भाषा

ENहिગુ
ग्रंथ पाठ

विनयसूत्र · अध्याय 1

1.1

। अथ निर्याणवृत्तं ।

1.2

। सर्वस्मिन्* सन्निपतिते संघे कृतेदं वेषं निपत्य प्रगृहीताञ्जलिम् उत्कुटुस्थं वृद्धान्तं याचिवन्तं त्रिर् ज्ञप्तिचतुर्थेन कर्मणा सह प्रव्रज्योपसंपदाव् उपनयेयुर् इति पुराकल्पः ।

1.3

। निश्रितस्य कञ्चिद् भिक्षुं तत्रोपाध्यायतया प्रव्रज्योपसम्पदौ ।

1.4

। पृष्ट्वान्तरायिकं परिशुद्धाय पूर्वोपाध्यायत्वेनावकाशं [1ब्2] कुर्यात्* ।

1.5

। नानुपपन्नस्य पूर्वम् उपासकत्वश्रामणेरत्वभिक्षुत्वानाम् उत्तरम् ।

1.6

शरणगत्यभ्युपगमवचनोपक्रमम् उपासकत्वश्रामणेरत्वाभ्युपगमवचनं कुर्वीत ।

1.7

। अनन्तरम् अस्य शिक्षोत्कीर्तनम् अभ्युपगमरूपेण ।

1.8

। स्वयम् उपासकताम् उपनीयारोचकाय संघस्यार्पयेत्* भिक्षवे ।

1.9

। कञ्चित् परिशुद्ध्य तीति पृष्ट्वा शुद्धम् आ[1ब्3]रोचयेत्* ।

1.10

। सर्वसन्निपातेन वा संनिषण्णे ऽनुलयनम् वा ।

1.11

। सचेत्* परिशुद्ध्यतीति सर्वे ब्रूयुः ।

1.12

। उपाध्यायं याचेत्* ।

1.13

। केशस्मश्र्व् अवतारयेताचूडं ।

1.14

। अवतार्यतां चूडेति पृष्टेनानुज्ञाते तां* ।

1.15

। स्नायात्* ।

1.16

। उपाध्यायः काषायाणि वस्त्राणि दद्यात्* ।

1.17

। पादयोर् निपत्य प्रतिगृह्नीत्* ।

1.18

। उपाध्यायः प्रावृणुया[1ब्4]त्* ॥

1.19

व्यञ्जनं प्रत्येवेक्षेतासंचेतितं ॥

1.20

प्रव्रज्याम् उपनयेत्* शरणगमनोपक्रमं ।

1.21

। याज्ञानन्तरम् वा ।

1.22

। श्रमणेरत्वोपनायिने र्ययेत्* भिक्षवे ।

1.23

। कञ्चित् परिशुद्ध्यतीति पृष्ट्वा शुद्धम् उपनयेत्* ।

1.24

। स आचार्यः ।

1.25

। रहो नुशासककर्मकारकनिःश्रयदायकपाठकाश् च ।

1.26

। वृत्ते र्थे भूतत्वं ।

1.27

। अभ्युपगताव् उ[1ब्5]पाध्यायस्य याज्ञायां तद् उद्भूति ।

1.28

। आवृत्तौ तृतीये ङ्शे न्त्यायां वृत्तत्वं ।

1.29

। तद्यथा परोत्कीर्तनकाले श्रामणेरत्वस्य ।

1.30

। पश्चिमे त्रोपाध्यायत्वस्य ।

1.31

। पर्यन्तो निःश्रेयदानस्यैकरात्रं निःश्रयत्वेन प्रत्युपस्थानं ।

1.32

। पाठस्य त्रिर् एकगाथापरिवर्तनं ।

1.33

। नापाठनाभिप्रायेणोच्चारणे पाठत्वं ।

1.34

। नान्यथैनाव् उपपदयेत्* ॥

1.35

[1ब्6] नैवम् अन्यं ।

1.36

। नानुक्त्वा सहितम् अर्थहेतोर् नाम गृह्नामीत्य् उपाध्यायनाम गृह्नीयात्*

1.37

॥ संघाद् उपसं*पत्* ।

1.38

। उपाध्यायतायाम् उन्मुखीभूतः कर्मकारकम् अधीच्छेद् रहो नुशासकञ् च भिक्षुं ।

