। याचेत् पात्रम् अप्य् अभावे ।

2.830

। सत्वे स्य ।

2.831

। आचतुर्बन्धन तदर्हा ।

2.832

। क्षमस्य परिभोगे ।

2.833

। परी[17अ2]ष्टौ विज्ञप्त्या गृहितो ज्ञातेः ।

2.834

। उत्तरत्राप्येतत्* द्वये ।

2.835

। वातृदात्रान्येषु ।

2.836

। अदोषम् अज्ञाता च वृद्धिपात्रयोः ज्ञातेः ।

2.837

। दुष्कृतं मौलम् ।

2.838

। ततो निष्पधौ ।

2.839

। सम्मतावसत्वे पहासः ।

2.840

। स्वपरिस्कारैः सत्वे चेषां ।

2.841

। परिवर्तणे श्रेष्ठ्यच्छन्देन ।

2.842

। संघे स्य निःसर्गः ।

2.843

। एकस्यानेकत्वे भिप्रेततमस्य ।

2.844

। योज्यत्वम् अन्यस्य ।

2.845

। इदं प्रव्रा[17अ3]ज्याके ।

2.846

। प्रत्यवरस्यास्मै दानं ।

2.847

। चारणेन निष्कर्षः ।

2.848

। मम्मतेन ।

2.848

। श्वो स्य करिष्यत्तायां तेनारोचनं ।

2.849

संघे सामग्रिवेलायां श्वो ऽहम् आयुस्मन्त उन्न<<तं>> पात्रं चारयिष्यामि युस्माभिः स्वकस्वकानि पात्राणि गृहीत्वा संघमध्ये वतरितव्यम् इति ।

2.850

। सन्निसादार्थम् अनुष्ठानं ।

2.851

। रोचनोपसंक्रमम् उपनामनम् ।

2.852

। स्थवि[17अ4]रेदं <<पात्रं>> स्वच्छं परिमण्डलं परिभोगक्षमं स चेद् आकांक्षसि गृहाणेति यथा गुणं रुच्या ग्रहणं अयाचनं गृहितस्यान्तरितेन ।

2.853

। अदानत्वयोर् वाचोर्नोत्तरस्यामन्याज्यातानाधिष्ठानिकद्वयोर् आपन्नस्य प्रवेदनं ।

2.854

। उपयोजनम् अस्याभेदान् मन्दमन्दं ।

2.855

। उभाभ्याम् अनेन संव्यवहरणम् ।

2.856

। अत्र साधुतरस्य विनिर्युक्तिर् उपकरस्य ।

2.857

। ल[17अ5]घुतरे स्य प्रमासे ।

2.858

। नैव भोजनकरणत्वे ।

2.859

। विना मूल्येन विज्ञप्त्यान्येनापि वापने ।

2.860

। न सात्यतायाम् अतत्कृतत्वं ।

2.861

। तत् औद्देशिकत्वम् पानीयस्य ।

2.862

। भूयस् तायां वा दुर्नियोगतः सौष्ठवे वा ।

2.863

। क्षयश् चेद् दातुः ।

2.864

। अदानम् विनिश्रयस्य ।

2.865

। [17ब्1] अनभ्यनुज्ञातैः तदर्थत्वं दात्रेति कर्तृणि ।

2.866

। मौलस्य सम्पत्तौ ।

2.867

। प्राग्प्रतितद् औद्देशिकानुष्ठानं दुष्कृतस्य ।

2.868

। तत्वम् अप्रवारितस्योपसंक्रान्तेः ।

2.869

। भिक्षुत्वं वियोज्यस्य ।

2.870

। अस्वकृत्वम् आछेद्यस्य ।

2.871

। चीवरत्वं तस्य ।

2.872

। समस्तयोर् व्यस्तयोर् वा कायवाचोर् आछेदार्थं प्रवृत्तिस् तस्य ।

2.873

। [17ब्2] तन् नियुक्तस्य चेति कर्तृणि ।

2.874

। अन्त्यस्य समाप्तौ पृथग्भावस्य कायतः ।

2.875

। प्रयोगे दुष्कृतस्य ।

2.876

। प्रतिदेयत्वम् अस्य ।

2.877

। अनङ्गम् अत्र स्वार्थत्वं ।

2.878

। निष्कर्षवद् अनुपसम्पन्ने ।

2.879

। स्वता<<पना>>यनभूतस्यात्रावरोध आछेदस्य ।

2.880

। असम्मतिकृतस्यानुच्छवित्वं ।

2.881

। अनर्थाहितकृत् प्रवृत्तिविघ्ननार्थेनापत्तिः ।

2.882

। [17ब्3] स्वस्थानवत् सभयतायाम् आरण्यकस्येकत्र चीवरे ग्रमः ।

2.883

। विप्रवसेदतो ऽसाव् अन्तर्गृहगताद् अर्थवशेनाषष्ठम् अह्नः ।

2.884

। अप्रस्रब्धिरूद्धम् ।

2.885

। अदोषो न्तरायवशेनागतौ ।

2.886

। अनङ्गम् अत्रातिवाह्यत्वे षड्रात्रस्य प्रक्रान्तौ संकल्पः ।

2.887

। स्वोपगमाहपूर्वम् आसादिप्रभृ[17ब्4]ति वर्षाशात्रीं* परीच्छेत्* ।

2.888

। आस्ववर्शोध्वार्धमासान्तं धारयेत ।

2.889

। पूर्वपरयोर् अतः कालयोः कर्तृत्वं* ।

2.890

। धारणे परस्यरपूर्वस्य परीष्टो दुष्कृतस्य ।

2.891

। अन्त्यस्य संपत्तौ ।

2.892

। न्यूनत्वम् विलीने ।

2.893

। यथोपगति तद् अनुगं ।

2.894

। वार्षिकलाभस्य कर्तृत्वं ।

2.895

। अन्तर्व[17ब्5]ष स्वीकृतौ ।

2.896

। उत्सृज्यान्त्ये त्ययवशाद् दशाहे लभ्यमानस्य ।

2.897

। विभक्तौ चास्यापि ।

2.898

। अविभक्तौ च ।

2.899

। अन्तरेण दात्रुक्तिवशता ।

2.900

। अनन्तरे प्रवारणादिवशाद् अह्न्यसम्मततत्गोपकानां ।

2.901

। नैनं न स्म मन्येरन्* ।

2.901

॥ पुद्गले न्यत्र संघे वा संकल्पितस्यान्येन चीवरस्य [18अ1] जानतात्मनि परिणामतो लब्धौ ।

2.902

। परिणमने दुष्कृतम् ।

2.903

। अन्यत्र चात्र ।

2.904

। तत्फले च ।

2.905

। अन्यस्य च ।

2.906

। असत्त्वसंख्यातत्त्वे वियोज्ययोज्ययोः ।

2.907

। एकप्रदेशत्वे च ।

2.908

। अनापत्तिर् अलाभे पर्येषविघसखादकतिर्यगादेः ।

2.909

। कल्पते या च्छया प्रतिनिध्यन्तरे सुगतस्य दानम् ।

2.910

। दुष्कृतं संकल्प्यादाने ।

2.911

। बहिः सीमां गत्वा सांघिकाधिष्ठाने ।

2.912

। [18अ2] व्यग्रैर्भाजने ।

2.913

। अनधिष्ठायाम् ।

2.914

। एकस्य द्वयोः त्रयाणां वा संघादा भवतो लाभस्यादाने ।

2.915

। अनया योत्रान्येषां मंशिकत्वस्य ।

2.916

। हारत्वं स्तेयचित्तेन ।

2.917

। न सहसैव निरावासताकरणं विहारस्य ।

2.918

। सानुनयस्य तत्रावलोकं दाने ।

2.919

। अनुपनतौ दशवर्षाण्यतिनमनः ।

2.920

। पञ्चपिण्डपातेन ।

2.921

। अनुद्भू[18अ3]ताव् अत्र काले दानपतेर् अपराणि सामन्तकविहारेण सार्द्धम् ।

2.922

। हिदुक्योषधैकलाभतायाः करणं कर्मकरणा[त्] ।

2.923

। सामन्तकविहारेषु प्रमीलने वस्तूनां निक्षेपः ।

2.924

। आवासिते दानम् ।

2.925

। न स्थानान्तरीयं द्रव्यं स्थानान्तरे दद्युः ।

2.926

। दास्यत्वम् एषाम् अप्रतिलम्भते ।

2.927

। दानत्वे ऽपि गृहपतेर् नियतेर् अभङ्गः ।

2.928

। [18अ4] बलाद् अदाने ग्रहणम् ।

2.929

। दद्युर् याचितकत्वेन ।

2.930

। स्थानान्तरीयं द्रव्यं स्थानान्तरे ।

2.931

। निर्दोषम् असम्पत्तौ चैत्यान्तरे तल्लाभस्य परिणमनम् उत्सृज्य बोधिधर्मचक्रमहाप्रातिहार्यदेवावतरणानाम् एभ्यो ऽन्यत्र ।

2.932

। व्यतीतं दिवसम् अधिष्ठितस्य साप्ताहिकस्य भिक्षुं श्रायेत् ।

2.933

। धारणे ।

2.934

। अस्य ।

2.935

। अष्टमारुणोद्गतौ ।

2.936

। [18अ5] अत्यये ऽह्ने कल्पिकस्याभ्यवहार्यस्य भुक्तिवद् इत्य् अत्र व्यवस्था ।

2.937

। यस्यात्रार्थे कल्पनं तं प्रत्यनापत्तिः कल्पितेनास्याभङ्गयोः सन्निहितम् ।

2.938

। संज्ञाय संघसन्निधाव् अधर्मस्य धर्मतो धर्मस्य चाधर्मतः परिदीपनं स्थूलात्ययः ।

2.939

। कच्चित् स्था [अ]त्र परिशुद्धा इत्या[18ब्1]तृतीयपरिप्रस्नात् पोषधे शुद्धसंज्ञस्य तूष्णीम् भावेनातिनामनाया दुष्कृतम् ।

2.940

। आभ्यां पाराजिक-संघावशेषाभ्यां चान्यस्मिन् मृषावादे ।

2.941

। भाषमान्त्वे ऽपि संज्ञालाभे ऽस्योत्थानम् ।

2.942

। न शपथं कुर्वीत ।

2.943

। भिक्षोः ।

2.944

। अनन्तरे च ।

2.945

। ऊनतोद्भावनच्छन्देन ।

2.946

। श्लक्ष्णेन पुरु[18ब्2]षेण वा ।

2.947

। यस्य कस्यचिद् अचराभिमतस्योक्तौ ।

2.948

। अजाते ऽपि मङ्गुत्वे ।

2.949

। अन्यस्य क्षत्रियताब्राह्मण्यादेः दुष्कृतम् ।

2.950

। अनुवादः ।

2.951

। पैशुन्यच्छन्देनामुकोक्तम् इत्य् उक्तौ ।

2.952

। नाम्ना चेत् ।

2.953

। भिक्षुता चास्य दुष्कृतम् अन्यथा ।

2.954

। न हिततायां सम्यक् संघेन ।

2.955

। भिक्षोश् चाधिकरणतायां खोटने ।

2.956

। [18ब्3] नैवासिककर्मकृच्छन्ददायकानाम् एव मौलस्य ।

2.957

। दुष्कृतस्यैव दृष्ट्याविष्कर्तागन्तुकयोः ।

2.958

। तद्वत् त्वम् अधिकरणान्तरत्वेनाधिकरणस्य संज्ञाने ।

2.959

। अर्द्धत्वं कर्मफलगतस्यातत्त्वेन समुदाचारे ।

2.960

। देशनायाम् ।

2.961

। धर्मस्य ।

2.962

। षष्ठात् पदाद् ऊर्ध्वम् ।

2.963

। जानत ऊर्धतायाम् ।

2.964

। पञ्चमात् पञ्चपदिको[18ब्4]पक्रमे ।

2.965

। न पण्डितकृतोत्तरोत्तरपरिप्रष्णनिर्व्नये परिवर्तनिकास्वाध्यायनिकापरिपृच्छनिकोपवासदानदक्षिणादेशनेषु ।

2.966

। अकृतत्वं स्थानान्तरे पूर्वस्याः ।

2.967

। समम् अनुपसम्पन्नेन हीनं वा नेत्रीभूतस्योच्चारणे धर्म्स्याक्षरस्यापि ।

2.968

। उत्सृज्याकाम् असम्पत्तिम् ।

2.969

। अनुशास्य पाठनम् ।

2.970

। स्वाध्यायनिकां परि[18ब्5]वर्त्तनिकां परिपृच्छनिकां च ।

2.971

। संमन्येरन् पापयोर् भिक्षुभिक्षुण्योः कुलप्रतिसंवेदकम् ।

2.972

। शृण्वन्त्वायुष्मन्तो कुलेषु कुलदूषका आश्रमेष्व् आश्रमदूषकास् तद्यथा सम्पन्ने शालिक्षेत्रे ऽशनिर्विचक्रा निपतेद् यावद् एव तस्यैव शालेर् उत्सादाय विनाशायानयेन व्यसनाय संपन्ने वा इक्षुक्षेत्रे मञ्जिष्ठि[19अ1]का नाम रोगजातिर् नियते[द्] यावद् एव तस्यैवेक्षोर् उत्सादाय विनाशायानयेन व्यसनाय मा यूयम् आयुष्मन्तो ऽनेन भिक्षुनानया भिक्षुण्या शासनं प्रमिणुत एष भिक्षुर् एषा च भिक्षुणी दग्धेन धाना अप्ररोहणधर्मा अस्मिन् धर्मविनये भगवन्तं पश्यत स्थविरस्थविरांश् च भिक्षून् श्निति कुलेषु कुलप्रतिसंवेदको ब्रूयात् ।

2.973

। अनुत्सहमाने [19अ2] ज्ञप्तिं कुर्युः ।

2.974

। अप्रतिसंविहितानुपसंपन्नत्वयोः श्रोतुः ।

2.975

। आख्यातो पाराजिकसंघावशेषयोः ।

2.976

। अकृतम् असम्मतेः ।

2.977

। अज्ञप्ते संघे ।

2.978

। सत्यतायाम् ।

2.979

। अदृष्टसत्ये ऽनुपसम्पदि ।

2.980

। नागारिकपुरस्ताद् ऋद्धिं विदर्शयेत् ।

2.981

। न भिक्षुणी शास्तुः ।

2.982

। [19अ3] स्थैर्येण चेद् अर्थो ज्ञप्तिपूर्वकम् अर्थं कुर्युः ।

2.983

। दत्तमहस्य ।

2.984

। पुद्गलभिक्षुसंघाभक्तलाभस्य मिथ्यापरिणामकत्वेन भिक्षोर् अन्यत्राप्य् अनाम्ना चोक्तौ ।

2.985

। अभूतार्थतायाम् ।

2.986

। विनयप्रतिसंयुक्तभाषमानावध्यानभूतायाम् उक्तौ ।

2.987

। सूत्रान्तस्य दुष्कृतम् ।

2.988

। छेदयेन् नवक[19अ4]र्मिको वृक्षं स्तूपसंघार्थम् ।

2.989

। प्राक ततः सप्ताष्टेषु दिवसेष्व् अतस् तस्य मण्डलकगन्धपुष्पदीपधूपबलिदानत्रिदण्डकं भाषणदक्षिणदेशनां कृत्वा या देवता ऽस्मिन् वृक्षे ऽध्युषिता सा ऽन्यद् भवनं समन्वेषत्वनेन वृक्षेण स्तूपस्य संघस्येति-करणीयं भविष्यतीत्य् उक्ता जानीहि वादेन ।

2.990

। विकारश् चेद् अग्निमोक्षरुधिरस्यन्दनशाखाकम्पनपत्रशटनादिर् उदृश्येत पक्षे ऽत्र [19अ5] दानमात्सर्ययोः संवर्णनिविवर्णनं कुर्यात् ।

2.991

। अविनष्टतायाम् ।

2.992

। अकृतकल्पबीजप्रोद्भेदयोः ।

2.993

। ओशीरकादौ विनाशने ।

2.994

। यथाकथञ् चित् ।

2.995

। धूननेनापि ।

2.996

। अवष्टम्भेनापि तृणशादपांसुप्रभृतिभिः ।

2.997

। उत्सर्गादिनापि ।

2.998

। वातातपे ऽपि स्थापनेन ।

2.999

। शुष्के ऽपि स्थण्डिले ।

2.1000

। तच्छन्देन स्वयम् अन्ये[19ब्1]न वा ।

2.1001

। विनष्टो मूलीनां विनष्टापरिमाणानाम् ।

2.1001

#गण्डतः ।

2.1002

। दुष्कृतानां प्रयोगे ।

2.1003

। प्रतिप्रहारम् अस्यात्र भेदो न वक्तुतः ।

2.1004

। अन्तत्वं विरोढत्वे ऽपि निर्मुक्तेः ।

2.1005

। तत्त्वम् उद्यारे जलाच्छेवालकटभयोः ।

2.1006

। अन्धःसंपुटितास्थिनिगिलनं कारस्य ।

2.1007

। साधु स्याद् यद्य् अयं छिद्येतेत्य् उक्तोर् नियुक्तिः ।

2.1008

। अकारत्वम् ऋद्धेः ।

2.1009

। तद्वत्त्वं बी[19ब्2]जान्तरत्वेन बीजस्य संज्ञाने ।

2.1010

। त्वक्फल्गुपाण्डुपत्रपुष्पितपुष्पपक्वफलानाम् अर्धम् ऋततया व्यवहारः ।

2.1011

। नानपेतस्यैषां प्रकृतेर् मूलभूतस्य ।

2.1012

। अर्द्धजाततयोप्तस्यासंजातमूलस्य बीजधान[योः] ।

2.1013

। क्षुप्यपर्यच्छत्रककाचिकागालचीवरादिपुष्पाणाम् अर्द्धप्रोद्भूतत्वेन ।

2.1014

। तप्तपूषादिकोरणचंक्रमणशाखाद्याकर्ष[19ब्3]णमण्डलकामा ज्ञानतद् अभिप्रायतायाम् अनापत्तिः ।

2.1015

। छेदने च कुशादेर् आपद्यवबधेन तेनासम्भवे मोक्षः ।

2.1016

। अतश् चैकेनानेकत्वे ।

2.1017

। नाबीजधर्मणो दो[ष?]क्ङृत्त्वम् ।

2.1018

। संस्पर्शो ऽग्निना क्षतिः शस्त्रनखशूखैर्म्लान्युत्पाटन उत्दलनभिदुच्छित्तिर् इति कल्पाः ।

2.1019

। नाबीजत्वगते कल्पने ऽपेक्षत्वम् ।

2.1020

। नानग्नित्वम् अत्र वाष्पस्य ।

2.1021

। [19ब्4] सम्यम्क्त्वसंख्याम् अग्निना कल्पने फलानां कल्पने समुदायरूपस्य तन्त्रीकरणम् ।

2.1022

। नैकतः प्रदेशात् समुदायस्य सम्भावनोत्थानम् ।

2.1023

। कृतत्वं कल्पानां भिक्षुकृत्यता ।

2.1024

। भूमो चाकल्पिकायाम् ।

2.1025

। नानभिक्षितं शीतेन वारिणा साप्ताहिकं यावज् जीवकम् अभ्यवहरेत् ।

2.1026

। नाभिन्नम् एतेन यामिकम् ।

2.1027

। [19ब्5] द्वादशानां पुद्गलानां कर्तृत्वम् ।

2.1028

। असम्मतानाम् अपि ।

2.1029

। प्रतिस्रब्धप्रयोगानां च ।

2.1030

। अवध्याने वा स्वगतेनार्थेन सश्रुतं क्षेपे वा परव्यपदेशेन ।

2.1031

। मौलस्य गणिते ।

2.1032

। अन्यत्र दुष्कृतस्य ।

2.1033

। नासमर्थम् अप्लस्याप्य् अधिवासनायामीरयेत् ।

2.1034

। न स्वयम् एनं द्वेष्यः कर्मणि युज्जीत ।

2.1035

। [20अ1] न न गण्येयुश् चोदनताज्ञा तूष्णीं भावविहेठकोक्तपुद्गलसमुखावधायकपरव्यपदेशक्षेपकान् ।

2.1036

। ज्ञापनेन ।

2.1037

। भिक्ष्वाज्ञाविहेठने ।

2.1038

। तच्छन्देन ।

2.1039

। अन्योक्त्या दुष्कृतं तूष्णीम्भावेन ।

2.1040

। न स्मरामीति च ।

2.1041

। न चेद् दुःखम् आख्येयम् ।

2.1042

। तस्माद् वध्यदर्शनपरिप्रश्ने वियप तावत् पानीयंतावत् पिब विश्राम्य तावन् न पश्यामि [20अ2] न खं वा परमार्थतः सत्त्वं नपश्यामि वध्यश् चेत् युक्ताव् अनापत्तिः ।

2.1043

। न यत्र साक्षित्वेन करणम् आपतेत् तत्रावस्थानं भजेत ।

2.1044

। नाकृतोवघातद्वारबन्धः साक्षेपं दद्यात् ।

2.1045

। मञ्चपीठवृशिकोचकबिम्बोपधानचतुरस्रकम् इति शय्यासनम् ।

2.1046

। एकान्न पञ्चाशद् व्यामास्तदुपविचारः ।

2.1047

। द्वारकोष्ठकात् परिवृते ।

2.1048

। तद् अतिक्र[20अ3]माय विस्मृत्यापि प्रस्थानम् अन्तश् च स्वप्नसमापत्यादिना विपरोक्षीभावः ।