1.39

। उपाध्ययं याचेत्* ।

1.40

। स स्वयम् एनं त्रिचीवरम् अधिष्ठापयेत्* ।

1.41

। पात्रञ् चोपदर्श्य मोनम् अ[2अ1] । ।धिकं पाण्डपेतीति संघे ।

1.42

। सुपात्रम् इत्य् अनेवं ब्रूयुः सर्वे ।

1.43

। अपकसिते क इत्य् आख्याप्य रह नुशासकम् उत्साह्य कर्मकारकः संघं येनम् अनुज्ञा..पयेत्* ।

1.44

। शृणु त्वम् इति रहसमनुशष्यात्* ।

1.45

। तिष्ठ मा शब्दिता गमिष्यसीत्य् एनम् उक्त्वा समनुशिष्ट इति संघाय परिशुद्धिं निवेद्य किम् आगच्छत्व् इत्य् आगमनं पृच्छेत्* ।

1.46

। सचेत्* परिशुद्ध्यतीति सर्वे ब्रूयुः

1.47

[2अ2] उपसंपदं कर्मकारको याचयेत ।

1.48

। ज्ञापयित्वा संघान्तरायिकं पृच्छेत ।

1.49

। उपसंपदम् उपनयेत ।

1.50

। छाय वेदयेतानन्तरं मितां ।

1.51

। संकुना चतुरङ्गुलेनैतत् साधु ।

1.52

। पुरुषत्वेनास्यानुव्यवहारः ।

1.53

। अहोरात्राङ्शपूर्वाह्नादिकं ।

1.54

। समयञ् च पञ्चैते ।

1.55

। हेमन्तितो ग्रैस्मिको वार्षिको मितवार्षिक्. दीर्घवार्षिक इति ।

1.56

। चातुर्मासिकौ पू[2अ3]र्वौ ।

1.57

। मासः परः ।

1.58

। ततो होरात्रतः ।

1.59

। तद् ऊनम् अन्त्यो मासत्रयं ।

1.60

। निःश्रयानारोचयेत्* ।

1.61

। [प]तनीयान् धर्मान् ।

1.62

। श्रमणकारकांश् च ।

1.63

। स[म्*]पन्नतां सम्यग्तया च प्रेप्सितस्योत्ग्राह्य शीलसामान्यगततारागणे नियुञ्जीत्* ।

1.64

। यात्रिकसम्बन्धप्रतिबिम्बने ।

1.65

। विनीतसम्वासतायां ।

1.66

। प्रयोजनानुष्ठाने । ।

1.67

। [2अ4] संप[त्स]मानताम् अनाख्यातसमात्तपरिज्ञानस्याचक्षीत्* ।

1.68

। आदरे नियुञ्जीत्* ।

1.69

। सोपायाख्यानञ् च संपादने ।

1.70

॥ नानवलोक्य निःश्रयं निःश्रितः कारणीयं कुर्यात्* ।

1.71

। मुक्त्वोच्चारप्रस्रावं ।

1.72

। दन्तकाष्ठविसर्जनं सोपविचारे विहारे चेत्यम् अभिवन्दनं ।

1.73

। एकान्नं पञ्चाशव्यामपर्यन्ताद् विहारतो गमनं [2अ5] पात्रचीवरकर्मणो ग्लानोपस्थाने कोकृत्यप्रतिविनोदने पापकदृष्टिगतप्रतिनिःसर्गे तीव्रम् औत्सुग्यम् आपद्येताहोवताहं कुर्यां कारयेयम् वेति ।

1.74

। प्रणिधातुकामे संघे हो वत संघो स्येदं प्रणिधिकर्म न कुर्याद् इति ।

1.75

। कृते वसारयेद् इति ।

1.76

। परिवासमूलपरिवासमानाप्य् अमूलमानाप्य् आवर्तणार्थिनि निःश्रये हो वत संघस्य परिवासादि चतुष्कं दद्याद् आ[2अ6]बृहेत् इति ।