2.1049

। प्राक् संभेदात् प्रयोगः ।

2.1050

। संभेदे ऽतिक्रमश् च निष्ठानम् ।

2.1051

। नैते कृतकारितो द्वारस्य ।

2.1052

। नावलोकितभिक्षौ न संकटप्राप्तस्य ।

2.1053

। कारकवद् भोगः ।

2.1054

। द्वयोर् एकत्र निषादे पश्चाद् उत्थायिनः करणीयवत्ता ।

2.1055

। समं चेन् नवकस्य ।

2.1056

। तुल्यतायाम् उभयोः ।

2.1057

। अलज्जिसा[20अ4]न्तरजीर्णग्लानानुपसंपन्नानाम् अनवलोक्यम् अत्र ।

2.1058

। एष विहारः पश्य चेदं शयनासं गृहाण चापावरणीदानम् इत्य् अवलोकनानि ।

2.1059

। संभेदास् त्रयो वातेन परिवर्त्तनं वृष्ट्या पुटान्तरप्राप्ति[ः] दीपिकाभिश् च ।

2.1060

। शयनासनत्वं सांघिकता तस्य स्वयंनियुक्तकृततोपनिक्षेपस्याभ्यवकाश इति कर्तृणि ।

2.1061

। मौलस्य निष्ठाने ।

2.1062

। प्रयोगे दुष्कृतस्य ।

2.1063

। [20अ5] एतत् तावत् कालम् अन्तरम् अन्येनाधिष्ठिते ।

2.1064

। पौद्गलिके च ।

2.1065

। उत्तरत्र च चतुष्के ।

2.1066

। नैवास्पृश्यतायाम् ।

2.1067

। पिण्डाय चेत् प्रविषज्याप्रविष्टे वातवर्षम् आगच्छेद् विहारस्थाः प्रवेशयेयुः ।

2.1068

। आहृत्य प्रविष्टं आगच्छेत् ।

2.1069

। नैतद् अर्थतायाम् अदोषो ह्वासो वा ।

2.1070

। विस्मृत्य चेद् बहुसमतिक्रान्ताध्वनो गतो वा स्मृतिं लभेत न भूय एवं करिष्यामीति चित्तम् उत्पा[20ब्1]दयेद् वाचं च भाषेत ।

2.1071

। प्रतिपथितञ् चेद् भिक्षुम् आरागयेदुधारायैनं प्रार्थयेत् ।

2.1072

। कर्तृत्वं प्राप्ततायाम् अत्र येन प्रतिज्ञातं प्रक्रमिषन्नावसाद् असंकटप्राप्तो ऽभिसंक्षिपेत् शयनासनम् ।

2.1073

। प्रस्फोट्य मलिनञ् चेत् ।

2.1074

। अर्पयेतैनम् ।

2.1075

। अवलोकनम् अन्य एव क्रुवीत भिक्षोः ।

2.1076

। अभावे श्रामणेरस्य ।

2.1077

। तस्यापि गृहपतेः ।

2.1078

। सर्वाभावे चतुर्दिशं [20ब्2] व्यवलोक्यापावरणीं गोपयित्वा प्रक्रामेत् ।

2.1079

। अन्तरमार्गे चेद् भिक्षुं पश्येत् तं प्रदेशम् अस्मै ब्रूयात् ।

2.1080

। द्वारे चेद् अन्तर्गृहोपनिमन्त्रणायां बध आगच्छेत् कुड्यस्य मूले वृक्षस्य वा निधायाध्वनि प्रविशेत् ।

2.1081

। दद्युस् तत्रासनानि ।

2.1082

। न स्वयम् आनयेयुः ।

2.1083

। आगारिकः श्रामणेराणाम् एतत् ।

2.1084

। अभावे चावलोक्य गृहिणमानयना[20ब्3]र्थम् आगमनम् ।

2.1085

। स्थापयेयुः गच्छन् वयम् आनेष्याम इति ब्रुवत्सु ।

2.1086

। नि[ः]श्रयकरणीयैस् तैर् अनानीताव् आनयने ।

2.1087

। अभावे स्वयम् ।

2.1088

। सर्वतायां गण्डिम् आकोट्य ।

2.1089

। दद्युर् विहारे ।

2.1090

। निमन्त्रण्करेभ्यः स्वार्थं याच्ञ्[आ]याम् आसनानि ।

2.1091

। भिक्षुश् चेषाम् आरक्षायै स्थापयेयुः ।

2.1092

। एकान्ते ऽसौ तिष्ठेत् स्वकर्म कुर्व[20ब्4]न्न् अवधानदानञ् च ।

2.1093

। प्रक्रान्तेषु प्रवेशनम् ।

2.1094

। शोचनं नाशितानां वक्कसेनाद्भिः ।

2.1095

। स्नेहिनोपस्नानेन ।

2.1096

। अशुचिना मृदोषाटुकेन गोमयेन वा ।

2.1097

। छित्तिर् अशुद्धौ वातस्य ।

2.1098

। गृहिणा निषाद्य प्रवेशितस्य दृष्टः प्रवेश्यत्वम् ।

2.1099

। जीरश् चेद् ग्लानो वोपधिवारिकस्य ।

2.1100

। आख्येयत्वं तस्य ।

2.1101

। ग्लानम् अवलोकयेत् सर्वः ।

2.1102

। निषद्य ।

2.1103

। न तत्रा[20ब्5]सनं गृहीत्वा गच्छेत् ।

2.1104

। उपस्थायको ग्लानस्य तत्रासनान्य् उपस्थापयेत् ।

2.1105

। कुशलपक्षापगच्छत्य् आचार्योपाध्याये न च चेद् अन्यथा वृद्धिः कुशलपक्षस्य पृष्ठतो गच्छेत् ।

2.1106

। स्वयम् अस्मायासनं नयेत् ।

2.1107

। नापृष्ट्वा गतिम् ।

2.1108

। स्वयम् एव चैतद् आनयेत् ।

2.1109

। अभ्यवकाशधर्मश्रवणे वातवर्षप्रवेशनं शयनासनस्य ।

2.1110

[21अ1] ॥ स्वयम् अशक्तो गुरुतया वृत्तानां नवकैः सह परिवृत्तिः ।

2.1111

। साकेन सार्धं [स्था]पयेयुः ।

2.1112

। दद्युर् विहारान्तरे याच्यमानं शयनासनं वस्त्रञ् च ।

2.1113

। न चेत् वृष्टिर् वर्षाशंकिता वा ।

2.1114

। वातवर्ष न् चेद् अन्तर्मार्गे स्याद् वृक्षस्य मूले कुड्यस्य वा स्थलं कुर्युः ।

2.1115

। प्रच्छादयेयुश् च वस्त्रेणैकेन प्रत्यवरेण ।

2.1116

। विहारं नीत्वा वस्त्राणां शोषणं ।

2.1117

। दग्धाव् उढौ च सां[21अ2]घिकस्यापि निष्कासनं ।

2.1118

। वृत्ते स्वपात्रचीवरनिस्कासने ।

2.1119

। निष्काषितस्य भिक्षुम् आरक्षायै स्थापयेयुर् असमर्थतरं ।

2.1120

। नासाह्यतायां प्रविशेयुः ॥
शयनासनप्रायश् चित्तिकं ॥

2.1121

॥ कृतं संस्तरम् अन्तर्गृहे ..च् छोरयेयुर् अवलोक्य गृहपतिं*

2.1122

। अरणे विकोपयेयुर् वा ।

2.1123

। कृतत्वम् अस्य शिरोन्ते पादान्ते वा कृतत्वे ।

2.1124

। चीवरशोषना[21अ3]यापि तृणप्रज्ञप्तेश् छोर्यता ।

2.1125

। दानं मृगयते प्रतिज्ञातच् छोरणाय ।

2.1126

। प्रज्ञापयेयुच् चंक्रमेषु घृष्टोतलयोस् तृणानि ।

2.1127

। तेषाम् अपि छोर्यतां ।

2.1128

। उत्सर्गे छोर्यस्य छोरणम् अगतस्याकरणीयतां ।

2.1129

। अन्यदा कालेन कालं प्रत्येवेक्षणं परिवर्तनञ् च ।

2.1130

। स्निग्धमधुरमृत्तिके न्वहं ।

2.1131

। अनुपक्षम् अन्यत्र ।

2.1132

। अवबध्य र[21अ4]ज्वा वृक्षे वललम्ब्य चंक्रमे(यु)षु कक्षपिण्डकानां स्थापनं ।

2.1133

। कर्परे गोमयं स्थापयेत्* ।

2.1134

। प्राग् गतं प्राक् प्रक्रमिष्यन्त्य् अस्मात् तुल्यत्वं साह्योपभोगे ।

2.1135

। तत्पतीनाञ् चासांघिके वलोक्यत्वं ।

2.1136

। सांघिकविहारत्वम् अगडवालुकालिकताद्य् आत्मकःत्वं तत्र

2.1137

॥ [21अ5]भिक्षुत्वसांघिकविहारतयोः कर्तृत्वं ।

2.1138

। न चेत् तत्संबाधसंघसंक्षोभजन्मानुपशमप्रतिचिकिर्षण्[ए] ।#

2.1139

। परेणापि परानुवृत्या च ।

2.1140

। शिक्षमाणश्रामणेरश्रामणेरिकाणां दुष्कृतस्य ।

2.1141

। आसां च ।

2.1142

। हास्येन च ।

2.1143

। गृहिणाम् अपुण्यस्य बहुनः ।

2.1144

। निष्कर्षणं ॥ वृत

2.1145

॥ आरूढतायां ।

2.1146

। भिक्षुणा सांघिकविहारस्थानस्य ।

2.1147

। [21ब्1]अनुप्रस्कन्द्य मुक्त्वा ग्लान्यभयवशताम् आरूढौ ।

2.1148

। निदर्शनम् एतद् विहेठनछन्देन भिक्षोर् विहेठनानां ।

2.1149

। अनुप्रस्कन्द्यापातः॥

2.1150

। सांघिकविहारोपरिष्टतलकत्वं कर्तृ ।

2.1151

। न चेत् पारिणामिकत्वं फलकतद्विधछद[न]ता वा ।

2.1152

। कीलपादकत्वं ..[ड]चाक्रमणीयस्य ।

2.1153

। मुक्त्वोत्तानतां ।

2.1154

। दत्तप्रतिपादकत्वञ् च ।

2.1155

। आक्रान्तौ ॥ वृता

2.1156

॥ [21ब्2] आहार्यपादकाहोह॥

2.1157

॥ स्वपरिभोगार्थ ततो न्यत्र ।

2.1158

। सप्राणकोपभोगः ॥

2.1159

॥ द्वारकोषदान संपादयेत्* ।

2.1160

। अर्गडकानाञ् च ।

2.1161

। वातायनानां मोक्षं ।

2.1162

। विहारस्य कर्तृत्वं ।

2.1163

। चतुष्टयस्येर्यपथानां [मा]त्रस्य ।

2.1164

। न चेत् सर्वत्वेन शैलः पक्वशैलो दारुमयो वा ।

2.1165

। छादनञ् चोदकत्राणेन ।

2.1166

। कृतं पश्यामि निष्ठितं चेत्य् अनुक्तस्य [21ब्3]दानपतिना ।

2.1167

। त्रयाद् ऊर्धम् इष्टकापर्यायदानसंपादने ।

2.1168

। परेणापि ।

2.1169

। तद्दिने ।

2.1170

। अन्यत्रापि निष्कर्दमात्* ।

2.1171

। अमुक्तत्वे चोदकभ्रमाणां ।

2.1172

। अदत्तत्वे वा खातमूलपादस्य ।

2.1173

। औपरिष्टस्य वा द्वारकोशस्य ।

2.1174

। निर्दोषम् आद्यात् पूर्वं ।
विहारप्रायश् चित्तिकः ॥ । वृत

2.1175

॥ अपराजितं सूत्रंविनयमातृकाधरम् अ[21ब्4]नुनविं*शतिवर्षं नागरलपितम् उपनामितकायत्वे भिक्षुण्या कृतप्रतिक्रियां भिक्षुण्यववादकं संमन्येरन्* ।

2.1176

। पोषधे पञ्चदशाम् अन्तसीम्नि ।

2.1177

। अभावे सूत्रादिधरस्य प्रवृत्तप्रातिमोक्षं ।

2.1178

। तस्यापि पाराजयिकसंप्रकाशनं ।

2.1179

। गुरुधर्माणाम् बा ।

2.1180

। पश्चिमकः क[श्चि]द् वो भगन्यः ।

2.1181

। समग्रो भिक्षुणीसंघः परिशुद्धसमवेतो नवद्यो मा [21ब्5]वः कश्चिद् असंमत<<ः>> संघेन पुद्गलो ववदते संघाद् व आगच्छति पुद्गलो ववादको न वः कश्चिद् उत्सहते भिक्षुर् अववदितुं संघाद् वो ववादानुशासनी अप्रमादेन भगिन्यः ।

2.1182

। सम्पादयेतेत्य् अस्य ।

2.1183

। मुक्त्वोत्तरधर्मप्रभाववन्तं ।

2.1184

। एकेनापि विना तस्स<<अस>>म्मतस्य च भिक्षुण्य[व]वादेन पूर्वं सम्मत..स्यासम्मतत्वं ।

2.1185

। निर्दोषम् अपूरौ संघस्यार्हस्य [22अ1] । । याच्ञायां ।

2.1186

। तस्याञ् च ॥
असम्मताववादः ॥ वृत

2.1187

। अस्तमितायां ।

2.1188

। मुक्त्वा सर्वरात्रिकं धर्मश्रवणं भिक्षुण्यववादे ।

2.1189

। न चेद् अपावृतद्वारस् तदा तत्भूतस्याग्रतो विहारस्य वर्षकः ।

2.1190

। कुर्याद् वैशारद्याय धर्मप्ररिपृच्छायां भिक्षो भिक्षुण्यामिषोपसंहारं ।

2.1191

। अष्कुञ्चकपरिअ[22अ2]ट्टिक्[अ]लोठकम् उरूचिकानाञ् च ।

2.1192

। गृह्णीतादो भिक्षुः ।

2.1193

। भिक्षोर् अतथाभूतस्यामिषकिञ्चितकहेतोर् भिक्षुणीर् अववदतीति विवादे ॥
आमिषकिञ्चित्काववादः ॥ वृत

2.1194

॥ अज्ञातिकतायां भिक्षुण्याः ।

2.1195

। स्युतौ चीवरस्य ॥
चीवरकरणं ॥ वृत

2.1196

॥ दत्तौ ।

2.1197

। अपटकप्रदाने ।

2.1198

। न चेत्* मूषितायै सौभाषिणिकस्योपसंपद्यमानायै परि[22अ3]वर्तकेन वा ॥
चीवरप्रदानं ॥

2.1199

। वाहयेयुः पाथेयं ।

2.1200

। कल्पकारकल्पकारीश्रामणेरश्रामणेरीभिः ।

2.1201

। न्याय्यम् इतरेतरपथेयवहनं भिक्षुभिक्षुणीनां ।

2.1202

। अन्यो न्यप्रतिग्राहणञ् च ।

2.1203

। न ग्लानं ।

2.1204

। सब्रह्मचारिणम् अध्वनि छोरयेयुः ।

2.1205

। वहेयुर् एनं ।

2.1206

। एव[ं] भिक्षुण्यः ।

2.1207

। कुर्युर् अत्र परस्परं साहा[22अ4]य्यःं* ।

2.1208

। शिरोन्तग्रहणेन ।

2.1209

। ग्रामप्राप्तानाम् अदोषं प्रक्रमणं ।

2.1210

। समुदानीय ग्लानभैषज्यपिण्डपादञ् च ।

2.1211

। एकं <<च>> सरूपम् उपस्थायकं स्थापयित्वा ।

2.1212

। मुक्त्वो सभयतायां मार्गस्यैकसार्थपालम् अभिन्नप्रयाणतायाम् एकभिक्षुण्यापि मार्गातिवाहने।

2.1213

। प्रतिक्रोषं ।

2.1214

। प्रतितदर्धदुष्कृतं ॥

2.1215

। सभिक्षुणीकाध्वोरूढि ॥

2.1216

॥ [22अ5]सान्तरायतायाम् उभयकुलस्योच्छृज्या सम्बिधौ युगपद् एकनावा तिर्यक्पारसंतरणाद् अन्यत्र ।

2.1217

। वङ्कवटवर्तपरिहृतिकर्णयष्टिदण्डवंशावभङ्गकर्णधारवशाच् च तदर्थारूढौ प्रस्थानान्तरात्* ॥
सभिक्षुणीकजलयानोढि ॥

2.1218

। स्त्र्येकाकितारहस्त्वम् अप्रवृत्तजनप्रचारतया प्रदेशस्य ।

2.1219

। साधारणत्वम् अन्तर्व्यामता वेति कर्तृणि ।

2.1220

। [22ब्1]निषदने ।

2.1221

। आनिषादप्रतिष्ठापनम् एतत्* ।

2.1222

। एकनिषद्या ।

2.1223

। भिक्षुण्यास्थाने ॥
एकस्थानं ॥ वृति

2.1224

। भिक्षुणीपरिपाचितायां ।

2.1225

। अभूतैर् गुणैः ।

2.1226

। अकृतनिमन्त्रणके ।

2.1227

। कृते चातिरिक्तस्य ।

2.1228

। अभ्यवहार्यस्य ।

2.1229

। प्रतिपत्तिसंपत्त्या ।

2.1230

। तच्छ्रुतेन वा ।

2.1231

। अभ्यवहारे कण्ठेनैतद् एषः ।

2.1232

। ह्रासकृत्वं परार्थस्य ।

2.1233

। [22ब्2]देहि चोक्तेः पिण्डाय प्रविष्टे ॥

2.1234

। अधिवासयेद् भक्तोपनिमन्त्रणम् अन्तर्गृहे पि ।

2.1235

। कालं ज्ञात्वा प्रविशेयुः न सा[त्]रकालं ।

2.1236

। गण्डीं* दत्त्वा ।

2.1237

। स्वपर्षदं तत्रावलोकयेत्* ।

2.1238

। आकन्तुकं स्थविरः ।

2.1239

। न सहसा भक्तछेदं कुर्यात्* ।

2.1240

। तिष्ठेयुर् याचमानाः पानकाय ।

2.1241

। समं पश्चाद्* वानुपेतचीवर[22ब्3]लाभद्वितीयनिमन्त्रणकलब्धिः ।

2.1242

। भोजनीयेन ।

2.1243

। अन्तर्गतेन पञ्चके ।

2.1244

। अनेनैव चेद् अन्यत्* ।

2.1245

। अग्लानस्याकृतकर्मणो नूढस्याध्वनि ।

2.1246

। अधिवासनायां दुष्कृतस्य ।

2.1247

। अभ्यवहारे मौलस्य ।

2.1248

। समसामन्तकात्* पर्यन्तभूतं चीवरं ।

2.1249

। अध्वार्धयोजनं ।

2.1250

। अन्यत्रापि ।

2.1251

। अत्र वा नौगमने वा

2.1252

[22ब्4]संमार्जनं किलिञ्ज[मा]त्रस्योपलेपो गोपिटगमात्रस्येति कर्म ।

2.1253

। सांघिकता स्तौपिकत्वे चास्य ।

2.1254

। अशक्तिर् ग्लान्यस्य परिमाणं ।

2.1255

। अनिमन्त्रणकत्वं प्रज्ञप्त्[ए]ः ।

2.1256

। संदर्शनस्य च ।

2.1257

। असत्वं विहेठनकृतस्य ।

2.1258

। सांघिकस्य [चा]तदौद्देशिकस्य निक्षिपे चान्यत्र पञ्चके ।

2.1259

। धर्मत्वम् अस्य ।

2.1260

। ग्रहणे प्य् अन्यस्य स्वीकरणं दुःभिक्षो [22ब्5]आवत् संपत्तिनिमन्त्रणकानां ।

2.1261

। भुक्तिश् च ।

2.1262

। दानम् बा ।

2.1263

। अ<<न>>भिरुचिसंभावने दातुर् द्वित्रिग्रासाभ्यवहाराद् ऊर्धं गृहपते यं भिक्षुः पिण्डकेन विहन्यते नुमोदम्बा<<स्वा>>स्मै ददामीत्य् अभिरोच्य ॥
परंपरभोजनं ॥

2.1264

॥ अनेदंधर्मकः सगृहिस्वामिको सर्वपाषाण्डिक आवासथः ।

2.1265

। अग्लानस्याप्रवारितस्य दानपतिना ॥

2.1266

[23अ1] । । भुक्तिवतस् तदीयम् अभ्यवहारं मौलस्य ।

2.1267

। उषितवतो वासे दुष्कृतस्य ।

2.1268

। अस्वामिकश् च <<।>>

2.1269

<<।>> तीर्थ्यवत्त्वम् अत्रैदं प्रव्रज्यस्य ।

2.1270

। ज्ञातेश् च ॥
आवसथपरिभोगः ॥

2.1271

॥ प्रवारयतः ।

2.1272

। अप्ररिमितं ।

2.1273

। अकृतयथासुखस्य ।

2.1274

। गृहिणः ।

2.1275

। अर्धपञ्चमानां पक्वत[ण्डु]लमागधकप्रस्थापरिमाणानां [23अ2] प्रस्थानाम् उत्सृज्य व्यञ्जनम् ऊर्धं सहापि सहायप्रत्यंशेन पिण्डपातः ।

2.1276

। अभ्यवह्रिकताव् उत्कृष्य ।

2.1277

। अत्र दुष्कृतस्य।

2.1278

। परकृते च ।

2.1279

। अन्यथानापत्तिः ।

2.1280

। असंष्कृतस्य च ।

2.1281

। ग्राह्यात् प्रभूतञ् चेत् भिक्षुं संविभजेत ॥
द्वित्रपात्रपूरातिरिक्तग्रहणं ॥

2.1282

॥ भुञ्जीद् यावद् आप्तं ।

2.1283

। नोत्तिष्ठेत् विप्रकृतामिषः ।

2.1284

। यावतोस् ता[23अ3]वतो यस्य कस्यचिद् आलवणम् अभ्यवहार्यस्यादाने तद्विधत्वं ।

2.1285

। स्थानोत्सर्ग<<ः>> प्रवारणं ।

2.1286

। निषण्णस्य ।

2.1287

। विप्रकृतमूलखादनीयाद्यामिषस्य ।

2.1288

। मूलगण्डपत्रपुष्पफलखादनीयेभ्यो न्यपैयाच् च कल्पिकम् असंसृष्[ट]म् अकल्पिकेनाभ्यवहार्यम् अभिसंभवनीयप्रदेशस्थस्य प्रतिग्राहयतो निवाणं कृत्वा ।