1.77

। सो प्य् एतद् अस्मै कुर्याद् उत्सृज्यावलोकनं ।

1.78

। नोनदशवर्ष उपसंपदोपाध्यायत्वनिःश्रयत्वानिःश्रितवासान् कुर्यात्* ।

1.79

। नासमन्विते केनचिद् अनन्तरेभ्यः समायोगेन ।

1.80

। ग्लानोपस्थानकौकृत्यप्रतिविनोदनपापकदृष्टिगतप्रतिनिःसर्गानभिरतिस्थानप्रमीलनानां करणका[र]णे सीमार्थं ।

1.81

। पा.. .ऐ[2ब्1]क्षत्वाद् अपञ्चके सशीलवन्ता बाहुश्रुत्यं ।

1.82

। पिटकाभिज्ञत्वं ।

1.83

। ग्राहण एषां प्रतिबलत्वं ।

1.84

। अधिशीलचित्तप्रज्ञां शिक्षन्ता ।

1.85

। प्रतिबलत्वं वा शिक्षणायां ।

1.86

। एवम् अध्याचारविनयप्रातिमोक्षं ।

1.87

। श्रद्धाशीलश्रुतत्यागप्रज्ञासम्पन्नत्वं ।

1.88

। शीलसमाधिप्रज्ञाविमुग्ति(त)ज्ञानदर्शणे ।

1.89

। सारब्धवीर्यत्वप्राज्ञत्वं च ।

1.90

। स्मृतिमत्त्वं ।

1.91

। प्रतिसंलीलनत्वं ।

1.92

। समाहितत्वं ॥

1.93

[2ब्2] शैक्षत्. ं ।

1.94

। अशैक्षता ।

1.95

। उत्पत्तिप्रज्ञप्त्यनुप्रज्ञापतिप्रतिक्षेपाभ्यनुज्ञाभिज्ञत्वं ।

1.96

। आन्तरायिकानान्तरायिकाभिज्ञात्वाख्यापितानुशासकत्वं ।

1.97

। सह ग्राहणप्रतिबलत्वेन निःश्रयस्य्[आ]निःश्रयस्य वा ।

1.98

। आपत्येनापत्तिगुरुलघुताभिज्ञत्वप्रवृत्तप्रातिमोक्षविस्तरत्वं ।

1.99

। वृद्धाभावे नवकं निश्रयेत्* ।

1.100

। सामीचीं* केवल हापयेत ।

1.101

। चरेद् अ[2ब्3]निःश्रितः पञ्चवर्षः पश्चिमसमयोगेन समन्वितजनपदचारिकं ।

1.102

। नान्यस् त्रैविद्यो पि ।

1.103

। मासि तीर्थ्य इति प्रव्रज्यार्थम् उपसंक्रान्तं पृच्छेद् उपसम्पादकाश् च ।

1.104

। नानाराधितचित्तम् उत्सृज्य शाक्यम् आग्नेयञ् च जटिलं तीर्थ्यं प्रव्रजयेयुर् उपसंपादयेयुर् वा कृते तत्तीर्थ्यानाराधितादितीर्थ्यान्त[र]वर्जम्* ।

1.105

। रत्नानां वर्णस्य [2ब्4] तीर्थ्यानाम् अवर्णस्य भूतस्योक्ताव् अकुप्यत्वमाराधितचित्तता ।

1.106

। तदर्थम् अतद्वन् तम् एनं कृतोपासकतान्तं चतुरो मासान् परिवासयेद्* संघो दत्वा परिवासं कर्मणा ।