2.1289

। देहीत्य् अस्येतत्* ।

2.1290

। [23अ4]गच्छेत्य् अपि ।

2.1291

। भुक्तम् इति च ।

2.1292

। न च तावत् शब्दोपसन्धाने ।

2.1293

। पर्याप्तम् इत्य् अपि ।

2.1294

। स्थानस्य कला[च्]इकया ऊर्धम् असंपादकत्वे यवाग्वाः पेयत्वं ।

2.1295

। तर्पणस्याप्रज्ञायमानपंचाङ्गुलस्य ।

2.1296

। अप्रतिग्राहणत्वं विहेठनस्य ।

2.1297

। न बहिःसीमान् अभिसंभावनीयप्रदेशान् अग्रतस्[थ्]ए निरिक्तकरणस्योत्[थ्]आनं? ।

2.1298

। नापाणिस्थ[ं] क[23अ5]रणीये ।

2.1299

। अकरणीयत्वम् अकल्पिकस्य संसृष्टस्य वा तेन ।

2.1300

। अनुत्सृष्टस्य स्थानस्य कर्तृत्वं ।

2.1301

। कृतवतो पि संकल्पम् अभोजने ।

2.1302

। याचितस्य ।

2.1303

। गच्छ तवैव भवत्व् इति वचनं करणम्* ।

2.1304

। यथासुखं परिभुंक्ष्वेत्य् एके ।

2.1305

। द्वित्रान् अभ्यवहृत्यालोपं ।

2.1306

। न निर्वृतक्रियः परिभुञ्जीत्* ।

2.1307

। भु न्जितान्यस्य कृतनिरिक्तम्* । ।

2.1308

॥ प्रवारितत्वाकृतनिरिक्तत्वयोः ।

2.1309

। अभ्यवहृतौ ।

2.1310

। आमिषमात्रस्य ।
एकासनभोजनं ॥ वृत्*

2.1311

॥ नियोगे स्यां भिक्षोः ॥
प्रवारितनियोगः ॥ वृत

2.1312

॥ प्रतिनियतभक्तावासेकेभ्यो न्यैर् अन्तःसीमस्थैर् भिक्षुभिः संघभूतैर् असहभक्ततायां ।

2.1313

। सहितस्य ।

2.1314

। सहभोक्तृतया ।

2.1315

। त्रयादिना ।

2.1316

। भिक्षूणां यद्विधस्याची[23ब्2]वरद्वितीयभक्तलब्धेर् अनूढस्य च नावा ।

2.1317

। महासमाजाद् अन्यत्र ।

2.1318

। अन्यास्यानिदं लिङ्गप्रव्रजितभक्तात्* ।

2.1319

। अभ्यवहार्[ए] स्थिततत्रागन्तव्यताना<<म् अ>>न्तःसीमास्थानाम् अपि पृच्छ्यागतत्वं ।

2.1320

। भुक्तिर् अर्धातिक्रमः ।

2.1321

। संचारणे स्तोकस्यापि ।

2.1322

। यस्य कस्यचिद् एकभक्तत्वं ।

2.1323

। न गमिकागन्तुकग्लानतदुपस्थायकोपधिवारिकाद् अन्यो य[23ब्3]वनोपन्वाहाराद् अभुक्ततायां म? सर्वैर् उत्कृष्ट्य भुञ्जीत्* ।

2.1324

। स्वमध्याह्नाह्नपर्यन्तारुणोत्गत्यन्तरम् अकालः ।

2.1325

। तत्वे वृत्* ।

2.1326

। खादनीयभोजनीयाभ्यवहारे ॥
अकालभोजनं ॥

2.1327

। पूर्वभक्ते प्रतिग्राहितं पश्चात् भक्ते तत्र यामातिक्रान्तम् इति सन्निहितं ।

2.1328

। नोद्गृहीतं* गिलेत्* ।

2.1329

। न पक्वम् उषितम् बान्तःसीम्नि ।

2.1330

। भिक्षुपक्वञ् च ।

2.1331

। सो त्र पाको य आमस्य ।

2.1332

। तत्वम् अमृदूनां प्राक् त्रिभागोत् स्विन्नत्वात्* ।

2.1333

। वर्णपरिवृत्तेर् मृदूनां ।

2.1334

। द्रवाणां द्वितीयम् उत्थितत्वात्* ।

2.1335

। न्[आ].इना कल्पकरणं न पाकः ।

2.1336

। न जन्मा[य]त्तनिर्मितत्वं वासस्यानुषितत्वं ।

2.1337

। प्रदेशस्थतयापि पात्रस्य तत्भूमिपक्वता ।

2.1338

। न पक्तुस् त[23ब्5]त्गतत्वेनं ।

2.1339

। नाग्नेर् अपात्रत्वं ।

2.1340

। न ततो निष्कृष्टनिर्गतयोस् तत्त्वं ।

2.1341

। वासत्वम् उपविचा[र्]अस्य ।

2.1342

। व्यामं ।

2.1343

। ऊर्धञ् च वियतस् संभाव्यस्य ।

2.1344

। अभ्यन्तरस्य च ।

2.1345

। तत्वं पुरान्तरस्योपरिष्टस्य ।

2.1346

। नान्याधिष्ठितत्वे न्यवासत्वं ।

2.1347

। न यावज् जीविकानाम् उत्गृहीतान्तःपक्वभिक्षुपक्वेषु तत्प्रतिशेधे संशितत्वं का[24अ1]लं प्रति ।

2.1350

। अर्धामिषत्वं परिशुद्धे ।

2.1351

। पानादयो मलस्यास्ये ।

2.1352

। बहिरस्य गोमयेन मृदा वा परिघृष्टोदकेन सम्मार्गो निर्मादनं ।

2.1353

। अन्तद्वित्रोदकगण्डूषछोरणं ।

2.1354

। निर्मादितत्वम् आशयतो द्वित्रवधिकं दाने विस्वनतो पि पात्रस्य ।

2.1355

। निर्दोषं विरलने ।

2.1356

। निष्परिगोधे च संस्पर्शे ।

2.1357

। प्रक्षालितस्य च त्रिर् उषगोमयमृत्तिका[24अ2]न्यतरेणास्निग्धतायां ।

2.1358

। अपनेयत्वम् उत्थितस्य ।

2.1359

। तस्यैव प्रदेशपरिगोधे प्रक्षाल्यत्वम्* ।

2.1360

। निःस्नेहतायै स्निग्धस्य च घटादेर् गम्भीर उदके ह्रदे निधानं ।

2.1361

। आमत्स्यकच्छपमण्डूकशिशुमारवुल्लकैर् निर्लेहाधारणं ।

2.1362

। दारुतो पि निःस्नेहतापत्तिः ।

2.1363

। निर्मादने निःस्नेहितस्योषाटुकेन गोमयेन वा शुद्धत्वं ।

2.1364

। अर्धत्वम्* [24अ3] लवणक्षारकलुषोदकभूतस्य लवणादेः ।

2.1365

। कल्पमानता च सर्वस्याकाले ।

2.1366

। असत्त्वम् अकरणे लवणक्षारयोः स्वकार्यस्य ।

2.1367

। उत्पत्तौ प्रतिबिम्बस्योत्तरस्य ।

2.1368

। कटकफलेनाम्भसः स्वाच्छ्योपगमनं।

2.1369

। क्षारेण सक्तुपिण्ड्या ।

2.1370

। स्नेहनम् अविशरणायास्याः ।

2.1371

। नाप्रज्ञायमानस्य सत्संख्य[24अ4]त्वम् आकरेष्व् अनुप्रविष्टस्य ।

2.1372

। प्रदेशव्यवकरे तस्यैवापनेयत्वं ।

2.1373

। चञ्चुना काकेन स्पृष्टतायां सामन्तकस्य ।

2.1374

। न तत्संयुक्तधारा स्पृष्टौ न तस्य स्पृष्टता ।

2.1375

। न भ्रान्त्या स्मृतिप्रमोषेण वा ।

2.1376

। नाभ्यां च्यावितस्य स्थापने ।

2.1377

। स्वल्पतरम् अन्तरं स्थानम् उपनयेत्* ।

2.1378

। न वैतरिके नोद्गृहीतत्वं प्रतिग्राहित वा ।

2.1379

। नानयेत् प्रतिग्रा[24अ5]हणार्हसम्बन्धस्य ग्रहणं ।

2.1380

। सम्बद्धत्वं तेनान्तरवादिसंबद्धतायां ।

2.1381

। एकत्वं सन्निहितप्रतिगृहीतोत्गृहीतेषु तुल्ययो संवरेणाभिन्नदृष्ट्योः ।

2.1382

। परेण चावरस्य ।

2.1383

। गृहिवत् स्त्रीपुंसयोः परस्परम्* ।

2.1384

। श्रामणेरिय स्पृष्टवा गोपनात् तद्वद् दोषकारी ।

2.1385

। न सापेक्षेण दत्तस्योत्सृष्टत्वं ।

2.1386

। अर्धत्वं निरपेक्षोत्सृष्टस्य सापे[24ब्1]क्षतायां तस्मान् नेतद् याचेत ।

2.1387

। न गृह्णीत जानन्* ।

2.1388

। नाकल्पिकत्वं भागनयने स्पृष्टौ नीतस्य प्रवेशने तद्रूपेषु प्रत्ययेषु ।

2.1389

। वाहासनं शकटे वर्ज्यत्वं ।

2.1390

। पूरणे पि ।

2.1391

। ग्लानाधिरोहे च ।

2.1392

। कर्णस्य नावि ।

2.1393

। आसनस्य च तद्धारणार्थस्य ।

2.1394

। सांघिकौषधयोश् चोद्वलतोर् घट्टनापनयनेनाग्निनिर्वापणेन चीवरकर्णकादि[24ब्2]भिर् वा तदानेनेत्यादौ प्रयतनं ।

2.1395

। कल्पिकम् असम्पत्तौ विधेर् नदीसंतारणार्थं नेतरि च संप्रापणार्थम् उद्गृहीतम् अभावे न्यस्य पथ्यदनं ।

2.1396

। उत्साहनम् अभावे वाढुरस्य दानपतेः ।

2.1397

। वहनम् असम्पत्तौ स्वयं

2.1398

। संपादनञ् च तत एव दानपरिवर्तग्राह्यस्य ।

2.1399

। भोज्यत्वम् अस्याप्य् असंपत्ताव् अन्यस्य ।

2.1400

। अप्रतिग्राहितस्य च प्रतिग्राहकाभावे ऽस्य चान्यस्य वा [24ब्3] कृतभक्तच्छेदस्य ।

2.1401

। प्रथमे ह्ने व्याघ्रम् उष्टेः ।

2.1402

। द्वयोः द्वितीये ।

2.1403

। तृतीये यावद् आप्तम्* ।

2.1404

। भोज्यत्वं फलानाम् अकाले प्य् अकृतकल्पानाम् अप्य् अप्रतिग्राहितानां च ।

2.1405

। निर्भक्तस्य ।

2.1406

। तैव्र्ये क्षुदः ।

2.1407

। मूलानाञ् च ।

2.1408

। स्वयं च पातनोत्पाद्यते साह्यत्वं च ।

2.1409

। उत्तरकौवरप्रसिद्धेः सर्वत्राप्रतिग्राहीतोप[24ब्4]भोगादौ प्रारिप्सायाम् अभिध्यानं।

2.1410

। न करके पानीयं पिबेत् संभवे हस्तनिर्मादनपत्रयोः ।

2.1411

। असम्भवे चाप्रतिग्रस्तम्* ।

2.1412

। नास्य सजलतायाम् अपि तत्त्वं* भजेत्* ।

2.1413

। त्रैविध्यम् अस्य पिधानके ।

2.1414

। काष्ठमयं शैलमयम् मृन्मयम् इति ।

2.1415

। धारयेत् करकस्थालकम् ।

2.1416

। काष्ठमयं शैलमयम् वा ।

2.1417

। निर्दोषं भा[24ब्5]जनत्वोपयोगे पत्राणाम् अप्रतिग्राहितत्वं ।

2.1418

। अविशेषो त्र मुक्तामुक्तयोः ।

2.1419

। उपयोजनम् असम्भवे न्यस्यामुक्तानाम्*

2.1420

। भुञ्जीत त्यक्तम् आशयतो दात्रान्यप्रतिग्राहकाभावे स्वयं प्रतिगृह्य ।

2.1421

। सम्मुखान्तःसीम्न्य् अतिसंभवनीये प्रदेशे वस्थिते नोत्तानपाणिना काये तत्संबद्धे चोद्ग्रहणसमर्थतो ऽनुपसं[25अ1]पन्नाद् अमनुष्याद् अपि दित्*शेयाङ्गेन तत्सं*बंधेन चोत्सृष्टस्य प्रतीष्टिः प्रतिग्रहः ।

2.1422

। जैगुप्स्यतायां जनपदस्योपनिक्षिपेत्युपदर्शिते मण्डलके ऽपि ।

2.1423

। एक्यं पात्रतदधिष्ठानयोः ।

2.1424

। गोचरः शाखामर्कटानां न ततस् तान् प्रत्यनभिसंभवनीयत्वं भूमेः ।

2.1425

। न फलानां पञ्चपीठिकोत्संगपात्राधिष्ठानैः प्रतिग्रहप्रतीष्टेर् अन्याय्यत्वम्* ।

2.1426

। [25अ2] निःश्रितैर् एषां प्रत्यवेक्षणं तूष्णींभावेन ।

2.1427

। समप्रवृत्तिं चारकं* रोचयेयुः ।

2.1428

। न्याह्यम् भिक्षोश् चारकत्वं प्रतिग्राहित्वस्य ।

2.1429

। घृततैलमधुफाणितघटांश् चारयंस् तृणपत्रप्रभृतिश् चीवराणि व्यवदध्यात्* ।

2.1430

। पृथक् चार्ये ज्येष्ठमध्यमकनीयसां करणम्* ।

2.1431

। पृथक् कृत्य मृष्टाम्राणां चारणं* ।

2.1432

। चारकस्याचार्य उपाध्यायो वा प्रति[25अ3]गृह्णीयात्* ।

2.1433

। अप्राप्यप्राप्ताव् अनन्तरस्थानः ।

2.1434

। अनेकत्वे यावताम् आसनमुक्त्वा प्रतिग्रहीतुं शक्तिः ।

2.1435

। लुठितस्य शक्यतायां स्वयम् अमुक्त्वा स्थानं ग्रहीतुम् अध्वंसः प्रतिग्राहस्य ।

2.1436

। स्पृष्टस्य च मक्षिकाकीटिकादिभिः ।

2.1437

। अन्येनास्य मुक्तस्य भिक्षुणा ।

2.1438

। ध्वंशकृन् मूषिकः ।

2.1439

। न प्रतिग्राहि[25अ4]कःतप्रतिग्रहणम् अन्याय्यम् ।

2.1440

। अप्रतिग्राहितायां ।

2.1441

। उत्सृज्योदकदन्तकाष्ठम् आहार्यस्य ।

2.1442

। मुखेनाभ्यवहारे ।

2.1443

। अनुत्तरकुरौ ।

2.1444

। प्रतीष्ठ्यद् ग्लानो नुपसम्पन्नेन भोजनम् अभाव उपसंपन्नस्य ।

2.1445

। भोजयेद् अनुपसंपन्नम्* ।

2.1446

। क्षीरं दधि नवनीतं मत्स्यं मांसम्* वल्लूरा [25अ5] इति प्रणीतभोजनं ।

2.1447

। एतत् कर्तृत्वं अज्ञातिगृहीता च दातुः ।

2.1448

। स्वविज्ञप्त्याभ्यवहृतौ विज्ञप्तौ कारितत्वे चास्या दुष्कृतस्य ।

2.1449

। अग्लानस्याकृतयथासुखप्रवारणस्य ।

2.1450

। तस्माल् लभमानस्यापि चेद् अन्यल्लूहं प्रणीतम् वा समं प्रकृष्टं वा विज्ञप्तिः ।

2.1451

। अर्धतास्मिन्* लूहस्य ।

2.1452

। यथासुखप्रवारणत्वं भिक्षयादाय निर्गतेन [25ब्1] तूष्णीम्*
तिष्ठतः प्रतिक्षिप्तो वा तत् किं* याचस इति । प्रस्नस्य

2.1453

। स्वोपभोगार्थत्वे प्रवृत्तिप्रवर्त्तणयोः । वृत ।

2.1454

। सप्राणितायां ।

2.1455

। उदकं सर्प्पिस् तैलमधुफाणितक्षीरदधिनवनीतशुक्तशुलुकदधिमण्डकांचिकफलखाद्यकादेर् उपयोज्यस्य ।

2.1456

। दृश्यैः ।

2.1457

। मृतौ ।

2.1458

। प्रतिप्राणि उपभोगः शरीर उपयोगः ।

2.1459

। तद्यथा [25ब्2] स्नानं* पानं* दन्तकाष्ठविसर्जनं* हस्तपादप्रक्षालनं* ।

2.1460

। उपकार्ये स उपयोगो य उपकरणेषु ।

2.1461

। अभ्यवहार्यपात्रचीवरस्थानदन्तधावनाग्निप्रभृतीनि शरीरोपकरणानि <<।

2.1462

।>> तेषां मृद्गोमयरङ्गतृणकाष्ठप्रभृति ।

2.1463

। तेषु उपयोगस् तद्यथा निर्मादनं भावनं* रञ्जनं* सेकः सम्*मार्ग उपलेपः ।

2.1464

। यूषमण्डयवागू[25ब्3]नां कारणं ।

2.1465

। बन्धमोक्षयोर् उदकमार्गस्य ।

2.1466

। काष्ठप्लवयोः क्षेपाकर्षणोत्पाटनानां ।

2.1467

। अकपलसकाद् अन्येन रोमविधादिना स्नानं* ।

2.1468

। तेनास्य हि रिक्तप्राणकधाताव् उदक इत्य् अपि प्रयोगाः

2.1469

। धारयेद् दण्डपोण* ।

2.1470

। दत्तप्रत्येष्ट्यभाण्डोत्त्माकाशावस्थाप्याकीर्यमाणपव्यजलप्र-[25ब्4]त्येष्ट्यपवित्य असम्*<<जनना>>यमार्थय लहकण्टकरस् त्रिदण्डस् तदाख्यः ।

2.1471

। स्थानार्थं जलस्यास्तृतेः परिश्रावणे दानम् ।

2.1472

। वालुकया गोमयेन वा ।

2.1473

। धारणपात्रस्य वा ।

2.1474

। मृत्ताम्रमयोर् अन्यतरस्य ।

2.1475

। त्रिदण्डयष्ट्याम् अस्य बन्धनम्* ।

2.1476

। सम्*गृह्य रन्ध्रे सूत्रकेण पूर्वस्य ।

2.1477

। उत्तरस्य श्लक्ष्णसृङ्खलिकया ।

2.1478

। धारणम् अस्य ।

2.1479

। कम्पिक[25ब्5]या मुहुर्मुहुरतानेस्त्रपरिश्रावणस्य पराघातः ।

2.1480

। अल्पप्रयत्नेन र<<व>>णं* ।

2.1481

। धारणम् अस्य ।

2.1482

। मृदस् ताम्रस्य वा ।

2.1483

। कुम्भकृत्य् एतद् अधोनाडिषु पुस्करवदन्तरविवरं* ।

2.1484

। नदुकस्यैषु शोधकत्वं ।

2.1485

। परिश्रावणम् उपस्थापयेत्* ।

2.1486

। खल्लगं धर्मकरंकं मोचनपट्टकम् वा ।

2.1487

। आत्युहायां कल्पिकजलस्य सम्*[26अ1]भावदायाञ् च करककुण्डिकाभ्याम् एतत् तद्वत्त्वं । नानेन विनाजनपदचारिकञ् चरेत् ।

2.1488

। न सान्तरेण सार्द्धम्* ।

2.1489

। तद्रूपश् चेत् प्रत्ययः क्षमयित्वा कार्यकरणे स्तित्वम् आस्तित्वं ।

2.1490

। तस्मात् तद्वत्त्वम् अत्र दाने प्रतिज्ञाते न्येन ।

2.1491

। नैतज् जनपदचारिकायाम् वियुक्तौ दानाप्रतिज्ञाने संश्रयेत्* ।

2.1492

। नाविघातकृदन्तरसंचा[26अ2]रश् चारिका ।

2.1493

। क्रोशपञ्चकस्यैतत्त्वं ।

2.1494

। न प्रमील्य गतस्य स्थाने तद्वत्त्वाभावे कामजः ।

2.1495

। नैकेनानेकस्य तद्वत्त्वासंपत्तिर् आसंघात्* ।

2.1496

। नाविघातकृत्त्वं शीघ्रस्रोतसः ।

2.1497

। क्रोशमनु गच्छतो ऽस्यामनुस्रोतो ऽनुसंहितं* प्रत्यवेक्षणात् तेन प्रवृत्तिः ।

2.1498

। सम्भेदश् चेद् अत्रोदकान्तरेण प्राक् ततः ।

2.1499

। व्यामस्य परितः प्रत्यवेक्षितत्वं ।

2.1500

। चक्षुषा [26अ3] शुद्धत्वम् उदकस्य शुद्धिः ।

2.1501

। प्राकृतेन ।

2.1502

। निष्कम्पत्वे प्रत्यवेक्षणम् अरजसः ।

2.1503

। पूर्णत्वे घटस्य ।

2.1504

। नातिकृयासंख्याम् अत्र चिरतां कुर्यात ।

2.1505

। तूलिकया सुकरं प्राणकानां दर्शयनं* श्लक्ष्णया ।

2.1506

। नैनां क्लमके ध्वन्या किरेत्* ।

2.1507

। नान्याम्* ।

2.1508

। प्राणकपतनं ।

2.1509

। चेत् प्रदीपे तत्करणेनास्य प्रच्छादनम्* ।

2.1510

। पञ्जरं वंशवि[26अ4]दलिकानां शुक्लवस्त्रस्य वेष्टिम् अभ्रपटलेन वा तदाख्यम् ।

2.1511

। शताक्षश् च ।

2.1512

। आद्यकृतित्वा कर्परं वा घटादेश् छिद्रितम् ।

2.1513

। न वालपाशेन सर्पं बध्नीयात्* ।

2.1514

। अछटाशब्दं कृत्वा भद्रमुखादर्शनपथे तिष्ठेति वदेत्* ।

2.1515

। अस्थितावजपदकेन दण्डेन शनैष्कुम्भे कुण्डके वा प्रक्षिप्य छिद्राणि कृत्वा मुखं पिधाय निष्कासनम् ।

2.1516

। [26अ5] असंमत्तौ पट्टिकया लोठिकया मुरुचिकया वा रजुपाशेन वा नतुके वेष्टितेन ग्रीवायां बद्ध्वा ।

2.1517

। प्रक्षेपे ऽप्य् एषां विनयोगः ।

2.1518

। न दवे च्छोरयेत्* ।

2.1519

। आशयप्रवेश तिष्टेत्* ।

2.1520

। नदुके यूकानां स्थापनम्* ।

2.1521

। शुसिरे तस्य ।

2.1522

। शाद्वले मत्कुणानाम् ।

2.1523

। शीतले वा ।

2.1524

। मोचनघटिकायाः पूर्वावतार[26ब्1]णार्थं* वारणं ।

2.1525

। तेनैव वा परिश्रावणेनावतारणम्* ।

2.1526

। मोचनं परिश्रावणस्य लग्नप्राणकापनीताव् उपायः ।

2.1527

। भावनम् मलस्य ।

2.1528

। शोष्यणं यौ?न्यानुपगतेः ।

2.1529

। निष्पीडनस्य द्वये ऽप्य् अस्मिन्न् उपकरत्वं ।

2.1530

। निरावद्यालंभप्रत्ययसंघपुद्गलपरिश्रावणप्रस्रवणप्रत्ययेन प्रवृत्तिः ।

2.1531

। आसूर्योदयात [26ब्2] गृह्णीतो दपानयोः प्रत्यवेक्षितानुवृत्तिः ।

2.1532

। पादधावनिकां रिक्तामुल्लोच्य पूरयेत्* ।

2.1533

। उपस्थापयेद् <<चोदका>>न्यभाण्डम्* ।

2.1534

। भाण्डगोपकस्य तद्गतः सांघिके व्यापारः ।

2.1535

। नात्र दानग्रहणयोः नान्तर्भावः ।

2.1536

। दानं गृहिणे याचितकत्वेन ।

2.1537

। परिभुक्तस्य तत्सत्वे ।

2.1538

। नानेन दानपतीनां विहारे देयत्वस्य नोक्तता [26ब्3] नवस्य भिक्षवे निद्देयत्वेन ।

2.1539

। भाण्डार्थे लयनसनियोजनं ।

2.1540

। पृथक्त्वेन मृत्ताम्रभाण्डिकयोर् निक्षेपः ।

2.1541

। उपस्थापनं पानीयस्य ।

2.1542

। न यत्र क्वचन स्थापनम्* ।

2.1543

। मण्डपस्य तदर्थं करणं ।

2.1544

। दक्षिणपश्चिमे विहारस्य पार्श्वे भ्यन्तरतः ।

2.1545

। वातायनमोक्षेष्टकास्तरदानोदकभ्र[26ब्4]ममोक्षद्वारकरणकवाटकटकदानं* ।

2.1546

। वंश्रस्य च परिश्रावणस्थापनार्थं ।

2.1547

। काष्ठ(म्)मञ्जिकासु स्थापनं ।

2.1548

। इष्टकपिण्डिकायाम् वा ।

2.1549

। आधारकेषु ।

2.1550

। चौक्यं पानीयभाण्डम् आपारिभोगोकार्थात् कुर्यात्* ।

2.1551

। शुचि ।

2.1552

। पानीयञ् च पेयम्* ।

2.1553

। नाकल्पिकैर् एनद् हस्तचीवरैश् चारयेत्* ।

2.1554

। [26ब्5] कालेन कालम् उदकभाण्डानाम् अन्तःशोचनम्* ।

2.1555

। गम्भीराणाम् उशीरकुर्वकेन पत्रवैभङ्गुकैर् नत्रकेन वा यष्ट्याम् उपनिबद्धेन ।

2.1556

। नातो रम्वृत्वम् आमिषोपदेहस्य ।

2.1557

। शोषणञ् च ।

2.1558

। तदा विघातार्थम् अपहतत्वेन ।

2.1559

। निश्रयकरणीयानाम् उदकगतो व्यापारः ।

2.1560

। प्रवृत्ताव् औन्मुखे वा ।

2.1561

। सन्निपाते ।

2.1562

। स्त्रीपुन्सयोः ।

2.1563

। गृहित्वे ।

2.1564

। अन्यस्थानतायां ।

2.1565

। योग्यत्वे च ।

2.1566

। निरस्यत्वे संप्रयुक्तेः ।

2.1567

। प्रत्यक्षकल्पेन निषदने ।

2.1568

। । स्थाने रहःकल्पेन ।

2.1569

। सावरणस्य ।

2.1570

। न चेत् भयवशात

2.1571

। दुष्कृतस्यासम्वेद्यसम्वेतृत्वे ।

2.1572

। अवधाने [27अ2]च स्थानान्तरे ।

2.1573

। गोचरान्तात्* दृष्तेः स्थानान्तः ।

2.1574

। अन्तर्गतत्वं गन्*जस्य ।

2.1575

। भिन्नत्वम्* गृहान्तरस्य ।

2.1576

॥ स्त्रियाः पुरुषस्य वा ।

2.1577

। उत्सृज्य ज्ञातिं* प्रव्रजापेक्षं* ग्लानञ् च ।

2.1578

। अनिदंलिङ्गप्रव्रजितस्याचेलकस्य काये कायसम्बद्धे वा ।

2.1579

। खादनीयभोजनीययोः [।]

2.1580

स्वस्य [27अ3]तस्य च ।

2.1581

। उत्सृज्य पापगदृष्टिगताद् विवेचनार्थतां ।

2.1582

। स्वयं दाने ।

2.1583

। अकल्पिकयोः दुष्कृतं ।

2.1584

। दापने ।

2.1585

। सम्विभागे च ।

2.1586

। युद्धाभिनन्दिसेनदर्शनार्थतया ।

2.1587

। उत्सृज्य राजदेवीकुमारामत्यभटवलाग्रनैगमजानपदोक्तिम्* ।

2.1588

। अन्तरायोपपातवशताञ् च ।

2.1589

। [27अ4]प्रस्थापितस्य ।

2.1590

। उपविचारान्तातिक्रमे दृष्टौ ।

2.1591

। विनैते तत्र रात्रिन्दिवद्वयपरिपूरेर् ऊर्धम् वासे ।

2.1592

। अनिमित्तञ् च पूर्वत्रापि ।

2.1593

। युद्धाङ्गानां कर्तृत्वं ।

2.1594

। अनान्तरायवशगतस्य ।

2.1595

। समस्तव्यस्तानां ।

2.1596

। सज्जीकृतानां ।

2.1597

। मौले मोलस्य ।

2.1598

। दुष्कृतस्य प्रयुक्तौ ।

2.1599

। [27अ5]असज्जीकृतानां ।

2.1600

। उभयत्रापि दुष्कृतस्यैव ।

2.1601

। स्पृष्टिर् उद्यूथनं प्रस्थाय दर्शनार्थम् उपविचारान्तातिक्रमे दृष्टिर् इति मूलानि ।

2.1602

। न्यूनत्वम् अनुद्यतत्वे ।

2.1603

। न हस्त्यश्वकुक्कुटलावकवर्तकस्त्रीपुरुषयुद्धादि कुर्यात् कारयेन् निरीक्षेत वा ।

2.1604

। कलुषचित्ततया ।

2.1605

। कायतन्निःसृष्टसम्बद्धैर् येन [27ब्1]केनचिद् अन्ततः पादाङ्गुष्ठसर्षपतूलिकभिः प्रहृतौ ।

2.1606

। भिक्षो ।

2.1607

। परस्य ।

2.1608

। उत्तरेषु त्रिषु ।

2.1609

। स्पृष्टो ।

2.1610

। प्रतिनिपात्यम्* ।

2.1611

। अनिपाते दुष्कृतम्* ।

2.1612

। नान्यत्र प्रहर्तव्ये न्यत्र प्रहरेत् ।

2.1613

। न स्तम्भे प्रहारं दद्यात्* ।

2.1614

। न भित्तौ भूम्यां वृक्षे न्यत्र वा ।

2.1615

। प्रहारावगुरणे ।

2.1616

। प्रतिद्रव्यं ।

2.1617

। [27ब्2]पाराजयिकसंघावशेषयोर् उत्सृज्यास्पर्शश्रामण्यब्रह्मचर्यान्तरायसंघसंक्षोभाशंकवशताम्* ।

2.1618

। प्रतिछादने ।

2.1619

। अन्ते होरात्रस्य ।

2.1620

। प्राग् दुष्कृतम्* ।

2.1621

। अन्य<<स्या>>श्वापत्तेः ।

2.1622

॥ सं*चिन्त्य मुक्त्वा रोगप्रतिकृयार्थ तां गृही दातृभक्तछेदस्य कारणे ।

2.1623

॥ [27ब्3]न सिं*हं* स्पृशेत्* ।

2.1624

। शास्तृधर्मसंघसब्रह्मचारिणां धर्म्यकरणीयार्थतापेक्षा पात्ररंगकर्मणोश् च समयाधिष्ठानम्* ।

2.1625

। अधितिष्ठेत्* दीर्घम्* ।

2.1626

। क्रीडायां चरपरया चन्द्रसूर्यालातचक्रादिकरणतश् च ।

2.1627

। अग्निना ।

2.1628

। अनधिष्ट्ःइतसमयस्य अग्लान्यवशतास्थस्य स्पृष्टौ ।

2.1629

। स्वयन् नियोग[27ब्4]तो वा ।

2.1630

। प्रज्वालनिर्वापणस्पृष्टास्पृष्टेन्धनसम्ववधानयुक्तनिष्कर्षणाङ्गारसमावर्तननिष्कर्षणेषु ।

2.1631

। अर्धास्तमितत्वं कुकूलस्य ।

2.1632

। ज्वालानाञ् च ।

2.1633

। समवधाननिष्कर्षणे तत्रेन्धनस्याग्न्यन्तरवृत्तम्* ।

2.1634

। केशरोमास्थिनखखेटसिं*घाणकवान्तविरिक्तमुत्गमाषतिलतैलमधु-सर्पिषाम् अर्धेन्धनत्वं ।

2.1635

। अन्यस्य [27ब्5]करणीये न्यस्यैत्य् अधिष्ठानम् अर्धाधिष्ठानम्* ॥

2.1636

॥ भिक्ष्वर्थार्थे कर्मणि ।

2.1637

वृत्[त]स्य मतदानस्य प्रत्युद्धारार्थायाम् वापि ॥

2.1638

॥ नाचन्द्रसूर्यालोकवत्यववरकदेशे शयीत ।

2.1639

। मुक्त्वा ग्लान्यग्लानोपस्थानवशताम्* ।

2.1640

। प्रायश् चित्तिकम् अत्रेत्य् एके ।

2.1641

। अर्धत्वम् अ[28अ1] । ।निपत्तेः पृथक्त्वञ् चाह्नः ।

2.1642

। यत् भूयः परिवारितम् अगारपर्यन्तः ।

2.1643

। तत्गतत्वं संबद्धस्य तत्*द्वारपार्श्वोपचारस्यागारभूतस्य ।

2.1644

। पुरान्तरस्य च तत्गतद्वारस्यानन्तरस्य च ।

2.1645

। न सोपचारात् परस्य लयनमात्रात् पृथग्भूताध्यासितस्य ।

2.1646

। अर्धत्वं वृक्षमूलकुड्यशुशिर......वूर्तमूलानां ।

2.1647

। सगहनानां स्त्री[28अ2]सहस्वप्ने ।

2.1648

। अध्वनो त्र कुक्कुटस्योत्पात्य निलयने न्तरम् अभूतत्वं ।

2.1649

। सर्वस्य सान्तरसंचारस्य निरनगारान्तरत्वे छदनस्यैकत्वं ।

2.1650

। पृथक्त्वम्* स्वभागगतबन्धनबद्धत्वे द्वारस्योपचारस्यापि ।

2.1651

। तद्वद्रक्षितत्वं भिक्षुणापत्तेः ।

2.1652

। गुप्तत्वञ् च स्वामिना मातृग्रामस्य ।

2.1653

। उद्धृतत्वञ् च निःश्रयणेः पुरान्तरे ।

2.1654

। हासो नगारत्वे न्यभ् ऊतात्* ।

2.1655

। [28अ3]अनुपसंपन्नेन सार्धम् अगारे त्रितीयस्यां रात्रो स्वप्ने ।

2.1656

। अन्ते ।

2.1657

। प्राक् दुष्गृतं निर्दोषम् अध्वपरिश्रान्तस्य क्लान्तौ ।

2.1658

। यथास्यान्ते पि ।

2.1659

। अकल्पिनि च भिक्षोर् करणीये तत्संपादकेन सार्धं* ग्लानस्य तदुपस्थायिनश् च ।

2.1660

। श्रामणेरेण च तद्वतः सन्निहिततायां तत्रावासे पापभिक्षोः कृतकुर्वत्तन् निवासप्रयत्नस्य ।

2.1661

। उपगतो [28अ4]पश्चिमकालयोर् द्वयोर् आद्ययोर् मासयोर् वर्तमानस्य ।

2.1662

। नोर्धम् अस्य वस्त[व्]यत्वम्* ।

2.1663

। अकार्यत्वं पूर्वोपगतेः ।

2.1664

। अरक्षत्वं प्राग्* ।

2.1665

। नैषो नुपस्थापितम्* श्रामणेरम् उपस्थापयेत्* ।

2.1666

। मिद्धोपपातेनाध्वनि श्रामणेरम् अभिप्लुतं* पुरतः कृत्वा गच्छेत्* ।

2.1667

। बुभुक्षितश् चेत् सानुकालं दद्याद् अस्मै तदाहारम्* ।

2.1668

। पुनश् चेद् वेलायां तदा[28अ5]पि ।

2.1669

॥ तथाहम् भगवतो धर्मदेशितम् आजानामि यथा <<य्[ए] अधर्मा[ः] संक्लेशिका[ः]>> आन्तरेयिकधर्मा उक्ता भगवतो प्रतिषेव्यमाने <<ना>>लम् अन्तरायायेत्यादि प्रवृत्तवचनतावसर्गे जैगुप्स्यमत एनं कुर्यु ज्ञापनेन ।

2.1670

। तथा विदितप्रक्षिप्तस्याप्रतिकृ<<त>>तायां भिक्षोः ।

2.1671

। उद्दे[28ब्1]शदाने ।

2.1672

। परिप्रच्छन् निकायायाः ।

2.1673

। सनिःश्रयस्य ।

2.1674

। अनुशासन्याः ।

2.1675

। अववादस्य ।

2.1676

। आविष्करणे दृष्टेः ।

2.1677

। आमिषसंभोगे ।

2.1678

। उपस्थापनस्वीकृतो ।

2.1679

। अगारे च सहस्वप्ने ।

2.1680

। अन्ते रात्रेः ।

2.1681

। अन्यथा वासं स्यन्दने <<।>>

2.1682

<<।>> मुक्त्वा ग्लान्यदृग्विवेचनगतेनार्थेन ।

2.1683

॥ [28ब्2]प्रवृत्ततद्वचनानुत्सर्गे स्रामणेरं नाशयेयुः ।

2.1684

। ज्ञप्ते चतुर्थस्य ते कर्मण इति पूर्वत्रोत्तरत्रनाशनीयस्य ते इत्य् उपक्रमं ज्ञप्ति<<ः>> कृता नि<<ः>>सृजेदम् एवंरूपं पापकं दृष्टिगतं प्रथमा कर्मवाचना कृता द्वितीयेति प्रत्येतदन्तम् अस्मै भिक्षुणा श्रावयेयुः ।

2.1685

। <<अ>>नारताव् उत्तरं कुर्युः ।

2.1686

। नाशिततायां श्रमणोद्देशस्य ।

2.1687

।[28ब्3]नील्या गैरिकेन वल्कलेनेत्य् अनुपरक्तस्य स्ववाससः ।

2.1688

। अन्ततः पात्रवस्यकस्थाविकापादचोडकायबन्धनानां प्रावरणादौ परिभोगे ।

2.1689

। न निकायान्तरीयस्य पुनः कल्पनीयत्वं ।

2.1690

। नाछिन्नस्य गृहिणा ।

2.1691

। न महारङ्गरक्तं प्रावृत्तिम् भजेत ।

2.1692

। नागारिकस्य ।

2.1693

। भजेद् विहाराभ्यन्तरे प्रतिछातितस्य का[28ब्4]षायेण ।

2.1694

। साधारणत्वम् अध्वनि याचितप्रावरणस्य ।

2.1695

। साहायकैः भिक्षुश्रामणैरैः ।

2.1696

। एकत्वे वृद्धान्ताद् आरभ्य यावत् संभावनाम् उपरिदानं ।

2.1697

। नानवछिन्नम् अपरतः प्रावृत्यं चंक्रम्येत ।

2.1698

। अन्वाक्रामेद् उपनिमन्त्रितः पुण्यकामेन नवमाछिन्नदशात् पराहत्यानित्यतामनसिकारेण ।

2.1699

<<।>>[28ब्5]स्पृष्टोस्पर्शनयोः कर्तृरत्नम् अस्वं ।

2.1700

। तत्सम्मतञ् च ।

2.1701

। शस्त्रम् एतत् संग्रामावचरं भाण्डञ् च गन्धर्वावचरं ।

2.1702

। प्राप्तं योग्यत्वम् उपयोगाय मूलस्य ।

2.1703

। दुष्कृतस्याप्राप्तं ।

2.1704

। मुक्त्वा स्वीकाराना अनुगत <<तत्र>> द्रव्याविनाशचित्तस्य विहारतदुपचारगतं ।

2.1705

। न तद् उपेक्षेत ।

2.1706

। सप्ताष्टान् दिवसनेतदुपविचारे प्रक्र[29अ1] । ।ष्यन् पांसुना वैभङ्गुकैर् वा छादयेत ।

2.1707

। नासमुदितचिन्नाय स्वाम्य् अहम् इति ब्रुवते दद्यात्* ।

2.1708

। अनागमे स्योधं सांघिकै गञ्जोपनिक्षिपेत्* ।

2.1709

। आषष्ठमासपर्यन्ता धारयेत्* ।

2.1710

। ऊर्धम् अनागतौ यत् भूमौ बुद्धसांघिकयोर् लब्धिं* तत्रोपयुक्तिः ।

2.1711

। अयोग्यत्वे क्रयनं योग्यस्य तेन स्थावरस्य ।

2.1712

। तदा चेत् स्वाम्य् आगच्छेद् अनुज्ञानम् आया..य[29अ2]न् इछते दद्युः ।

2.1713

। वृद्धिञ् चेत् मृगयेद् एतद् एव न बहु मन्यसे यद् अस्माभिः परिपालितम् इति ब्रूयुः ।

2.1714

। घटितविद्धतायां मण्यादेर् योग्यत्वं ।

2.1715

। हर्षकटककेजूरहारार्धाहारत्वविनिवेशे च ।

2.1716

। वीणावेणुवल्लरिमहतिम् उत्घोषकानां सतन्त्रीकत्वे ।

2.1717

। वदत्तायां शङ्खभेरीपटहमुरवाणां ।

2.1718

। धनुषः सगुणत्वे ।

2.1719

। तत्वे शील्येकतो धारककुन्तडा[29अ3]भाणे र्धानां ।

2.1720

। शरनाराचार्धनाराचानां सफलत्वे(ः) ।

2.1721

। सधातुकत्वे प्रतिमायाः ।

2.1722

। निघोषम् अस्याः शास्तृसंज्ञाम् उपस्थाप्य ।

2.1723

। काचमणिपलालमालकाण्डवीनिकतलम् अडुकपिञ्जनकतुलिकाकाण्डानाम् अर्धत्वं ।

2.1724

। अयोग्यत्वं सुवर्णपिण्डस्य ।

2.1725

। गोपयित्वोत्रासे गृहीत्वा वानुपरोधे स्वस्य सांघिकम्* [29अ4]स्तौपिकञ् च हिरण्यसुवर्णम् अपक्रमणं ।

2.1726

। स्राद्धेन श्रामणेरेण वा ।

2.1727

। अभावे स्वयम्* ।

2.1728

। खननम् अत्र ।

2.1729

। अपगते दानम्* ।

2.1730

। उत्पाट्य तद्वत्* ।

2.1731

। निर्दोषम् अमानुषभवने पुण्यनिर्जातं चेद् एषां रत्नमयं भूमिसोपादानादि ।

2.1732

। भोजने च भाजनम् असम्भवे न्यस्य ।

2.1733

। शयनासनम्* च निषादे ।

2.1734

। गच्छेद् यानेन ।

2.1735

। धर्मार्थ[29अ5]वशतया ।

2.1736

। नाटोपवता ।

2.1737

। न जीर्णग्लानाभ्यामन्यः ।

2.1738

। निषीदेद् धर्मश्रवणार्थं रत्नमये सिं*हासने पराहत्यानित्यतामनसिकारेण ।

2.1739

। निवेशने चागारिकीयाणीति संप्रेक्ष्य तत्प्रज्ञप्तौ ।

2.1740

। सुवर्णखचितकांकणिकावृतेषु वस्त्रेषु ।

2.1741

। अत्र च मणिप्रत्युप्तेषु सुवर्णरूप्यखचितेषु । प्रवेशयेयुर् एतानि ।

2.1742

[29ब्1]नाकल्पिकत्वम् उपस्थापितशास्तृसंज्ञानाम् आगारिकश्रामणेराभावे बुद्धप्र<<ति>>कृतेर् धर्म्यार्थवशतया स्पृष्टौ ।

2.1743

। त द्रव्यस्य च ।

2.1744

। नाभरणप्रावृत्तिम् भजेत्* ।

2.1745

। धारयेत्* मुद्रां* ।

2.1746

। अप्रावरणिकीम्* ।

2.1747

। त्रपुताम्ररितीकं सजतुकाष्ठशैलमृद्दन्तशृङ्गेभ्यः ।

2.1748

। चिह्नं सांघिकायाम् मध्ये चक्रं पार्श्वयोर् मृगाव् अधस्ताद् विहारस्वा[29ब्2]मिनो नाम(ः) ।

2.1749

। पैङ्गलिकायाम् अस्थिसंकलाशिरकपालम् वा ।

2.1750

। न फणिकया शिर प्रसाधयेत्* ।

2.1751

। निदर्शनम् एषा ।

2.1752

। नादर्शेन मुखं पश्येत्* ।

2.1753

। उदकात्* ।

2.1754

। अनापत्तिर् उदकप्रत्यवेक्षणार्थतायां व्रणवलीपलितदर्शने पूर्वोत्तरनिमत्तोद्ग्रहणै <<।>>