1.107

। संघात् तस्य भक्तं ।

1.108

। उपाध्यायाच् चीवरं ।

1.109

। कर्तृत्वञ् च कर्मादानस्य ।

1.110

। परिपूर्णपञ्चदशवर्षो सीति प्रव्रज्यर्थम् उपसंक्रान्तं पृच्छेत्* ।

1.111

। नोनम् असमर्थं काकोड्डायने समर्थम् वा [2ब्5] सप्तवर्षं प्रव्रजयेयुः ।

1.112

। नैकत ऊर्धं श्रमणोद्देशम् उपस्थापयेत्* ।

1.113

। अरुचिश् चेद् अनेकध्यं प्रव्रज्यायां प्रव्रज्यातिरिक्तम् उपसम्*पादयेत्* ।

1.114

। ऊनश् चेद् अन्यस्मा उपनिश्रित्यर्थम् अर्पयेत्* ।

1.115

। नासौ तम् आछिद्यात्* ।

1.116

। उपसंपादयेद् अप्रयच्छतो बलाद् आदाय कृधासः ।

1.117

। व्यसिस्ते कस्यचित् किचिद् देयम् अल्पं वा प्रभूतम् वा ।

1.118

। जीवत् पितृकम् अननुज्ञातम्* ।

1.119

। [2ब्6] [त्]आब्[ह्य्]आम् अद्[ऊ]रदेशं प्रव्रज्यापेक्ष सप्ताहं धारयेत्* ।

1.120

। नानारोचितं दूरदेशम् अप्य् एनं संघे प्रव्राजयेत्* ।

1.121

। युक्तं प्रव्रज्यापेक्षस्य संघेन भक्तदानं ।

1.122

। कृतानुज्ञाते सो मातपितृभ्याम् अन्ते मुक्त्वा दूरदेशकं ।

1.123

। मासि ग्लानम् इत्य् उपसंक्रान्तं पृच्छेत्* ।

1.124

। मा ते ग्लान्यं कञ्चिद् अस्तीति वा ।

1.125

। विशेषत उपसंपादकाः ।

1.126

। न ग्लानं प्रव्राजयेयु[3अ1] । ।र् उपसम्पादयेयुर् वा ।

1.127

। कृत प्राक् प्रणिहितात्* ।

1.128

। नास्त्य् अस्य प्ररोहणधर्मतेति च ।

1.129

। नाशनम् एवं धस्य लिङ्गिनः ।

1.130

। निर्मितः ।

1.131

। पण्डकः ।

1.132

। पाञ्चविध्यम् अस्य जात्या पक्षासक्तप्रादुर्भावीर्षयापत्कृत इति ।

1.133

। अन्त्यस्यात्र दोषभक्तौ नाशनं । स्तेयसंवासिकः । जानतो कृततां विधेर् उपसंपदो प्ररूढताम् वा द्वितीयायां संघे न सा[3अ2]र्धं कर्मणः प्रत्यनुभूततायां तत्वं ।

1.134

। तीर्थिकावक्रान्त[क]ः ।

1.135

। समात्तेदं प्रव्रज्यस्य तद्दृष्टेर् निक्षिप्येदं चीवरन् तेन ध्वजेन तत्रारुणोद्गमने तत्त्वं ।

1.136

। अकृते दोर्थाग् यथा स्तेयस्य ।

1.137

। मातृघातकः ।

1.138

। पितृघातकः ।

1.139

। अर्हत्घातकः ।

1.140

। संघभेदकः ।

1.141

। तथागतस्यान्तिके दुष्टचित्त रुधिरोत्पादकः ।

1.142

। भिक्षुणीदूषकः ।

1.143

। चतुर्णां [3अ3] पारजिकानाम् अन्यत् तम् आपत्तिम् आपन्नः ।

1.144

। भ्युपपतः स्याच् चेत् सामग्री पुनः प्रणिधानं ।

1.145

। अदर्शनोक्तौ मृषा चेत् प्रायश्चित्तिकं ।
हस्तछिन्नाः पादछिन्ना अङ्गुलीफणहस्तकाः ।

1.146

॥ कृद्राजभटः ।

1.147

। अननुज्ञातं राज्ञा ऽदूरदेशकं ।

1.148

। [3अ5] कृनरोध्वजवधकः ।

1.149

। न रथकारचण्डालपुक्कसतद्विधान्* प्रव्राजयेत्* ।

1.150

। निदर्शनं हस्तछिन्नादयः ।

1.151

। न जातिकायदुष्टं प्रव्रजितम् उपस्थायेत्* ।

1.152

। युज्यते नैकस्यैकोपाध्यायस्यैकेन वचसोपादनम् आत्रयात्* ।

1.153

। अभावस् तुल्यसमयानां परस्परं सामीचीकरणस्य ।

1.154

। सं<<प्रा>>प्ते प्राथम्यं ।

1.155

। न द्व्यङ्गुलाद् ऊर्धम् आरण्यकः केषान् धारयेत्* ।

1.156

। नैतद् अर्वाग्त्वात् ग्रामान्तिकः ।

1.157

। न गोलोमकान् केशां छेदयेत्* ।

1.158

। मुक्त्वा व्रण[3ब्3]सामन्तकं ।

1.159

। न चूडां का<<र>>येत्* ।

1.160

। न संबाधे प्रदेश्[ए] रोमकर्म ।

1.161

। कारयेत व्रणनिमित्तम् अरूट्टाव् अन्यथा विज्ञान्* स्थविरस्थविरान् अवलोक्य ।

1.162

। नाङ्गनाडीम् अनेतन् निमित्तं ।

1.163

। नान्यत्र काये .. क्षुरभारम् वा नखछेदं भजेत वासिमुखं वा ।

1.164

। नैषां मृष्टिं भजेत्* ।

1.165

। भजेत लेखं मलापकृष्ट्यै न चीवरेण केशश्मश्र्व् अवतारयेत्* ।

1.166

। धारयेत् के[3ब्4]शपतिग्रहणं ।

1.167

। अभावे संकक्षिकया ।

1.168

। न संस्तरे ।

1.169

न यत्र सांघिकसंमर्जनीनिपातः ।

1.170

। अवतारयेत प्रसादादौ जीर्णो ग्लानो वातातपवर्षेषु च ।

1.171

। तं प्रदेशं परिकर्मयेत्* ।

1.172

। संकीर्णे बालच्छौरणं ।

1.173

। एवं नखछेदनं ।

1.174

। नानधिष्ठिता भिक्षुण्यैषा पुरुषेणावीतरागा केशां छेदयेत् ।

1.175

। संरज्यमानाम् अधिष्ठात्री समनुशिष्यान्* [3ब्5] स्मृतिम् उपस्थापय किम् अस्मिन्* पूतिकडेवरे सारम् अस्तीति ।