2.1755

<<।>>न त्र्यार्षम् भजेत्* ।

2.1756

। न रोचनाम्रक्षणम्* ।

2.1757

। न गन्धैः ।

2.1758

। भजेत पादयोर् गन्धा[29ब्3]ङ्गददानं पुण्यार्थिनाम्* ।

2.1759

। न तस्य पुरतोपनयेत्* ।

2.1760

। नैभिःर् अक्तः संघे सन्निपदेत्* ।

2.1761

। न गृहीभ्यो धर्मं देशयेत ।

2.1762

। न कुलान्य् उपसंक्रामेत ।

2.1763

। स्नानम् अन्ते भाजेत ।

2.1764

। प्रतिगृह्नितैनाम ।

2.1765

। पुष्पमालाञ् च ।

2.1766

। चैत्यै विनियोगः ।

2.1767

। श्रावकस्यापि ।

2.1768

। अनभिमतो दातुः शिरोन्ते पादान्ते वा ।

2.1769

। अ[29ब्4]सम्मुखे द्वारस्य ।

2.1770

। भित्तौ ।

2.1771

। लम्बनं मालाद्याशूच्याम् अत्रावतूसितायां कण्टके वा ।

2.1772

। चक्षुष्यं सुगन्धीति कालानुकालं घ्राणम्* ।

2.1773

। न ब्रह्मसूत्रप्रावृत्तिं* भजेत्* ।

2.1774

। न सूत्रकस्य ।

2.1775

। मूलवाहौ चिकित्सार्थस्य भजेत वामे ।

2.1776

। न यत्र क्वचन छोरयेत ।

2.1777

। सशेषं चेत्* चीवरकर्णके (ष्)कुञ्चके वा बन्धनं ।

2.1778

। न चेत्* स्तम्भस्य[29ब्5]शुषिरे कुड्यस्य वा निक्षेपः ।

2.1779

। न नृ(इ)र्तगीतवादितम् आचरेत्* ।

2.1780

। न शिक्षयेत्* ।

2.1781

। नोपसंहरेत ।

2.1782

। न दर्शनायोपसंक्रामेत्* ।

2.1783

। न भिक्षुण्या नृर्तिं कारयेत्* ।

2.1784

। गुर्यात् शास्तृगुणसंकीर्तने त्रिदण्डकदाने च स्वरगुप्तिं* ।

2.1785

। शिक्षेतैनां प्रतिगुप्तिप्रदेशे ।

2.1786

। न संचग्घनसंक्रीडनसंकिलिकिलायनौद्धत्यद्रवकायताड्यानि कुर्यात्* [30अ1] ।

2.1787

। नौद्धत्याभिप्रायः कायवाचो विकुर्वीत ।

2.1788

। भागशो व्यवकरे संसर्गः ।

2.1789

। न भाजनसंचारकेनाभ्यवहृतिं* कुर्यात्* ।

2.1790

। नाअ वतंसकं ग्र[थ्न्]ईयात ।

2.1791

। नामुञ्चेत ।

2.1792

। न लालाटिकम् अनुप्रयच्छेत ।

2.1793

। न समावस्थायां वाचेत्*।

2.1794

। न जवनप्लवने कुर्यात्* ।

2.1795

। नोरुवाहुमत्स्यपरिवर्तकं परिवर्तेत्* ।

2.1796

। न जलशिक्यि[30अ2]कां विध्येत ।

2.1797

। न जलमण्डुकभेरिके वादयेत्* ।

2.1798

। न दकपिच्छिलिकां पिच्छिलेत्* ।

2.1799

। न हस्तिक्रुञ्चिताश्वहेषितर्षभगर्जितमयूरकोकिलरुतानि कुर्यात्* ।

2.1800

। न मुखशंखडुड्डुकभेरीवादनम्* ।

2.1801

। शिष्टाद् अध्यर्धतो ग्रीस्मस्य पूर्वतश् च वर्षाणां मासात्* ।

2.1802

। अचीवर<<स्य>> द्वितीय<<स्य>> लब्धो यद्विधस्य ।

2.1803

। अनुद्धूतस्य [30अ3]वातेन ।

2.1804

। चीवरकर्णकेरणम्* । । तत्पर्यन्तः ।

2.1805

। अनववृष्टस्य ।

2.1806

। अस्य बिन्दुद्वयनिपात काये ।

2.1807

। अन्यदा पञ्चदशाद् अस्नानदिवसाद् अर्वाक्[स्]नाने ।

2.1808

। अभिषेकेण वावगाहनेन वा ।

2.1809

। नाभिप्राप्तौ ।

2.1810

। पुरस्ताद् दुष्कृतम्* ।

2.1811

। सर्वत्र समयेष्व् अनधिष्ठाने ।

2.1812

। नार्थान्तरपरो जालानुभवः स्नानम्* ।

2.1813

। तस्माद् उत्त[30अ4]रणं संचेतितया मूर्छितसेकेष्व् अनापत्तिः ।

2.1814

। मन्येताष्मपरान्तकेष्व् अस्याभावं ।

2.1815

। न संभवे परस्योत्स्वासकल्पं संश्रयेत् स्नातप्रायश् चित्तिकं ॥

2.1816

। वधकचित्तेन तिरश्चः प्रहृतौ <<।>>

2.1817

<<।>> तदान्यदा वा तन्निदानं मृतौ दुष्कृत(कृ)त्वं सत्वाविग्रभस्य ।

2.1818

॥ न त्वम् उपसंपन्नः पराजयिकम् अस्यापन्न इत्याद्यर्थ भिक्ष्वर्थेन कौकृत्योपसंहृतौ [30अ5]भिक्षोः ।

2.1819

। अस्पर्शोत्पादनचित्तेन ।

2.1820

। हास्येनापि ।

2.1821

। अनुत्पत्ताव् अपि ।

2.1822

। कौकृत्यस्य ।

2.1823

। अन्येन दुष्कृतं ।

2.1824

॥ भिक्षोः ।

2.1825

। अङ्गुलिमुष्ट्यरत्निस्कन्धशीर्षपार्श्वपृष्ठकट्यूरुजंघाजानुपादाङ्गुष्ठादिभिः प्रतोदनतः स्पृष्टौ विकिरणचित्तेन <<।>>

2.1826

<<।>> तस्माद् व्रणमशपिल्पतिलकरोमावर्तादि दर्शनेनापत्तिः ।

2.1827

। एके वानेक[30ब्1]त्वे निपात्यस्य ।

2.1828

॥ जलविषयक्रियानुष्ठाने ।

2.1829

। अवतीर्णस्य निमज्जनोन्मज्जनतीरान्तरसंचारानुप्रतिस्रोतोव्यायामजलभेरिकामाअण्डुकवादनशिक्यिकावेधचक्रवाडवज्रककूपकावर्तकरणलेखा अर्षणाकानां मौलं ।

2.1830

। ऋटिप्यकादानस्य दुष्कृतं ।

2.1831

। गोलघटवर्धनी शरावे ।

2.1832

। क्षोलसूपयू[30ब्2]षमण्डे च सत्यम् अपि तप्ततायां ।

2.1833

। अजलहर्षणे च ।

2.1834

। तद्वत् तत्भूतकारणं ।

2.1835

। औद्धत्यरतप्रत्यनुभवछन्देन ।

2.1836

। तस्मात् प्रह्लादनछन्देनावतारा<<ना>>दाव् अनापत्तिः ।

2.1837

। तरणशिक्षायां तिर्यगायतम् वा व्यायामे ।

2.1838

। जिह्लादयिषया तप्तेषु लेखकर्षणे ।

2.1839

॥ मातृग्रामेण सार्धम् एकस्मिन् आगारे मिद्धावक्रान्तौ [30ब्3]निशयां ।

2.1840

। अन्तेः ।

2.1841

। प्राग् दुष्कृतं ।

2.1842

। कुक्कुटिप्रमाणम् एतत् कृत्वे न्तः ।

2.1843

। हासप्रेक्षयापि भिषणछन्देन भयनिमित्तोपसंहारपूर्वकं विज्ञपने ।

2.1844

। भयंकरस्यामुको यम् इति भिक्षोः परेणाप्य् अनुत्पत्ताव् अपि भयस्य ।

2.1845

। मौलम् अमन आपस्य ।

2.1846

। तद् यथा प्रेतपिशाचकुम्भाण्डकटपूतनत्वा[30ब्4]ख्यापिनाम्* कीटनं कीटकीटानाम् अङ्गारिका<<वर्णा>>नां दग्धस्थूणानिभानां रूपाणां ।

2.1847

। सिं*हव्याघ्रद्वीपिकोकपटररुभ्रष्टोरोकाशब्दानां ।

2.1848

। उच्चारप्रस्रावस्थवतकटगन्धानां ।

2.1849

। किटककिं*लं*जकुतपस्पर्शानां।

2.1850

। मन आपस्य दुष्कृतं ।

2.1851

। तद् यथा देवनागगन्धर्वयक्षकिन्नरमहोरगत्वख्यापिनां ।

2.1852

। धनिश्रेष्ठि[30ब्5]सार्थवाहादिरूपानां ।

2.1853

। वीनादिशब्दानां ।

2.1854

। अगुरुचन्दनकुंकुमतमालपत्रगन्धानां ।

2.1855

। पट्टपटप्रावरांशुकदुकूलकोट्टम्वकस्पर्शानाम्* ।

2.1856

। उत्सृष्टसंवेगा<<जना>>र्थतां ।

2.1857

। तस्मात् संवेजनार्थं नरकतिर्यक्प्रेतमनुष्यकथादाव् अनपत्तिः <<।>>
<<।>> भीषणम्* ॥

2.1858

। इदं प्रव्रजसंतकपात्रचीवरपोणिकाकंसिका[31अ1] । कायबन्धनादिश्रामणकजीवितपरिस्कारनिधाने ।

2.1859

। निधापने च ।

2.1860

। उत्सृष्टहितकामतया ।

2.1861

॥ दत्तस्य भिक्षोर् निर्देयं चीवरस्य विना तदनुज्ञानं परिभोगे ।

2.1862

। न चेद् अस्य तन्निदानं प्रीतेस् सम्भावना ।

2.1863

॥ ध्वन्सनछन्देन बिक्षोर् विनिधायसंज्ञा संघावशेषापतनस्य विज्ञप्तौ ।

2.1864

। लेशना[31अ2]पि ।

2.1865

। कामतो ध्वन्यूढौ ।

2.1866

। प्रतिक्रोषं ।

2.1867

। प्रतितदर्धं दुष्कृतस्य ।

2.1868

। उत्सृज्यातियात्रयन्तीं* ।

2.1869

। नष्टञ् चेनम् अध्वनो ध्वन्य् अवतारयन्तीं* ।

2.1870

। अशक्तस्य वा निर्वोढुम्* ।

2.1871

॥ ग्रामघातकैश् चोरैः शुल्कभञ्जकैर् वा वणिग्भिः ।

2.1872

। कापटिकैः स्तेयप्रव्रजितैः दुष्कृतं ।

2.1873

। ऊनविं*शतिवर्षतायाम् उपसंपाद्यस्य ।

2.1874

। उपाध्यायत्वेनोपसंपादने ।

2.1875

। नासाव् एनं पूर्णतां न पृच्छेत्* ।

2.1876

। नान्ये ।

2.1877

। नानिर्ज्ञायैनाम् उपसंपादयेयुः ।

2.1878

। सर्वथा परिपूर्वणविं*शतेर् उपसंपादो रूढिः ।

2.1879

। इतरस्य परिपूर्णसंज्ञतायां ।

2.1880

। अमत्यस्मितिविमतिषु च ।

2.1881

। ज्ञाने च [31अ4]ध्वन्सः ।

2.1882

। न चेद् अदः प्राप्तपूरेः ।

2.1883

। अपि गर्भाधिकमासकै सा(व)र्धं* ।

2.1884

॥ खननखाननयोः ।

2.1885

। मृत्भुवः ।

2.1886

। मुक्त्वा चतुरङ्गुलमात्रकीलकनिखननं नवकर्मिकस्य न[क्ष]त्रप्रयोगेनासन्निहितकल्पकारस्य ।

2.1887

। जातिक? चेत् मौलं ।

2.1888

। न चेत्* दुष्कृतं ।

2.1889

। त्रीन् मासां पर्युषितासंहतिः पूर्वा ।

2.1890

। [31अ5]वृष्टिकान्तारं चेत्* ।

2.1891

। षड् अन्यदा ।

2.1892

। नाभूत्वं? कन्थायां मन्येत्* ।

2.1893

। प्रभूत्येन समुदायेषु <<ल>>क्षणां<<नां>> प्रभावकत्वं ।

2.1894

। तस्मात् कार्त्स्न्यम् एव स न्यूनान्यत्र वृतायां ।

2.1895

। नष्टतादग्धत्वे ।

2.1896

। अर्धत्वं नष्टस्य ।

2.1897

। चटितकानां च पृथिवीपर्पटककूलकन्थातल्लेपानां ।

2.1898

। गडकवालुकाद्यधिक्ये व ।

2.1899

। क्रियाणाञ् च ।

2.1900

। की[31ब्1]लोत्पाटनलेखकर्षणमृत्कणाकर्षिगोमयोत्पाटनपंकाकम्पनतल्लग्नगोलाद्युत्पाटनलोणिकाशातनात्मिकानां ।

2.1901

। विगोपनमतेर् अत्रैतत्* ।

2.1902

। तस्मात् गणनन्यसनाद्यभिप्रायस्यानापत्तिः ।

2.1903

॥ नातियाचेत्* ।

2.1904

। युक्तम् अनारोचितकालस्य तदसंभावनायां प्रतीष्टभोजनगृहोपसंक्रमणं* ।

2.1905

। उद्योज[31ब्2]नञ् च परिवेषणे तिपत्तौ कालस्य ।

2.1906

। न तत्वं व्यजनस्याद्रियेत्* ।

2.1907

। स्वीकुर्यात् प्रत्येकप्रवारणां ।

2.1908

। सप्रवारणे पि संघे ।

2.1909

। सर्वकालां च ।

2.1910

। विना मर्यादाव्यवस्थापनेन प्रवारितवतो न्यथा पौनःपुण्येनात्यर्थतया चोर्धम् अकृतप्रवारणाच<<त्*>> चतुर्थमासपरिसमाप्तेर् ऊर्धं प्रज्ञप्ताभ्यवहृतौ ।

2.1911

। विज्ञप्तौ दुष्कृतं ।

2.1912

। [31ब्3]अनापत्ते ग्लान्ये ।

2.1913

। ज्ञातो? च ।

2.1914

। पृथक्त्वं पूर्वस्य विभ्रमात्* ।

2.1915

। अप्रवारितदोषकारित्वं तस्य ।

2.1916

। पुरस्ताद् अपि येन न प्रवारितः ।

2.1917

। अभिज्ञातायां ।

2.1918

। आख्यातुः ।

2.1919

। शिक्षायां ।

2.1920

। अस्यान्ते शिक्षितस्य मित्याख्या दयमानायाम् उद्देशेन वा भिक्षुणा न शि[31ब्4]क्षिष्यामीत्य् एतत् कारणभावेन निवेदयितुरज्ञताम् उत्भावयतो वचनस्योदाहृतौ ।

2.1921

। सौत्र्यां दुष्कृतस्य ।

2.1922

। भिक्षोर् अधिकरणसंप्रधारणस्य भिक्षुभिर् उपश्रुत्यर्थम् उत्सृज्योपशमनछन्देनावधाने ।

2.1923

। प्रतिसंवेदनायां शब्दस्य दुष्कृतं ।

2.1924

। अर्थस्य मौलं ।

2.1925

। क्षोपकरणप्राह्व्येण चेत्* ।

2.1926

। अर्थान्तर[31ब्5]वशायाम् उपश्लिष्टौ चेतनाद् ऊर्धम् पदच्छटोत्काशनशब्दादिभिःर् अचेतयतो न चेत् मुग्धः शमार्थी वा नियतमातृतायां पातः ।

2.1927

। न कलिम् उपोद्[व्]अलयेत्* ।

2.1928

। नोपशृणुयात नैनं कुर्वन्तम् अनुपरिवात्य तिष्ठेत्* ।

2.1929

। नोपशान्त्यै न प्रयतेत्* ।

2.1930

॥ ज्ञप्त्यादिकर्म<<णि>> संनिपतितस्यानवलोक्य भिक्षुं प्रक्रान्तौ

2.1931

। पुरस्तात्* दुष्कृतं ।

2.1932

। विनार्थेन युक्तेनापक्रान्तौ ।

2.1933

। कृतत्वे ज्ञप्तेः ।

2.1934

। अधर्म्य <<र्थे>> च कर्मणः ।

2.1935

। श्रवणदेशानतिक्रमेच्छायाम् अनापत्तिः ।

2.1936

। स्थानगमनशयनासनविहारग्रहणभाषतद्विपर्ययादेर् उपनीतस्यार्थास्यानादराद् विना धर्म्यसंज्ञप्तिदाने व्यति[32अ2]क्रान्तौ ।

2.1937

। भिक्षुसंघेन मौलं ।

2.1938

। आचार्योपाध्यायैः दुष्कृतं ।

2.1939

। अधर्म्यत्वे ज्ञप्तेः तत्वं कथावपातनस्य ।

2.1940

। सुखं संघस्य तद्व्यवहारकः ।

2.1941

। संघवद् बुद्धः ।

2.1942

। न राजार्हन्*संघस्थविराणाम् आज्ञां कोपयेत्* ।

2.1943

॥ पाने मदनीयस्य <<।>>

2.1944

<<।>> च्युतिर् अस्य तत्त्वात् क्वाथे <<।>>

2.1945

<<।>> विद्यते खोलवक्कसभक्षणे [32अ3]तत्प्रवेशः ।

2.1946

। अर्धत्वं किण्वपिण्डिकायां ।

2.1947

। मदनीयानाम् मूलगण्डपत्र(प)पुष्पफलानां मद्यगन्धरसानां वा मदयितॄणां पेयानां ।

2.1948

। निर्दोषो वर्णमात्रेण मद्यस्य सदृशम्* ।

2.1949

। प्रयोगवत् गण्डूषधारणगात्रम्रक्षणे ।

2.1950

। ग्लान्येनापत्तिः ।

2.1951

। अकालतायाम ।

2.1952

[32अ4] अनवलोकितसत्भिक्षोः ।

2.1953

। ग्रामप्रवेशे ।

2.1954

। न चेद् अत्यात्ययिककार्यसन्निपातः ।

2.1955

। अन्यत्र सञ्चारे त्र दुष्कृतं ।

2.1956

। अभावे त्र भिक्षोस् तद्वत् भिक्षुणी ।

2.1957

। अस्याः श्रामणेरः ।

2.1958

। अस्य शिक्षमाणा ।

2.1959

। तस्याः श्रामणेरी ।

2.1960

। असत्वम् अबोद्धुः ।

2.1961

। सीमान्तरस्थोत्क्षिप्तान्यपक्षाणाञ् च ।

2.1962

। रिद्ध्या त्व् अनापत्तिः ।

2.1963

॥ चतुर्थादाव् अकाले कुल उपसंक्रमणे ।

2.1964

। तन्मुखिकया च संघोपनिमन्त्रणेनास्मद् आनागमनवशात् परिवेषो ऽतिपात्य इत्य् अपरिप्राप्य दातरि तृतीयप्रभृतौ ।

2.1965

। अप्रभातत्वे ।

2.1966

। अन्त्यारुणस्यैतद् अत्रानुत्गतत्वं ।

2.1967

। अन्तःपुरनिवासस्थानसम्बद्धतायाम्* ।
1968 । [32ब्1]अतदा प्रस्तुताव् अपि ।

2.1969

। प्रतिरात्रि ।

2.1970

। तत्कीलोपविचारान्तो तदादिः <<।>>

2.1971

<<।>> एवं राजकुलनगरयोः ।

2.1972

। राजकुलस्थानेन च ।

2.1973

। नागरेण दुष्कृतं ।

2.1974

। तदर्थता चेत्* ।

2.1975

। द्वितीयञ् चेद् अत्रावद्यं ।

2.1976

। न चेद् राजदेविकुमारामत्यान्तरायविनयनवशेन ।

2.1977

। ना(न)नुश्राव्य राजकुलं प्रविशेत्* ।

2.1978

। [32ब्2]वर्तमाने प्रातिमोक्षोद्देशे नुभूतवतद्वयस्यासंविग्नेन मनसा संप्रति मया ज्ञातम् अयम् अप्य् अत्र धर्मो विद्यत इत्य् अस्योक्तौ ।

2.1979

। अन्यव्यञ्जनेनोद्देशे साधारणिं* प्रति दुष्कृतं ।

2.1980

। सौत्र्याञ् च <<नोक्ता>> भाषमाणायां ।

2.1981

। अनापत्तिर् असाधारणीं* ।

2.1982

। असत्कृत्य प्रातिमोक्षोद्देशश्रुतिम् उपनयन्तं संवेजयेयुः ।

2.1983

। [32ब्3]दन्तास्थिविषाणमयसूचीगृहककरणकारणे ।

2.1984

। कृतलाभपरिभोगयोर् अनापत्तिः ।

2.1985

। नापृष्ट्वाभिन्नतां देशनां प्रतिगृह्णीयात्* ।

2.1986

। अदेशितत्वम् अभित्वा चेत्* ।

2.1987

। उत्तरेष्व् अप्य् एतत् पञ्चप्रछेदोपसंहितं ।

2.1988

। उद्दालेन द्वितीये ।

2.1989

॥ न निकटपादिकायां खट्वायां शयीत्* ।

2.1990

। न [32ब्4]शय्यास्थानगतमञ्चानुसहिते प्रदेशे पादौ प्रक्षालयेत्* <<।>>

2.1991

<<।>> सन्निहितपदत्राणः ।

2.1992

। अन्यश् च मुक्त्वा शिरः पादान्तौ ।

2.1993

। नोच्चशयनमहाशयने निषीदेन् निपद्येत्* ।

2.1994

। कुर्वीतासम्भवे न्यस्य पूर्वम् अन्तर्गृहे ।

2.1995

। कल्पेत्* सप्रतिपादके शय्यां <<।>>

2.1996

। न पीठातिपीठे निषीदेत्* ।

2.1997

। प्रमाणाद् ऊर्धं करणकारणे ।

2.1998

। परेषु च द्विती[32ब्5]यात् त्रिषु ।

2.1999

। माञ्चपीठयोः सांघिकयोः ।

2.2000

। उत्तरे च ।

2.2001

। पादकानां ।

2.2002

। अहस्त एष माटनिकाप्रदेशवर्ज्यानां प्रमाणं ।

2.2003

। सौगततृतीये ।

2.2004

। उत्तरेषु च ।

2.2005

॥ तूलेनोपनाहे ।

2.2005

। स्वयन्नियुक्तेन वा ।

2.2006

। पञ्च तूलानि शाल्मलमार्कं काशमयं वौकमैर[33अ1]कञ् च ।

2.2007

। निषदनस्य प्रमाणम् अस्य दैर्घ्यस्य हस्तत्रयं।

2.2008

। आध्यर्धाच् चोर्धम् अकारयतः ।

2.2009

। विस्तारस्य हस्तद्वयं षड्वाङ्गुलयः ।

2.2010

। दुष्कृतम् अस्य न्यूनस्याधिष्ठानम्* ।

2.2011

। उत्तरस्य च द्वयस्य ।

2.2012

। कण्डूप्रतिछादनस्य ।

2.2013

। षडकं हस्तानां त्रयः ।

2.2014

। [33अ2] वर्षाषाट्याः ।

2.2015

। नवकं त्रयम् अष्टाडशाङ्गुलयः ।

2.2016

। पञ्चत्रिकं शास्तुः स्वहस्तेन चीवरं ।

2.2017

। तत्प्रमाणस्यातत् तनोर्ध्वम् वा चीवरस्य करणकारणे ।

2.2018

। नैतद् वारयेत ।

2.2019

। अज्ञातिकतायां ।

2.2020

। भिक्षुण्याः ।

2.2021

। स्वप्रतिपादि[33अ3]तस्यापरिवेषेण स्वयं ग्रामस्थेन प्रतिगृह्य खादनीयभोजनीयस्याभ्यवहारे ।