1.176

। मतृसंज्ञां भगिन्या दुहितुर् वेति कल्पकं ।

1.177

। स्नानं कृते त्र कुर्वीत ।

1.178

। पञ्चाङ्गिकम् वा शौचं न नग्नः स्नायात्* ।

1.179

। न भिक्षुणी पुरुषतीर्थे न स्त्रीतीर्थे चूर्णेन ।

1.180

। कल्पते मुत्गादेगन्धपरिभावितं चूर्णं ।

1.181

। प्रतिग्रहणम् अस्य ।

1.182

। भैषज्यपरिभावितस्य च ग्लानेन ।

1.183

। न भिक्षुणी योषिति चूर्णं क्षिपेत्* ।

1.184

। ना[3ब्6]ग्रथिताधस्त्य् अपूर्वपश्चिमनिवासितान्तै निःश्रयणीम् अधिरोहेत्* ।

1.185

। नान्यदैवं स्यात्* ।

1.186

। नाप्रतिछन्नवक्त्र[या] वृतिम् भजेत ।

1.187

। धारयेत स्नात्रशाटकं ।

1.188

। आसक्तिर् द्विपुटे प्राणकानां ।

1.189

। पत्राण्य् अभावे दत्त्वो पूरतः पृष्ठतश् च प्रतिगुप्ते प्रदेशे स्नानं ।

1.190

। मोचनेन सक्तस्य प्राणिनोपगतिः ।

1.191

। उदकभ्रमे विहार एतत्* ।

1.192

। छोरणं [4अ1] । ।च द्रवस्य ।

1.193

। करणं स्नात्रशालिकायाः ।

1.194

। इष्टकास्तारस्यास्यां दानं ।

1.195

। श्यन्दनिकायाः शोचनं ।

1.196

। भ्रमे स्नाताव् अनुत्थानं ।

1.197

। नेट्टनोत्घर्षेण कायं शोधयेत्* पादाभ्याम् अन्यं ।

1.198

। निदर्शनम् ए[त]त् तीक्ष्णशौटीरयोः ।

1.199

। अग्निना शुक्तेः शोचनं ।

1.200

। न किञ्चित् केनचिद् आमुष्टि चेलवर्तेर् भिक्षुण्य् उत्घर्षेत्* ।

1.201

। नानप[4अ2]गतसंभावकोदकश् चीवराणि प्रावृण्वीत ।

1.202

। धारयेत् कायपोच्छनं ।

1.203

। अभावे मुहुर्तम् उ<<त्*>>कुटुकेन स्थित्वा स्नात्रशाटकेन पोच्छनं ।

1.204

। प्रतिसेवेत जेन्ताकं ।

1.205

। करण्डस्य करणम् उच्छर्करे साधु ।

1.206

। बहिःसंवृत्तस्यान्तर्विशालस्य समुद्राकृतेर् वाता<<य>>नस्य मोक्षो मध्ये ।

1.207

। जालवातायनकवाटिकाचक्रिकाघटिकाशूचीनाम् अत्र विनिवेशनं ।

1.208

। अजा[4अ3]पादकदण्डोपस्थापनञ् च ।

1.209

। द्वारे कवाटार्गडकटकायाम् अपट्टसमायोज(न्)नं ।

1.210

। तप्तजलस्थापनार्थम् अभ्यन्तरपार्श्वे कपोतमा<<ला>>करणं ।

1.211

। अग्निकरणस्थाने भूमाव् इष्टकास्[त्]आरदानं ।

1.212

। अनिर्वाणाय संवर्त[न]ं ।

1.213

। तदर्थम् आयसस्फिजधारणं ।

1.214

। ज्वलत्य् अग्नाव् अक्लमाय प्रवेशपरिहरणं ।

1.215

। तमिकानुत्पत्तये सक्तूनां कटुकतैल[4अ4]म्रक्षितानाग्नौ प्रक्षेपः ।

1.216

। दौर्गन्ध्यविनिवृत्तये धूपदानं ।

1.217

। चिक्कसपिण्डिकया क्षिप्रघरणे प्रविधानं ।

1.218

। आमलगपिण्डिकपाचकक्षपिण्डकोत्रासनं ।

1.219

। तृणो भूमेर् आस्तरणमात्रैर् औत्पत्तिकेनार्द्रत्वेन तेमनेन वा ।

1.220

। कण्डूयनार्थम् आय<<स>>दर्विकाकरणं ।

1.221

। छिद्रेणोपनिवर्त्य सूत्रकेनास्यास्थापनम् उपधिवारिकेण गुप्ते ।

1.222

। निर्मा[4अ5]दिततासंपत्यर्थम् अस्याम् अग्निकल्पकरणं ।

1.223

। अस्नानं तत्र ।

1.224

। शालायास् तदर्थं करणं ।

1.225

। अनाशाय स्नपयच् चीवराणाम् इष्टकावबद्धगर्तकरणं ।

1.226

। उदकभ्रमस्यास्य मोक्षः ।

1.227

। शिष्टानाम् अत्युष्णतायां जलस्यारोचनं ।

1.228

। शीतेनास्य भेदः ।

1.229

। सेकादयो पि ।

1.230

। पाषीगोमयदन्तकाष्टपरिपूर्णकर्परोपस्थापनं ।

1.231

। क्षमता चेत् पुरोभ[4अ6]क्तिकाकरणं ।

1.232

। मध्यपातेन प्रत्युपतिष्ठमानम् अज्ञातम् अत्रैत्गतो निर्ज्ञानार्थं पृच्छेत्* ।

1.233

। द्वारपालस्यैतद् अर्थं स्थापनं ।

1.234

। अप्रवेशार्थं - च भिक्षोः ।

1.235

। नाश्रद्धस्यात्र प्रवेशं दद्यात्* ।

1.236

। सार्धम् विहार्यन्तेवासिकैर् अत्र परिकर्मकरणं ।

1.237

। नवकैर् इत्य् अपरं ।

1.238

। दीपनकटाहकतैलदन्तकाष्ठगोमयस्य मृच्चूर्णपानीयाद्युपस्थापनकाष्ठप्रत्यवेक्षणोद्वर्तनस्नेहनस्ना[4ब्1]पयनसंमार्जनसंकरछोरणाद् एव ।