2.2022

। न वर्षकस्य ग्रामत्वं ।

2.2023

। न भिक्ष्वावासस्य ।

2.2024

। अर्धत्वम् आकाशस्य ।

2.2025

। नासन्निधौ निक्षेप्तुर् आदानं निक्षिप्तस्य तस्मा(म्मा)त्* ।

2.2026

। खाद्यकम् इह देहि पानकं भो[33अ4]जनं भूयो चेत्यादि तस्मिन्* भिक्ष्वन्तरे वा व्यपदेशप्रवृत्तभिक्षुण्यवस्थानकर्तृ ।

2.2027

। न चेत् तन्मुखिकया तत्ज्ञातिना वा निमन्त्रणकम् ।

2.2028

। उत्सृज्य गन्त्रिव्यपदेशम् अदत्तदापनञ् च ।

2.2029

। आगमयस्व तावद् भगिनि यावद् भिक्षवो भुञ्जत इत्य् अनाज्ञप्तायां तस्यां भिक्षुणा येन केन चिद् असहभुजा पितृप्रभृतिभिक्षुनिमन्त्रणक[33अ5]भुक्तौ ।

2.2030

। कुले ।

2.2031

। उपचारप्राप्त चेत्* सावचनस्य मौल्याः ।

2.2032

। न चेत्* दुष्कृतस्य ।

2.2033

। त्यतात्राज्ञप्ततायां व्यवस्थापनं ।

2.2034

। तस्मात् प्रश्नायौत्सुक्यम् आपद्येत् ।

2.2035

। वृद्धाप्रवृत्ताव् अत्र नवकः प्रवर्तेत ।

2.2036

। श्राद्धस्य विघातश् चेद्द् अस्य दाने कुल[33ब्1]शिक्षासम्वृतिं दद्युः ।

2.2037

। प्रज्ञप्त्या प्रतिप्रश्रम्भणं च ।

2.2038

। दत्तैतदश् चित्तं बुद्ध्वा निवेशनगमनासनपरिभोगधर्मदेशनानि कुर्यात्* ।

2.2039

। न रिक्तपात्रः प्रविशेत्* ।

2.2040

। दद्याद् अस्य याचमानेभ्यो बालेभ्यः पिण्डपात्रात् पूपिकाम् असकलां ।

2.2041

। अर्थिनि प्रतिप्रश्रम्भणम्* ।

2.2042

। दत्ताशिक्षासम्वृतेः कुलात् प्राक्तद्दानाद् अनिमन्त्रितश् च प्रतिगृह्य खादनी[33ब्2]यभोजनीययोर् उत्सृज्यककटिकामूलकहरितकम् अविघात्य् अभ्यवहृतौ ।

2.2043

। सम्मन्येरन् वनप्रतिसम्वेदकां भिक्षुं* ।

2.2044

। अर्धयोजनम् असौ समन्ततः प्रत्यवेक्षेत् ।

2.2045

। सभयतायां धूमं कुर्यात्* ।

2.2046

। पताक उत्स्रयेत ।

2.2047

। पत्रवैभङ्गुकानि मार्गे स्थापयेत ।

2.2048

। दद्युर् अस्मै [33ब्3] सत्यार्थिकत्वे पुरोभक्तिकां ।

2.2049

। सहायकञ् च । वृत ।

2.2050

। अप्रतिसम्विदिततायां वनस्य ।

2.2051

। अरण्ये बहिरारामस्य प्रतिगृह्य खादनीयं भोजनीयम् चाभ्यवहरेत्* ।

2.2052

। अर्धकृत्त्वं दक्षासम्वादे ।

2.2053

। अन्यत्र <<च>> भयस्थानाद् वर्तमानतायां ।

2.2054

। [33ब्4] तथा निवसनं निवसीत यथा परिमण्डलं संस्थितं स्यात्* ।

2.2055

। न चात्युत्कृष्टन् नात्यपकृष्टं ।

2.2056

। नांशेन शुण्डावलम्बितं ।

2.2057

। नोद्गतं ।

2.2058

। न फणवत् प्रत्यागतं ।

2.2059

। न सम्वर्तिकया स्थितं ।

2.2060

। तथा चीवरं प्रावृण्वीत यथा स्याद्यं त्रयं स्यात्* ।

2.2061

। सुसंवृतो न्तर्गृहं गच्छेत ।

2.2062

। सुप्रतिछन्नो ल्पशब्दो नुत्क्षिप्तचक्षुः युगमात्रदर्शीं* ।

2.2063

। नोत्गुण्ठिक[33ब्5]याकृतिकया नोत्कृष्टिकया ।

2.2064

। न वितस्तिकया ।

2.2065

। न पर्यस्तिकया ।

2.2066

। नोत्टङ्किकया ।

2.2067

। नोज्जङ्घिकया ।

2.2068

। नोल्लङ्घिकया ।

2.2069

। नोत्कुटुकिकया ।

2.2070

। न स्तम्भाकृता ।

2.2071

। न कायप्रचालकं ।

2.2072

। न बाहुप्रचालकं ।

2.2073

। न शीर्शप्रचालकं ।

2.2074

। नांसे ढौकिकया ।

2.2075

। न हस्तसंखग्निकया ।

2.2076

। नात्राननुज्ञातासने निषीदेत ।

2.2077

। [34अ1] नाप्रत्यवेक्ष्य ।

2.2078

। न सर्वकायं समवधाय । << नपादौ पादाम् आधाय ॥>>

2.2079

। न सक्थिनि सक्थि ।

2.2080

। न गुल्फे गुल्फं ।

2.2081

। न संक्षिप्य पादौ ।

2.2082

। न विक्षिप्य ।

2.2083

। न विडङ्गिकया ।

2.2084

। न करे कपोलं दत्त्वा ।

2.2085

। न प्रतिपुटकम् आसनम् उत्सर्पयेत् ।

2.2086

। सर्व सत्कृत्य पिण्डपादं प्रतिगृह्णीयात ।

2.2087

। न समतित्तिकं ।

2.2088

। समसूपिकं ।

2.2089

। सावदानम्* ।

2.2090

। नानागते खादनीये भोजनीये पा[34अ2]त्रम् उपनामयेत्* ।

2.2091

। नोपर्यस्य धारयेत्* ।

2.2092

। सत्कृत्य पिण्डपातं प्रतिभुञ्जीत्* ।

2.2093

। नातिखुद्दकैर् आलोपैः ।

2.2094

। नातिमहद्भिः ।

2.2095

। नानागत आलोपे मुखद्वारं वृण्वीत्* ।

2.2096

। न भूयस्कामतयौदनेन सूपिकं सूपिकेन चौदनं प्रतिछादयेत ।

2.2097

। नचुच्चुकारं ।

2.2098

। न थुत्थुकारं ।

2.2099

। न सुस्सुकारं ।

2.2100

। न सालोपेन मुखेन वाचं [34अ3] निश्चारयेत्* ।

2.2101

। न सित्थपृथक्कारं ।

2.2102

। नावर्णकारं ।

2.2103

। नगल्लापहारं ।

2.2104

। न कवडछेदं ।

2.2105

। न जिह्वास्फोटनिश्चारं ।

2.2106

। न स्तूपाकृत्यवमर्दम्* ।

2.2107

। न हस्तपात्रावलेहसन्*धूनसंतोलम्* ।

2.2108

। पात्रसंज्ञी ।

2.2109

। नावध्यानप्रेक्ष्यन्तरिकस्य भिक्षोः पात्रम् अवलोकयेत्* ।

2.2110

। न सामिषेण पाणिनोदकस्थालकं प्रतिगृह्णीयात्* ।

2.2111

। [34अ4] न सामिषेणोदकेनान्तरिकं भिक्षुं सिञ्चेत्* ।

2.2112

। नैतद् अन्तर्गृहे छोरयेद् अनवलोक्य गृहपतिं ।

2.2113

। न पात्रेण विघसं छोरयेत्* ।

2.2114

। त्रिः प्रक्षाल्य पात्रमार्षभिर् गाथाभिर् अभिमन्त्रपात्रोदकं दद्यात्* ।

2.2115

। नानास्तीर्णे पृथिवीप्रदेशे पात्रं स्थापयेत ।

2.2116

। नोत्थितो निर्मादयेत ।

2.2117

। नास्यैतद् उभयम् अतटो कुर्यात्* ।

2.2118

। न प्रपातेन प्राग्भारेण न चतुस्पथे ।

2.2119

। [34अ5] नानुश्रोतोनेन नद्याहार्यहारिण्याः पानीयं गृह्णीयात्* ।

2.2120

। प्राग् उच्चारप्रस्रावाद् अग्लानाय ।

2.2121

। तत्राग्लानः ।

2.2122

। नोत्थितो निषण्णाय धर्मं देशयेत्* ।

2.2123

। न निषण्णो निपन्नाय ।

2.2124

। न नीचतरासने निषण्ण उच्चतरके निषण्णाय ।

2.2125

। हीनप्रणीततो प्य् एते ।

2.2126

। न पृष्टतो गच्छन्* पुरतो गच्छने ।

2.2127

। नोत्पथेन पथं ।

2.2128

। नोद्गुण्ठिकादिकृताय ।

2.2129

। [34ब्1] न हस्त्यश्वयानसिबिकामञ्जपादुकारूढाय ।

2.2130

। न खोलामौल्युष्णीषवेष्टितमालाशिरसे ।

2.2131

। न छत्रदण्डशस्त्रखत्गायुधपाणये ।

2.2132

। न सन्नद्धाय ।

2.2133

। नोत्थित <<उच्चार>>प्रस्रावं कुर्यात्* ।

2.2134

। न हरिते पृथिवीप्रदेशे ।

2.2135

। न छोरयेत ।

2.2136

। खेटसिं*घानकवान्तं रिक्तञ् च ।

2.2137

। नोदके ।

2.2138

। न पुरुषदघ्नाद् ऊर्धं वृक्षस्याधिरोहेद् अन्यत्रापदः । << शैक्शासमाप्त । समाप्तश् च विभङ्गः >> अथ भिक्षुणीविभङ्गः । पाराजयिकम् ।

2.2139

। प्रागापत्तियोगे वच[34ब्2]नात् भिइक्षुण्याम्* ।

2.2140

। चतुष्टयं स्वीकारे ।

2.2141

। चक्षुर्जान्वन्तरालेन ।

2.2142

। स्पर्शस्य ।

2.2143

। पुंसः ।

2.2144

। मेथुनरागेन ।

2.2145

। अङ्गान्तरेण ।

2.2146

। स्थूलम्* ।

2.2147

। ह्रासो न्येन चेतसा ।

2.2148

। पंसश् चेत् तदानीम्* तत्र विज्ञायमानन् तयैतत्(अ) ।

2.2149

। न चित्ततो पि ।

2.2150

। अनापत्तिर् अस्त्वीकृतौ ।

2.2151

। अदुष्टं पुत्रस्पर्शनं ।

2.2152

। न बालम् अप्य् अन्यन्न स्पृशेत्* ।

2.2153

। प्रतिबलत्वे सेवायां पुंस कामोपसंहि[34ब्3]ते

2.2154

तद्गतार्थपरिज्ञाने वाचि परिपूर्णकारित्वं ।

2.2155

। पञ्जरोपनिक्षेपे ।

2.2156

। रक्तया ।

2.2157

। प्रत्युपस्थितं सेवायां रक्तन् तस्यां पुमांसं तत्प्राप्यतायां ।

2.2158

। औद्धत्यस्य रक्तेन सार्द्धं रक्तया करणे स्थूलं ।

2.2159

। द्रव्यस्य कादर्यस्य ।

2.2160

। उद्देशस्य ।

2.2161

। अत्र प्रतीष्टौ च ।

2.2162

। संकेतस्य ।

2.2163

। निमित्तस्य ।

2.2164

। आगमनगमनप्रवृत्तस्य चास्य ।

2.2165

। स्वी[34ब्4]कारे ।

2.2166

। पाराजयिकस्य भिक्षुण्याः प्रतिछादने ।

2.2167

। निश्चितस्यावसारणयाच्ञायाम् उत्क्षिप्तस्य ।

2.2168

। भिक्षोः कृतावन्दनार्हसम्वृतज्ञात्वा तो निवारकत्वस्याप्रतिनिःसङ्गे ।

2.2169

। पराक्रन्तत्वस्येव भेदेन ।

2.2170

। सांचारित्रं ।

2.2171

। आगा[34ब्5]रिकत्वे भिक्षुण्याः प्रलोभने स्थूलं ।

2.2172

। वेशस्य चान्यया वाहने ।

2.2173

। नातः पण्येन दास्याः प्रेषणस्य बहिर् भावः ।

2.2174

। अमूलकलेशिके ।

2.2175

। पुंस्त्वे स्तित्वम् अत्र पुंस्त्वम्* ।

2.2176

। किञ्चित्कस्वीकारे ।

2.2177

। रक्तया ।

2.2178

। पुरुषात्* ।

2.2179

। रक्ताद् अरक्ताच् च ।

2.2180

। अरक्तया स्थूलं ।

2.2181

। दुष्कृतम् अरक्तात् किञ्चित्कग्रहः ।

2.2182

। न रक्ताद् अरक्तायाः [35अ1] किञ्चित्कस्वीकारे दोष इति भिक्षुणीबोधने ।

2.2183

। चतुर्षु उत्तरेषु विना भिक्षुण्याः ।

2.2184

। वितृतीयत्वं शिक्षमाणत्वं तृतीयो ऽङ्गः श्रामणेरी ।

2.2185

। निर्दोषो कामविप्रयोगः ।

2.2186

। अन्तरायापातवशतया च ।

2.2187

। प्रयोगत्वं प्राच्यन्ततः काले गतस्य ।

2.2188

। अस्तङ्गमान्तो दिवसान्तः ।

2.2189

। रात्रो वहिर्वर्षकात् भावे ।

2.2190

। [35अ2] दिवा ।

2.2191

। चीवरेद् एकाकिनी ज्ञातिगृहभुक्तिनिमित्तं दुर्भिक्षे लब्धायां ज्ञातिभिर्
सार्द्धं सम्बन्धोपविचारसम्वृतौ ।

2.2192

। दद्युर् एनाम् ।

2.2193

। अध्व्रप्रतिपत्तौ ।

2.2194

। अध्वावतारः ।

2.2195

। नदीपारसन्तरणे ।

2.2196

। पारप्राप्तौ बाहुभ्याम्* ।

2.2197

। स्थूलम् अर्वाक्(अ) ।

2.2198

। दुष्कृतं कुल्यापारस्य ।

2.2199

। प्रव्राजने ।

2.2200

। गणसंमतस्वामी परित्यक्तराजा स्वानुज्ञा[35अ3]तायाः ।

2.2201

। मारण प्रति ।

2.2202

। उपाध्यायिकत्वेन ।

2.2203

। जानन्त्येतत्* ।

2.2204

। मृतधनोद्ग्रहणे ।

2.2205

। अनापत्ति सांघिकस्य ।

2.2206

। अल्पायासेन चेत्* ।

2.2207

। बहिःसीम्न्य् अवसारणे ।

2.2208

। रत्नप्रत्याख्यानम् इदं तुल्यत्वम् अन्यश्रमणानां तत्र ब्रह्मचर्यचरिष्यत्व(ं)म् इत्य् अस्यावचनप्रवृत्तेर् अविरतौ ।

2.2209

। संघभेदप्रवृत्तेर् इव ।

2.2210

। उत्त[35अ4]राद्यश् च ।

2.2211

। छन्दादिगामितानुयुक्ते(र्) भिक्षुणीनां ।

2.2212

। कलहभण्डनविग्रहविवादात् भिक्षुणीभिः सार्द्धम् विचारणे ।

2.2213

। सं*सृष्टविहृते भिक्षुण्याः ।

2.2214

। औद्धत्यद्रवकातर्यहेतुभूतयोः ।

2.2215

। तत्सन्सर्गसमादापने ।

2.2216

। संघभेदादेश् चतुष्टया भिक्षु(णी)गतात्* ।

2.2217

। जातरूपरजतरूपिकक्रयविक्रयन् नहनतन्त्रवायद्वयाछेदपरिणमनसन्निधिगतञ् च ।

2.2218

। भिक्षोर् धावनादाव् अतः प्रतिगृहे ।

2.2219

। भिक्षुण्यै दत्त्वा ।

2.2220

। न देवछन्दन् धारयेत ।

2.2221

। अतिरेकपात्रस्यैकाहा ऊर्ध्वं धारणे ।

2.2222

। प्रत्यर्द्धमासम् आर्ये हन्य् अनधिष्ठितो वाधिष्ठानिकस्य ।

2.2223

। [35अ6] फल्गुनान्त्यदिवसादर्वाक् कठिनोद्धारे ।

2.2224

। अनापत्तिश् चौरम् उषितकभिक्षुण्यर्थतायां ।

2.2225

। अनुद्धारे ।

2.2226

। तत्* ।

2.2227

। हिरण्यसुवर्णविज्ञपने ।

2.2228

। अन्यार्थं लब्धस्य चीवरस्यामिषीकृत्याभ्यवहरणार्थम् अधिष्ठाने ।

2.2229

। चीवरशयनासनवर्षकार्थञ् च ।

2.2230

। यस्य कस्य [35ब्1] चित्* ।

2.2231

। भिक्षुणी महाजनार्थं समादाप्य स्वत्र परिणमनम्* ।

2.2232

। संघार्थञ् च ।

2.2233

। वचनस्वीकारार्थं बद्धस्यार्थस्य मोचने ।

2.2234

। पलशतिकादिविं*शतिकार्षापणादिमूल्यस्य वाससः स्वाकारे(ः) ।

2.2235

। [35ब्2] पञ्चपलिकपर्यन्तस्य च ।

2.2236

। असम्मतादिदशकनिष्कर्षणपरंपरप्रणीतनिषद्यास्था<<नात्*>> न
प्रत्युद्धृतोनशाटीगतवर्जम्* ॥ 2,9,1 ॥

2.2237

। कल्पिकं भिक्षोर् आमिषमोपसंहरणं प्रव्रजितायै ।

2.2238

। पत्नीचरित्वे पि ।

2.2239

। ग्रहणं च तस्याः ।

2.2240

। न सशय्यायाममहतः पुत्रस्य [35ब्3] वर्ज्यत्वम्* ।

2.2241

। लब्धसम्वृतेः ।

2.2242

। दानम् अस्याः ।

2.2243

। प्रव्राजनोपसंपादनयोः ।

2.2244

। अपरिपूर्णद्वादशवर्षतायाम्* ।

2.2245

। आत्मोपसम्पन्नतायाः ।

2.2246

। ऊनोपस्थानं

2.2247

। दद्युः पर्षदनलपर्षदुपस्थापनसंवृती ।

2.2248

। प्रतिबलायै तदुपस्थापने ।

2.2249

। पूर्णतायां द्वादशत्वस्योपसंपद् वर्षाणां ।

2.2250

। नान्या याचेत्* ।

2.2251

। [35ब्4] अलब्धप्राक्* संवृतेः पर्षदुपस्थापने ।

2.2252

। अमितपर्षदः परस्यां ।

2.2253

। अनलोपस्थापनम्* ।

2.2254

। उपसंपादने द्वादशवर्षत्वाद् अर्वाग् परिणीतायाः ।

2.2255

। विं*शतेर् अन्यस्याः ।

2.2256

। उपाध्यायिकत्वेनादत्तशिक्षयोः ।

2.2257

। पर्वलं[35ब्5]घने ।

2.2258

। अचरितत्वे स्याः ।

2.2259

। चरिततायां नो ।

2.2260

। स चेन् मे चीवरं ददासि ततः स्वोपसंपादयामीत्य् उपसंपत्प्रेक्षया वचने ।

2.2261

। प्रव्राजनानुकूल्यसंदर्शनेन संक्षेप्य गृहविस्तरम् अप्रव्राजने ।

2.2262

। प्रव्राजने नुवर्षम्* ।

2.2263

। [36अ1] सन्तानवहुल्यम्* ।

2.2264

। अननुज्ञातायाः स्वामिना ।

2.2265

। व्यभिचारिण्याः ।

2.2266

। गर्भिण्याः ।

2.2267

। शोकहतायाः ।

2.2268

। भण्डकारिण्या उपसम्पादने ऽपि ।

2.2269

। प्रव्राजितोपसम्पादितयोर् अनुपग्रहे ।

2.2270

। अनपकर्षणे ऽन्तरायदृष्टौ ।

2.2271

। अशिक्षणे ।

2.2272

। अ[36अ2]नुपस्थापने ग्लानयोः ।

2.2273

। सान्तेवासिन्योः ।

2.2274

। स्वयं सेव्ये जतुलोठकस्यान्तरा धारणे ।

2.2275

। न प्रतिस्रोतो व्यायच्छेत ।

2.2276

। न योनद्वारे शुक्रं प्रतिक्षिपेत् ।

2.2277

। न चर्मपट्तेन पार्श्वबन्धनं कुर्वीत ।

2.2278

। न वेमपट्टेन स्तनयोः ।

2.2279

। न सुगतान्तरायेनान्तरणम् ।

2.2280

। निदर्शनम् एतत् ।

2.2281

। अङ्गुलि[36अ3]पर्वद्वयाद् ऊर्ध्वं व्यञ्जनस्यान्तःशोचने ।

2.2282

। अनङ्गम् एव प्रतिकृतिः ।

2.2283

। पाणितलघातस्यात्र दाने ।

2.2284

। रोमापनीतेरतः करणकारणयोः ।

2.2285

। गृहिणा सार्द्धं स्थितौ प्रतिच्छन्ने ।

2.2286

। कुड्यवाटवस्त्रगहनान्धकारैर् एतत्वं संपत्तिः ।

2.2287

। भिक्षुणा ।

2.2288

। अभ्यवकाशे पूर्वेण ।

2.2289

। [36अ4] उत्तरेण ।

2.2290

। ऊनापत्तिः सद्वितीयतायाम् अस्य ।

2.2291

। सपश्चात्सच्छ्रमणिकात्वे भिक्षुण्याः ।

2.2292

। गृहिण उपकर्णकेन सन्देशदाने ।

2.2293

। गृहणे ऽस्यैव मतः ।

2.2294

। भिक्षोः ।

2.2295

। अतश् च ।

2.2296

। विद्योद्ग्रहणे गृहिणः ।

2.2297

। पाठने ऽस्यास्याः ।

2.2298

। वधवधव्रणमोचने ।

2.2299

। व्याजेन ।

2.2300

। तस्माद् अनापत्तिः भूततायाम् अर्थस्य ।

2.2301

। सन्तानधारणे ।

2.2302

। गृहस्वामिनम् अनवलोक्यान्तर्गृहे रात्र्यतिनमने ।

2.2303

। अनापत्ति स्त्र्यधीनतायां तदवलोकने ।

2.2304

। रात्रेर् अप्रत्यवेक्ष्य प्रतिच्छन्ने ऽतिनामनम् ।

2.2305

। लयने विना परया भिक्षुण्या ।

2.2306

। अनापत्तिः हतादित्वे ऽस्याः ।

2.2307

। अवष्टम्भायतद्वारपरिहरणानि ।

2.2308

। [36ब्1] संस्पृष्टशय्याकल्पने ।

2.2309

। अनापत्तिर् अनया सार्द्धम् अनेकयापि कृतावरणतायां वृश्यादिनोपस्थितस्मृतिर् अनास्वादने ऽङ्गसंस्पर्शस्याचलमञ् चे प्राकृते संस्तरे वा ।

2.2310

। दुष्कृतं संभवे ।

2.2311

। कारणे भिक्षुण्या स्वाङ्गोद्वर्तनस्य शिक्षमाणया ।

2.2312

। श्रामणेरिकया गृहिण्या ।

2.2313

। तीर्थ्यता ।

2.2314

। उत्कुटिकाकारणे ।

2.2315

। [36ब्2] सुगन्धद्रव्यैः स्वाङ्गोद्वर्तने ।

2.2316

। पिण्याकेन ।

2.2317

। स्नाने हस्तसंलग्नकया ।

2.2318

। प्रसाधनार्थं नियुक्तावुशीरस्य ।

2.2319

। फणकूर्वत्र्याख्यप्रतिशीर्षकाणाञ् च ।

2.2320

। गृहालंकारप्रावृत्तौ ।

2.2321

। नृत्तो येन केनचिद् अङ्गेन ।

2.2322

। गाने ।

2.2323

। यत्र तत्र तदभिप्रायेण स्वरविकारे ।

2.2324

। [36ब्3] वादने वादित्रस्य ।

2.2325

। छत्रस्य परिभोगभूते धारणे ।

2.2326

। उपानहोश् च ।

2.2327

। अनापत्तिः वर्षके शयनासनगुप्त्यर्थम् ।

2.2328

। आसन्दी परिचर्ययोः प्रत्यनुभवने ।

2.2329

। निषादे ऽननुज्ञाते ऽन्तर्गृहमासने ।

2.2330

। परिभुज्य धर्मश्रवणदानावस्थायागा[36ब्4]रिकशयनासनम् उत्सृज्यान् अवलोक्य गृहिणे प्रक्रमणे ।

2.2331

। त्यक्तिरस्योपविचारस्य पर्यन्तः ।

2.2332

। कर्त्तने सूत्रस्य ।

2.2333

। अनापत्ति[ः] लोठकाष्ठञ् च कस्यार्थे प्रतिगुप्ते प्रदेशे ।

2.2334

। स्वीकारे भिक्षुणीगणचोरस्य ।

2.2335

। कृतावामिषविक्रयस्य ।

2.2336

। गृहव्याकुलिकायाश् च ।

2.2337

। न मद्यकर्म कुर्यात् ।

2.2338

। न पानागारं वाहयेत् ।

2.2339

। [36ब्5] पक्तावामस्य ।

2.2340

। अनापत्तिः भिक्षुसंघस्य आचार्यसब्रह्मचारिणाम् अर्थे प्रतिगुप्ते प्रदेशे ।

2.2341

। भुक्तवत्त्वे ऽच्युत्वासनाद् अभ्यवहारे ।

2.2342

। लसुनस्य ।

2.2343

। रजश् चोडस्यानाधारणे ।

2.2344

। सूत्रके नास्य बद्धस्यावस्थापनम् ।

2.2345

। क्[आ]लानुकालम् अस्य शोचनं रञ्जनञ् च ।

2.2346

। [37अ1] [उ]दकशाटिकायाञ् च ।

2.2347

। धारयेदेने ।

2.2348

। धावकेन चीवरधावने ।

2.2349

। दाने श्रमणचीवरस्यागारिकायावगुंठनार्थम् ।

2.2350

। भिक्षुणा सार्द्धं संघाट्याः परिवर्तने ।

2.2351

। वर्णमात्सर्यकरणे ।

2.2352

। कुलावासलाभधर्ममात्सर्यानाञ् च ।

2.2353

। [37अ2] निष्कासने भिक्षुणीवर्षकात् ।

2.2354

। यथा तथा भिक्षुण्याः ।

2.2355

। पूर्वोपगतायाश् चान्तर्गृहात् ।

2.2356

। चोदने दुर्दृष्ट्यादिना ।

2.2357

। शपथकरणे ।

2.2358

। व्यथने क्रोधेनात्मनः ।

2.2359

। अवस्यण्डने भिक्षुणीगणस्य ।

2.2360

। आक्रोशने च ।

2.2361

। ज्येष्ठपर्षदः पानीयेन [37अ3] सेके ।

2.2362

। अनापत्तिर् मूर्छितस्य ।

2.2363

। न भिक्षुम् अवष्ठीवेत् ।

2.2364

। नेदंप्रव्राजितम् आक्रोशेत ।

2.2365

। द्वये ऽप्य् एतत् ।

2.2366

। न भिक्षोः पुरस्ताद् गोचरे चरेत् ।

2.2367

। नास्थिरसंक्रमेण भिक्षुणा सार्द्धं गच्छेत् ।

2.2368

। सहदर्शनाद् भिक्षोर् आसनं मुञ्चेत ।

2.2369

। निषाद एनां स्थितातिनामने निषण्णो निमुञ्चीत ।

2.2370

। अकरणे ऽवलोक्य निषण्णत्वे ऽस्य [37अ4] भजेत ।

2.2371

। अनुपशमने सति सामर्थ्ये भिक्षुणीकलेः ।

2.2372

। पर्युषितच्छन्ददाने ।

2.2373

। अन्वर्द्धमासम् अप्रत्यनुभवने भिक्षुभ्यो ऽववादानुशासन्याः ।

2.2374

। विना भिक्षुभिः पोषधकरणे ।

2.2375

। वर्षोपगताव् अभिक्षुकावासे ।

2.2376

। संघद्वये वर्षो[37अ5]षितायास्त्रिभिः स्थानैर् अप्रवारणे ।

2.2377

। दरिद्रस्य कठिनसमादापने ।

2.2378

। कठिनोद्धारार्थमदापने प्रस्रब्धौ सामग्र्याः ।

2.2379

। चीवरभाजनार्थञ् च ।

2.2380

। नास्या जिघृक्षायां कृतत्वम् ।

2.2381

। वर्षकम् अननुपरिन्द्य प्रक्रान्तौ ।

2.2382

। उपचारत्यागे ।

2.2383

। न वर्षकम् उ[त्?]क्रमेण दद्यात् ।

2.2384

। [37ब्1] न गृहवस्त्वापणवस्तु वा ।

2.2385

। जनपदचर्याचरणे ऽन्तर्वर्षम् ।

2.2386

। अनापत्तिर् अन्तरायप्रत्युपस्थापने ।

2.2387

। वर्षोषितत्वाद् अचरणे ऽस्याः ।

2.2388

। चरणे साशङ्के राष्ट्रे ।

2.2389

। प्रतिविरुद्धे च ।

2.2390

। देवकुलादौ तीर्थ्याश्रये गत्वा वादस्य करणे ।

2.2391

। पृच्छायां प्रश्नस्या[37ब्2]कृतावकाशस्य ।

2.2392

। दत्त्वासनं प्रति सम्मोद्य पृष्टागमाभियोगम् अवकाशं कारयेत् ।

2.2393

। बहिःभूम्येकाकिनीगमने ।

2.2394

। छोरणायाम् उच्चारस्य हरिते तृणे ।

2.2395

। अनापत्तिः ग्लान्ये स्फुटत्वे च नीलतृणैः सर्वस्य ।

2.2396

। तिरश् च प्राकारमनवलोक्य ।

2.2397

। अनापत्तिः वरण्टकप्रतिक्षिप्ततायां प्राकारस्य ।

2.2398

। [37ब्3] न शुचौ लोष्ठं क्षिपेत् ।

2.2399

। न श्रोणीनि वस्तं निवसीत ।

2.2400

। नावभुतान्तर्गृहं गच्छेत् ।

2.2401

। भैक्षवांश् च ।

2.2402

। शैक्षाः ।

2.2403

। दुष्कृतम् आपत्तियोगे ध्वस्ताप्ररूढयोः ।

2.2404

। अनुपसम्पत्कप्रव्रजितस्य च समानातिक्रमे ।

2.2405

। [37ब्5] तत्पक्षाणां मानसम् ।
धारणं विप्रवासञ् च स्पर्शम् अग्नेर् निवारिते ।
भोजनं वीजाघातञ् च देशे च हरिते शुचेः ॥
उत्सर्गं वृक्षरोहञ्च् अ शैक्षा उद्देशयोस् सह ।
रत्नस्पर्शैनभुक्त्वा च रजतसान्निध्यनान्नयोः ॥
भूमिप्ररोहघाताभ्यामृत्सृज्यान्तं च पुत्रगम् ।
प्रावृष्येकत्रवसनं पोषधः सप्रवारणः ॥
इत्याद्य् अस्यान्तभाग् लिङ्ग [38अ1] । ।अनाशायतकान्तारिकागतां तालिकाम् आलंब्य
तत्स्थं वा सूत्रकम् ।

2.2406

। न सोपानत्कश्चंक्रम्येत ।

2.2407

। प्रज्ञपनं खलमानकस्यादिग्ध्यै पांसुना पादयोः ।

2.2408

। तृतीये ऽह्नि प्रहाणिकः पादौ म्रक्षयेत् ।

2.2409

। असक्तो ऽस्वप्नस् तत्रापि ।

2.2410

। आवृतद्वारे ।

2.2411

। पार्श्वम् अपि दत्त्वा ।

2.2412

। सम्मयेरन् प्रहान्प्रतिजागरकम् ।

2.2413

। तद्वृत्तम् उत्थायैव सेकसन्मा[38अ2]र्गसुकुमारी गोमयाकार्षीं प्रहाणम् ।

2.2414

। आसनप्रज्ञपनम् ।

2.2415

। अशुचिकुड्यो शोचनम् ।

2.2416

। सेकादिशुन्धनमृत्तिकापानीयस्थापनम् ।

2.2417

। गण्डीदानञ् चागमाय ।

2.2418

। कारणपृष्ठम् अत्र स्थापनम् ।

2.2419

। संघसन्निपातार्थं तिस्रो घुमास्तावन्तः प्रहाराः ।

2.2420

। कर्मदानार्थञ् च धुम्[आ]त्वेका ।

2.2421

। तिस्रः परिवृत्तयोर् द्वौ प्रहारम् इत्य् अपरम् ।

2.2422

। मृतस्यांसदाना[38अ3]य मुण्डिका ।

2.2423

। एकपरिवर्त्तः प्रहारश् चेत्यपरम् ।

2.2424

। खक्खरकः प्रहाणिकार्थम् ।

2.2425

। कटिकेत्य् अपरः ।

2.2426

। यावद् आप्तमापदि ।

2.2427

। भुक्त्यर्थसन्निपातार्थम् उभयोः कटिकागण्ड्योर्द्दानम् ।

2.2428

। अन्तरितयोर् विलम्बेन ।

2.2429

। असंपत्तौ गण्डीदानेन संबोधनस्य महासन्निपाते यमलशंखयोर् आपूर्णम् ।

2.2430

। भेर्यास्ताडनम् ।

2.2431

। न गण्डीं नाभ्युद्ग[38अ4]च्छेत् ।

2.2432

। न न क्षिप्रम् ।

2.2433

। संभाविनि कार्यस्य काले ऽवशिष्टे यथासुखं करणं दत्तत्रिदण्डके ।

2.2434

। परिमण्डलस्यास्य दानम् ।

2.2435

। दक्षिणदेशनकरणम् ।

2.2436

। परिमण्डलस्य ।

2.2437

। पृष्टत[ः] परिजागरितु गमनम् ।

2.2438

। आगमनम् अग्रतः ।

2.2439

। तद्रूपश् चेत् प्रत्ययः कृतकोपनापावरणीव्यपदेशः ।

2.2440

। [38अ5] सम्मन्येरन् पोषधामुखम् ।

2.2441

। सर्वजातकृतनिष्ठितं वस्तु ।

2.2442

। स बहिर् व्यामोपविचारम् ।

2.2443

। अभिरुचितसंघस्य ।

2.2444

। कर्मान्तराणाम् अपि तत्स्थानम् ।

2.2445

। बध्नीयुः सीमानमार्द्धतृतीययोजनपर्यन्तात् ।

2.2446

। शैलकुड्यस्तम्भवृक्षप्राकारप्राग्भारातिमार्गोदपानादौ प्रतिदिशं संलक्ष्य तत्ज्ञैः भिक्षुभिः परिकीर्त्तिते सन्निधौ संघस्य स्थावरे चिह्ने कर्मणः [38अ6] करणम् ।

2.2447

। कृतायां संवृताव् अत्र विप्रवासश्चीवरः ।

2.2448

। कुर्युर् एनाम् ।

2.2449

। सत्त्वोद्देशकं करणं मण्डलकसंमतेः ।

2.2450

। नाप्रस्रब्धे पूर्वे बन्धान्तरस्य रूढिः ।

2.2451

। मुञ्चेयुः सीमानम् ।

2.2452

। युज्यते द्वयोः सीम्नोर् एकेन वचसा बन्धो मोक्षो वा ।

2.2453

। कुड्यं कर्मण्यबद्धसीम्न्यावासे सीमा ।

2.2454

। यत्र वाशिववहनी परिभ्रष्टोदकपातः ।

2.2455

। उप[38ब्1]विचारान्तो ग्रामे ।

2.2456

। क्रोशान्तः प्रतिदिशमरण्ये ।

2.2457

। सम्पद्यते छन्ददानतस् तेन सामग्र्यम् ।

2.2458

। न सीमाबन्धे ।

2.2459

। कल्पिकं शिक्षादत्तकात् तद्ग्रहणम् उपस्थापिततद्भिक्षुसंज्ञस्य ।

2.2460

। न दानम् ।

2.2461

। भवति संवृतैर् उन्मत्तकेनाप्य् अग्रत्वम् ।

2.2462

। परिशुद्धिदानेन चैक्यं पोषधे ।

2.2463

। प्रवारणायाञ् च ।

2.2464

। तद्दानेन [38ब्2] कुर्वतैवम् एते ।

2.2465

। प्रतीच्छेयुर् एवंविधिम् ।

2.2466

। न गणशच्छन्दादिसंगत्या कर्मकरणम् अन्याय्यम् ।

2.2467

। न तुल्यप्रक्रमाणां वचनीयानाम् अवियुत्यवचनम् ।

2.2468

। नैकेनानेकैः तदानयनम् ।

2.2469

। आख्यानशक्तेर् अत्र परिच्छेदः ।

2.2470

। यथाकथंचिद् एतद् दानानाम् अशक्तौ संपादनम् ।

2.2471

। अपि कायेन ।

2.2472

। कथंचिद् अप्य् अशक्तौ संघस्य वा तत्र गमनं [38ब्3] तस्य वा मञ्चेनानयनम् ।

2.2473

। नैतान् गृहीत्वा धावेत् ।

2.2474

। न जवेत ।

2.2475

। न प्लवेत ।

2.2476

। न वाट्टां लंघयेत ।

2.2477

। न परिषण्डाम् ।

2.2478

। न खे तिष्ठेत् ।

2.2479

। न बहिः ।

2.2480

। नान्तरित्यान्यन् निःश्रयणीपदकम् आक्रामेत् ।

2.2481

। न सोपानकडेवरम् ।

2.2482

। न कष्ठमात्रम् उदकम् अवगाहेत ।

2.2483

। न स्वप्नन् समापत्तिं कुर्वीत ।

2.2484

। वैतरिकत्वेनास्यनयोः गर्हत्वं [38ब्4] भिक्षोर् आरोचयेत् ।

2.2485

। संघस्येत्य् अपरम् ।

2.2486

। समन्वाहरत भदन्ता इत्य् उपक्रमः ।

2.2487

। असंप्राप्तस्य संघमध्यं कालक्रियामागारिकादित्वप्रतिज्ञात्वेनानीतत्वम् ।

2.2488

। आनीतत्वं संप्राप्तस्य ।

2.2489

। परेण पञ्चदश्यां गृहीतत्वे भिक्षोर् मुञ्चैनं भिक्षुं सब्रह्मचार्येषस्माकम् इति ब्रूयुः ।