1.239

। तेषां परस्परेण ।

1.240

। पीठशुक्तयोश् चौक्षतां कृत्व निक्षेपो यथास्थाने ।

1.241

। सर्वत्रैष भाण्डे विधिः सर्वम् उपकरं सुगुप्तकेला[य्]इतं कुर्यात्* ।

1.242

। अल्पशब्दो त्र प्रविशेत्* ।

1.243

। प्रासादिकः ।

1.244

। सुसंवृतेर् यः ।

1.245

। संप्रजानन्* ।

1.246

। नाग्रत स्थित्वा वितपेत ।

1.247

। संगणिकावर्जनं ।

1.248

। आर्यन् तूष्णिम्भावावलम्बनं ।

1.249

। त्रिदण्डक[4ब्2]दानम् अन्ते ।

1.250

। नैकचीवरः परिकर्म कुर्यात्* ।

1.251

। नैतत् कायस्याश्रद्धेन कारयेत ।

1.252

। अनित्वरात्र पूर्वत्र च श्रद्धाभिसंहिता ।

1.253

। न सिं*हसम<<ः>> सृगालसमम् उतिष्ठेत ।

1.254

। परमो दुःशीलाप्य् आचार्योपाध्यायान् उपतिष्ठेत ।

1.255

। मातृआपितृग्लानांश् चागारिकम् अपि ।

1.256

। स्नानं संभारकस्नात्रेण ।

1.257

। वातहहमूलगण्डपत्रपुष्पफलक्वाथस्नानं तदाख्यं ।

1.258

। [4ब्3] अभ्यङ्क्यारूक्षतार्थं ।

1.259

। उपस्नानकेनापगत्यै तस्य ।

1.260

। पूर्वार्थम् अन्त्ये उदकुम्भे द्वित्रस्नेहबिन्दुदानं ।

1.261

। स्नायाद् अपोद्रोणिकायां ।

1.262

। धारयेद् एनां ग्लानः ।

1.263

। दद्याद् उपर्य् अस्याः पिधानकं ।

1.264

। ग्रीवायां चात्र गण्डोपधानिकां ।

1.265

। न यत्र क्वचन पादौ प्राक्षालयेत्* ।

1.266

। स्थनम् अस्य प्रनाडीमुखं ।

1.267

। कारयरन् पादधावनिकां ।

1.268

। उपरि विहारस्य पूर्व[4ब्4]दक्षिणे कोणे ।

1.269

। कूर्माकृतिं* खरां ।

1.270

। उपस्थापयेत् कठिल्लं मृन्मयं हस्तिपदबुध्नकार्णिकावन्तं ।

1.271

। मध्ये संनिवेष्टया कदम्बपुष्पाकारया खरया च ।

1.272

। प्रक्षाल्य स्थापनम् अवाग्मुखस्य ।

1.273

। तलकोपरि सांघिकस्य ।

1.274

। पौत्गलिकस्य लयने कवाटसन्धौ ।

1.275

। पात्रनिर्मादनादि यत्र प्रदेशे विहारे कुर्यात् तस्या मार्जनम् उदकेन प्रलेपनम् वा ।

1.276

। [4ब्5] कुन्तफलाकाकारेण मृदङ्गस्य वा ।

1.277

। गोमयेन मृदा वा ।

1.278

। न विद्यते रत्नार्थतायां प्रलिप्तेर् आकारस्य नियमः ।

1.279

। नापात्रकं प्रव्राजयेयुर् उपसम्पादयेयुर् वा ।

1.280

। नोनेनाधिकेन पाण्डुना वा ।

1.281

। त्रीणि पात्राणि जेष्ठम् मध्यं कनीयः ।

1.282

। शेषेणोर्धभागान्तानन्तराद् अङ्गुष्ठोदरात् पक्वतन्डुलप्रस्थस्योर्धं वा तद् द्वयां मागधकस्योद्वाहि ससूपसव्यञ्जनस्यैतन् न्याय्यं ।

1.283

। [4ब्6] न भिक्षुण्य् ऊर्ध भिक्षुकनीयसो धारयेत ।

1.284

। त्रपुमण्डलकस्यानयात्रा निषादे दानं ।

1.285

। बोधिवटपत्रस्य पाणितलकस्य वा ।

1.286

। परिमाणतश् च