2.2490

। अमुक्तावस्त्य् अस्माकम् अनेन सार्द्धं किञ्चिद् एव करणीय[38ब्5]म् इति साद्यं ।

2.2491

। तथापि मण्डलके कुर्वीरन् ।

2.2492

। नोर्द्धम् अस्य मोक्षाय न व्यायच्छेयुः ।

2.2493

। भवत्य् उत्प्रेक्षितेन व्यग्रत्वम् ।

2.2494

। पृथग्भावरुचिम् अभिनिरूप्य कर्मणः कृतौ स्थूलात्ययः ।

2.2495

। न विचिकित्सितं निश्चितं वा कल्पमानत्वे ऽनुत्थितेर् दोषस्य कर्तृ ।

2.2496

। कर्तृशुद्धेः पर्य्षितं भावतो न कल्पतः ।

2.2497

। मार्गणशब्दनोच्चस्थदिगवलोकने चेतत् ।

2.2498

। पोषधं कुर्वीरन् पञ्चदश्याम् अन्वर्द्धमासं प्रातिमोक्षसूत्रोद्देशेन ।

2.2499

। न प्रवारणे ऽस्यासंपन्नत्वम् ।

2.2500

। ज्ञपनव्यवस्थोद्ग्रहणपूर्वकं तदुद्देशः ।

2.2501

। भाषणेनैव निदानोद्देशस्योच्चारणेन संपादनीयत्वं ज्ञप्तेश् च ।

2.2502

। श्रुतश्रावणेनापि शिष्टस्य ।

2.2503

। आरब्धस्य समापनं वर्गस्य ।

2.2504

। कृत्स्नस्य तुर्यस्पृष्टौ ।

2.2505

। प्रत्य[39अ1]याच्ञाभाण्डोपभुग्द्रव ।

2.2506

। कामोपघातसंवासानादरासोधवस्तुकम् ।

2.2507

। तुल्यत्वं शिक्षादत्तकस्य ।

2.2508

। अनुपसंपन्नवत्त्वञ् च ।

2.2509

। न तत्र ।

2.2510

। शिक्षामाणायाञ् च ।

2.2511

। गन्त्यन्तराकारभजने लब्धौ भिक्षुसंज्ञानस्य ।

2.2512

। अलब्धो न्यूनत्वं ।

2.2513

। पूर्वप्रयुक्तश् च ।

2.2514

। तत्वं परस्य ।

2.2515

। द्रव्यस्य च प्रतिक्षिप्तात्* ।

2.2516

। तुल्यस्यापि ।

2.2517

। [39अ2] व्यञ्जनस्य पक्षेत्रत्वं ।

2.2518

। यत् प्रयोगत्वं न्यूनार्थात्* ।

2.2519

। तत्वं कृतस्य ।

2.2520

। स्वत्वं न्यूनस्य ।

2.2521

। न्यूने ङ्शत्वं दशाहे ।

2.2522

। ध्वन्सो क्षेत्रत्वे ।

2.2523

। नैतन् न प्रतिछाददोषस्य ।

2.2524

। नैस्फल्यं चरितस्य मानास्यस्य ।

2.2525

। परिवृत्तिर् अत्र कल्पानाम्* ।

2.2526

। तदातनस्यात्मनः कर्तृत्वम्* ।

2.2527

। नाश्वगतित्वम् अन्यजस्य ।

2.2528

। गत्यन्तराकाभजने च घाते ।

2.2529

। नावस्था[39अ3]न्तराप्रतिपत्ताव् अन्यत्वम्* ।

2.2530

। छेतो तद्दोषभागमनं ।

2.2531

। उत्सर्गश् च ।

2.2532

। अनेकत्वा एकत्र वसुनि प्रज्ञप्तेः । यावद् एव तद्दोषः ।

2.2533

। तच्छेदस् तद्गतम्* ।

2.2534

। सर्वत्र मुक्तावनन्त्यत्वे संघावशेषः ।

2.2535

। नानेककृयाफलेनापत्तिव्यवधानम्* ।

2.2536

। अर्धत्वंकारे दुकृतस्य ।

2.2537

। न्यूनांशत्वं न्यूनेष्व् अवद्येषु ।

2.2538

। सर्वत्र विचिकित्सतः [39अ4] प्रवृत्तौ सत्वानम्* ।

2.2539

। संज्ञानं प्रयोगे ङ्गम्* ।

2.2540

। न त्वं सन्धाने ।

2.2541

। नाब्रह्मचर्यशुक्रविसृष्ट्योः ।

2.2542

। श्रोतुश् चासत्ये ।

2.2543

। योग्यत्वं सर्वाङ्गेषु ग्रहणगमने सेवायां प्रतिबलत्वं ।

2.2544

। ऊनत्वं परत्रान्यस्य ।

2.2545

। ततो प्य् अनेकवैकल्ये ।

2.2546

। मनुष्ये च तिरश्च ।

2.2547

। अनृद्धि धर्मकत्वम् अस्पर्शने ङ्गे ।

2.2548

। अधिकृतं स्पृश्यम ।

2.2549

। प्रतो[39अ5]दे च ।

2.2550

। अन्यवत्वं नखदन्तनिर्मांसास्थिरोम्णाम्* ।

2.2551

। मनुषगतेर् व्यवहार्यत्वं न नष्टप्रकृतेः ।

2.2552

। तद्वत्त्वं पण्डकोभयव्यञ्जनयोः ।

2.2553

। व्यवहारवत् सन्सर्गः ।

2.2554

। अर्धत्वम् वाह्यके प्रव्राजिते गृहीत्वस्यारूढिध्वस्तयोश् च ।

2.2555

। सोपसंपत्कम् अध्वस्तं भिक्षुभिक्षुणीत्वं ।

2.2556

। स्वपक्षोपसंपत्*व्यञ्जनो [यो]गम् आभ्या[ं] ।

2.2557

। लिङ्गत्वम् एतत्गते गृहिण ऊ[39ब्1]नम्* ।

2.2558

। कल्पिकत्वं प्रव्रजितद्रव्येषु प्रमाणिकादित्वञ् च ।

2.2559

। स्वार्थत्वं मतन्मुख्ये ।

2.2560

। बोधो र्थस्य विज्ञप्तौ ।

2.2561

। तं कृत्वे वस्थितो वधस्वार्थहारयोः ।

2.2562

। नैतत् समादातरि ।

2.2563

। पात्रम् अस्य ।

2.2564

। वाक् च ।

2.2565

। स्वा ।

2.2566

। आत्मोपसंहिता ।

2.2567

। स्वाधिष्ठितत्वं कारणे ।

2.2568

। न गो[39ब्2]चरप्रसृतयोगं वाचयेत ।

2.2569

। नाभ्यागमे ।

2.2570

। युक्तं विक्षिप्तृक्रूरोत्गण्डकानां परिहरणं ।

2.2571

। मापयेयुः प्रहाणशालाम्* ।

2.2572

। स्वरुङ्गमध्यं लयनद्वयम्* ।

2.2573

। पञ्चके षट्के वा ।

2.2574

। द्वारकपाटशब्दाकरणाकर्षणोपायांश् च ।

2.2575

। वातायनञ् च वि तृतीये ऊर्धम् बहिस्सम्वृतम् अन्तर्विशालं साधु ।

2.2576

। जालिकाकवाटिकासुचीर् घटिका[39ब्3]चक्रिकाजपादकदण्डाश् च ।

2.2577

। करणम् मण्डपस्योपर्यमाने पुरान्तरस्या वा ।

2.2578

। सोपानस्याधिरोहाय ।

2.2579

। परिक्षेपो प्रपातार्थं वेदिकया ।

2.2580

। कीलनं लोहकण्टकैर् अकम्पनार्थम् अस्याः ।

2.2581

। बहिर्वा च प्रहाणमण्डपस्य लयनपङ्क्तेर् वा ।

2.2582

। न द्वारसम्मुखं द्वारं कुर्यात्* ।

2.2583

। करणं द्वारकोष्ठकस्य ।

2.2584

। कुर्युर् गुहाम् अपि ।

2.2585

। मृण्म[39ब्4]यान्यासनार्थे संहतानि ।

2.2586

। पीठिकाञ् च ।

2.2587

। चतुर्हस्ता सौ समन्तपरिक्षेपेण साध्वी ।

2.2588

। पांचविध्यां वाने ।

2.2589

। मौञ्जं साणं वाल्वजं पट्टिका वेत्रवैभङ्गुकम् इति ।

2.2590

। प्रज्ञपयेयुर् अत्र तूलिकाम्* ।

2.2591

। गृष्टिपरितो स्याम् अधिकत्वं साधु ।

2.2592

। अर्ककाशेरकबूकशल्मलीनां तूलं पूरणं ।

2.2593

। ऊर्णा शणः कर्प्यासो नतुकानि पत्रवैभङ्गुकञ् च ।

2.2594

। काकपदकाना[39ब्5]म् अन्तरो न्तरे यथार्थम् अवस्थापनाय दानम् ।

2.2595

। मिद्ध्वागमे घटिकाधारणं ।

2.2596

। सूत्रकेण कर्णोपनिबध्य ।

2.2597

। यष्टेः सारणं ।

2.2598

। सनैः अदुःखनार्थमाढकं छित्तेर् वेष्टितायाश् च नतुकैः ।

2.2599

। कण्डुसकक्षेपः सूत्रकेन वध्वस्य पुनरान्त्यैः ।

2.2600

। प्रदीपस्याग्रतः स्थापनम् ।

2.2601

। पादस्यावतारणं ।

2.2602

। अपरस्यापि ।

2.2603

। चङ्क्रमणं ।

2.2604

। [40अ1] वेक्षणम् अत्रार्धमासवृत्तस्य ।

2.2605

। सनिपत्स्यत्तायां ।

2.2606

। प्रतिकृत्य चेतितन् सर्वत्र सन्निषीदेत्* ।

2.2607

। सन्निषण्णतायां स्मृतिविमत्योर् अनन्तर्[ए] धिष्ठेत ।

2.2608

। चित्तेन कर्मकारकः ।

2.2609

। स्वं चेदेकमतद्वन्तं पञ्चदशां मन्येत [प्रेम]सप्रेमकप्रागुण्ये प्रयतेत्* ।

2.2610

। य आयुस्मन् इदं चेदञ् च करोति किं* तस्य भवति सापत्तिको नत्वायुस्मतेदं चेदं च कृतं कृतम् एवं [40अ2] सत्य् आयुस्मान्* सापत्तिको नाहम् आयुस्मन्न् एको पि तु सर्वसंघो नेनार्थेनाङ्गतावत्त्वम् आयुस्मान् स्वाम् आपत्तिं* यथाधर्मं प्रतिकुरु किन् ते करिष्यति सर्वसंघ इति प्रक्रमेण दर्शनपथे शिष्टानाम् इच्छायां देशयेत्* ।

2.2611

। नाकाममत्रैनं चोदयेत्* ।

2.2612

। सर्वे चेत्* पञ्चदश्याम् आपत्तिम्* प्रतीयुर् विमतिम् वा स्वप्रतिक्रियार्थम् आवासान्तरे कञ्चित् प्रस्थापयेयुः प्रतिगृही[40अ3]तृसंवत्यर्थम् ।

2.2613

। असंपत्ताव् अधिष्ठानं प्रतिज्ञपनं कामयेरन्* ।

2.2614

। चतुष्कतो र्वाग्भावे विहारकरणीयं स्थितम् एव ।

2.2615

। अहापनम् आसनप्रज्ञप्तेः ।

2.2616

। सेक-संमार्गसुकुमारीगोमयकार्षाप्रदानसिं*हासनासनप्रज्ञपनप्रदीपधर्मश्रवणदानेषु क्रितेषूच्चतरके प्रदेशे स्थित्वा चतुर्दिशं व्यवलोकनम् ।

2.2617

। दर्शन भिक्षुणाम् अङ्ग तावद् आयुस्मन्त[40अ4]स् त्वरितत्वरितम् आगच्छताम् आर्यसंघस्य पोषधः प्रवरणा वा पाञ्चदशिक इति वचनं ।

2.2618

। अपरिपूरो चतुष्कस्याधिष्ठानं ।

2.2619

। वेलां यावद् आगमय्य ।

2.2620

। निषद्य केवलस्य ।

2.2621

। सान्यत्वे शिष्टे सन्निधौ ।

2.2622

। सन्निषद्य त्रयाणां ।

2.2623

। तद्वत् प्रवरणं चतुर्णाम् ।

2.2624

। नासत्प्रातिमोक्षसूत्रोद्देशके तदास्थाने ज्ञात्वा पोषधम् आगमयेत्* ।

2.2625

। न यत्रास्याति[40अ5]क्रमस् तत्रोपगच्छेत्* ।

2.2626

। नोपगतिम् अनुरक्षेत्* ।

2.2627

। प्राक् परातः ।

2.2628

। तञ् चोर्धम् मासद्वयात्* ।

2.2629

। वस्तुकर्मलाभोपस्थायकपरिहारेणोद्देशकं परीच्छेयुः
आगच्छन्तं सूत्रधरं प्रत्युद्गच्छेयुः छत्रध्वजपताकाभिः ।

2.2630

। विनय्सस्य मातृकायाश् च ।

2.2631

। अर्धतृतीयानि योजनानि ।

2.2632

। अशक्तौ क्रोशपञ्चकम् ।

2.2633

। त्रिकम् अर्धयोजनं क्रोशम् अर्धक्रो[40अ6]शं परिषण्डाम् वा ।

2.2634

। <<वाक्साखिल्य>>केन प्रत्युत्गम्य पात्रचीवरं प्रतिगृह्णीयुः ।

2.2635

। स्नात्रं कुर्युः ।

2.2636

। स्नेहलाभञ् च संघे ।

2.2637

। वस्त्रादिपरिहारं दद्युः ।

2.2638

। धर्मश्रवणञ् च ।

2.2639

। शास्तृधरत्वम् एषां भिक्षुम् ईर्ष्यन्तं बोधयेयुः ।

2.2640

। नाकृतपोषधः प्रवारणस् तद्दिने प्रज्ञायमानस्व् अत(द)ः स्थानात् प्रक्रामेन् न चेत् तदैव तद्वधे प्राप्तिः कलिकृत्भ्यो विमुक्तिर् अनुप्राप्तिः [40ब्1] सत्*वृत्ताना<<म् इत्य् ए>>तत् परायनत्वम् वा ।

2.2641

। न कलिकृत्भिक्षुकं सद्वृत्तभिक्षुकाद् गच्छेत ।

2.2642

। नाभिक्षुकं सभिक्षुकाद् असहितः शिष्टैर् अन्यत्रापदः कायचित्तप्रस्रब्धिवशता त वा ।

2.2643

। नाकृत्*-पोषधप्रवारणं क्रान्तौ निःश्रितम् अवसृजेत ।

2.2644

। तत्*रूपतायां प्रत्ययस्य सद्वृत्तोद्देशवन्तम् उपदिश्य वासं तत्रावतारे नियुञ्जीत्* ।

2.2645

। नैनाम् उक्तिम् अति[40ब्2]लङ्घयेत्* ।

2.2646

। कल्पतापश्चाद् आगतानाम् अर्थे पुनः करणम् अनयोः ।

2.2647

। कामो त्र प्रवृत्तो सम्यक्ता चेत्* ।

2.2648

। समानयात्रेष्व् अपि ।

2.2649

। सामग्रम् इतरे याचेरन्* ।

2.2650

। अलाभे स्य सीमान्ते करणं ।

2.2651

। संपत्तिः शेषानुभवेन क्रियमानतायाम् आगतौ ।

2.2652

। नियमो प्रक्रान्तत्वे कस्यचित् तत्स्थानात्* ।

2.2653

। बहुतरत्वे चागता[40ब्3]नां ।

2.2654

। कालं प्रति बहुतराणाम् अनुवर्त्यत्वं ।

2.2655

। समत्वे नैवासिकानाम्* ।

2.2656

। अत्र च

2.2657

। न समाधेर् व्युत्थापयेत्* ।

2.2658

। नानववादकं ध्यायेत्* ।

2.2659

। न्याय्यो घटिकाक[न्दु]शकप्रयोगः ।

2.2660

। न वीर्यं स्रंसयेत्* ।

2.2661

। सूत्रवद् एतत्* ।

2.2662

। अविक्षिप्ताङ्गचित्तचीवरतयापि शय्यकल्पनम् ।

2.2663

। नाग्लानो दिवा श[40ब्4]यीत्* ।

2.2664

। धारयेत्* पृष्ठावाधिक आयपदम्* ।

2.2665

। अन्तर्गतेश् चंक्रम्येतेन्द्रियैर् अबहिर्गतेन मान्ससेनाविलम्बितं ।

2.2666

। स्पष्टम् ऋजुः ।

2.2667

। अशक्तौ सूत्रकेणाक्षिप्य ।

2.2668

। द्वादश स्वाध्यायकारकस्य हस्ताश्चंक्रमः ।

2.2669

। अष्टादश प्रहाणिकस्य ।

2.2670

। सूत्रयित्वास्य करणं ।

2.2671

। देशयेत्* भिक्षुर् धर्मं निषद्य ।

2.2672

। अनेकता चेदेकः ।

2.2673

। यः कश्चि[त्*] [40ब्5] नानाधीष्ठो न चेत् तन्मुखिकया निर्गतिः ।

2.2674

। न मण्डलकेन ।

2.2675

। नार्धमण्डलकेन ।

2.2676

। न द्वाव् एकत्र ।

2.2677

। वृद्धान्ते ।

2.2678

। प्राभूत्यं चेत्* द्वित्राण्य् उत्सृज्यासनानि ।

2.2679

। अतद् आसनश् चेत्* ।

2.2680

। सिं*हासने च ।

2.2681

। स्थापयेत्* खेटकटहकं ।

2.2682

। आस्तरम् अत्र दद्यात्* वालुकाच्छयिका वा ।

2.2683

। काले चैतत् कालं शोचयेत्* ।

2.2684

। धर्मश्रवणं [40ब्6] कुर्युः निशायाम्* ।

2.2685

। अष्टम्यां चतुर्दश्यां पञ्चदश्याञ् च ।

2.2686

। नैतद् अकरणे ग्लानस्य दोषः ।

2.2687

। नाध्येष्यमाणो स्य भाषणार्थं न प्रतीच्छेत ।

2.2688

। अशक्त्यादाव् अध्येषकं संज्ञपयेत्* ।

2.2689

। असति भाषणके परिपाटिकयोत्*स्मार्य भाषेरन्* ।

2.2690

। अन्तत एकेकां गाथां ।

2.2691

। प्रदीपस्यानुकरणं ।

2.2692

। अर्धचन्द्राकारेण प्र[41अ1] ॥ क्षिरिण्याकारेण वा धर्मश्रवणसंगतिं* प्रज्ञपयेत्* प्रक्षीरिण्यां ।

2.2693

। अभ्यवकाशे धर्मश्रवणे वितानकं दानम् ।

2.2694

। वातवर्षे प्रवेशनं ।

2.2695

। न ततो धर्मश्रवणम् उत्सृज्येयुः ।

2.2696

। मुहूर्त्तं स्थविरो ग्रेगतं तूष्णीम् आग<<म>>य्यात्र धर्मं भाषेतान्यम् वाधीच्छेद् वद भिक्षो धर्मं <<।>>

2.2697

। भाषमाणम् अवधार्य धर्मश् चेद् उत्साहयेत्* ।

2.2698

। न चेद् धारयेत्* ।

2.2699

। गृहिणाम् अ[41अ2]त्रागतानां धर्मं कथं कुर्यात्* ।

2.2700

। तीर्थ्यञ् च प्रत्यवतिष्ठमानं सुनिगृहीतम् अदर्शयत् कोपम् अननुसूयम्* ।

2.2701

। न पर्षदम् आदाय देशको गच्छेत्* ।

2.2702

। <<निर्>>गताम् एनां धर्ममुखे निवेशयेत्* ।

2.2703

। सगौरवः सप्रतीशो नीचचित्तो वगाहेत्* ।

2.2704

। सत्कृत्य देशयेत ।

2.2705

। सगौरवो धर्मे स्थिरः ।

2.2706

। अविक्षिप्तमानसः ।

2.2707

। युक्तमुकैः पदैः ।

2.2708

। अव्यवकीर्णैः [41अ3] सानुसन्धि ।

2.2709

। मैत्रानुकंपानिरामिषचित्तः ।

2.2710

। हर्षरुचितुष्टीः कुर्वन्* ।

2.2711

। तिष्ठेद् असमाप्ते र्थवशेन ।

2.2712

। भाषेत् स्वरेण धर्मम्* ।

2.2713

। कुर्याद् उत्थाय विभागम्* ।

2.2714

। उद्धृत्य चार्थ(ः)कथाम् ।

2.2715

। भङ्गसन्धी च ।

2.2716

। दिवसस्य गणनं संघस्थविरेण सूत्रप्रोतवंशशलाकासंचारण्[ए]न ।

2.2717

। उपधिवारिकेन तत आगम्यारोचनं [41अ4] संघे ।

2.2718

। विशेषितस्य ।

2.2719

। पक्षभेदेन ।

2.2720

। विहारस्वामिदेवतार्थञ् च गाथाभाषणे भिक्षूणां नियोगस्य वचनं ।

2.2721

। अनन्तरम्* ।

2.2722

। अद्य शुक्लपक्षस्य प्रतिपद् विहारस्वामिनो विहारदेवतानां चार्थाय गाथां भा<<ष>>ध्वम् इति ।

2.2723

। विहारस्वाम्युपनिमन्त्रणवचनं ।

2.2724

। एवं नाम दानपति श्वो भिक्षुसंघं भक्तेनोपनिमन्त्रयते तं भदन्त कल्या[41अ5]णैः मनोभिः प्रत्यनुकम्पान्ताम् इति ।

2.2725

। ऊनरात्रपादनं अर्धमासावशेषतायामृतोः ।

2.2726

। अधिकमासककरणं राजानुवृत्या ।

2.2727

। जोतिषिकानुवृत्या नक्षत्रानुगतिः ।

2.2728

। नाविचार्यानागम्य्य पोषधं शून्यो यम् इत सीमानं बध्नीयुः ।

2.2729

। अनङ्गम् अरूढो ज्ञातताबद्धत्वस्य ।

2.2730

। निस्तत्वयापि प्रस्रब्धिः ।

2.2731

। कल्पिकत्वस्य [41अ6] च कुटेः ।

2.2732

। न कल्पते सीम्ना सीम्नः परिक्षेपः ।

2.2733

। कल्पते मण्डलकभिक्षुणीवर्षकयोर् दकावर्ते च ।

2.2734

। व्यवतिष्ठते सीम्न्याचतुष्टयाद् एक<<..>>वृक्षे ऽनेका मर्यादा ।

2.2735

। व्यवहारिकस्यात्र चिह्नत्वं ।

2.2736

। अनेवंभूतत्वमृद्धिमायाकृतयोः ।

2.2737

। अस्थिरत्वं चन्द्रार्कताराकिरणोर्मितरङ्गाणां ।

2.2738

। सीमान्तरम् वदुकं सीम्नि ।

2.2739

। अस[41ब्1]त्वम् एकत्वस्य विछेदे ।

2.2740

। विषयत्वं संक्रमस्य शिरश् चेत्* ।

2.2741

। अनुवृद्धिर् अस्य ध्वस्तो पुनः कृतो ।

2.2742

। अप्रतिप्रस्रब्धप्रयोगतायां ।

2.2743

। नोर्धं सप्तरात्रात् अविछेदभूतं नभः ।

2.2744

सत्वेनैवात्र न व्यवहारः कुतः संवर्धतया ।

2.2745

। नोर्धं मध्यतो र्धतृतीययोजनान्तात् सीम्नो बन्धस्य रूढिः ।

2.2746

। एतस्माद् अधोर्धं <<च>> खरससंबन्धस्य तलवत्त्वं ।

2.2747

। अरूढि[41ब्2]र् अविप्रवाससम्वृतेर् अबद्धसीमतायां भूमेः ।

2.2748

। अपेति पा[स्]ए बन्धस्य ।

2.2749

। नास्यास्याः ।

2.2750

। स्तूपगहाङ्गणपोषधामुखेष्व् अपि पोषधे संमृज्यता ।

2.2751

। दत्तत्वं छन्दादेः संघे दत्तता ।

2.2752

। यस्य कस्यचिद् अतस् तदारोचकत्वेन भवनीयत्वं ।

2.2753

। नैनं बहिःसीमस्थो ददीत दापयेत वा ।

2.2754

। न परंपरया <<।

2.2755

।>> दुष्कृतं ग्लानावशचप्राणब्रह्मचर्या[41ब्3]न्तरायभीताद् अन्यस्य दाने ।

2.2756

। अनारोचने नादरात्* ।

2.2757

। निर्दोषं बहिःसीम्ना <<अ>>नया भीत्या नयनम्* ।

2.2758

। भिक्षूणां गणनम् उपधिवारिकेण पोषधे शलाकाचारणे<<न>> ।

2.2759

। सुप्रवृत्तस्यार्ध्वपदे प्यस् खलन्तायाम् उद्देशः ।

2.2760

। संघस्थाविरस्य ।

2.2761

। अप्रतिबलत्वे द्वितीयस्य ।

2.2762

। तृतीयस्य तस्यापि ।

2.2763

। तस्यापि वारेण ।

2.2764

। अन्यस्या[41ब्4]शक्ताव् अध्येषणम्* ।

2.2765

। अप्रतिपत्तौ संघेन ।

2.2766

। साततिकस्यापि ।

2.2767

। विष्ठाने शेषस्यान्येन ।

2.2768

। खण्डधरतायां यावत्भिः संपत्तिः ।

2.2769

। अनयस् सप्रत्यपायतायां प्रासादिकस्थानलोभेनासमीपे ग्रामस्य योध्वकरणम्* ।

2.2770

। करणम् अनवस्थाने सार्थे स्य गच्छत्भिः ।

2.2771

। अनिष्टौ शब्दनस्य संक्षेपेन ।

2.2772

। तावतो प्य् अधिष्ठानम्* ।

2.2773

। [41ब्5] निरवद्यं स्राद्धस्य प्रधानस्य च तुष्टिसंभावनायाम् आचारानुश्रावणम्* ।

2.2774

। करणञ् च सन्निधौ पोषधस्य ।

2.2775

। आपदि गृहिसन्निदौ देशनम्* ।

2.2776

। अनुश्रावणञ् चास्याचारस्य ।

2.2777

। संज्ञप्तये च राज्ञः ।

2.2778

। नानिर्वाहणे परस्यारूढिः ।

2.2779

। उद्देश्य तदियन्तकालोद्देष्टॄणां तत्वानुपगृहीतिर् अत्राधर्मः ।

2.2780

। श्रमणोपविचाराद् अपेत[41ब्6]त्वं प्रक्रान्तता

मूल पाठ: Vinayasūtra · Edition: Preliminary transliteration of the ms. found in Tibet by Rahula Sankrityayana · Data entry Yoshiyasu Yonezawa et al. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc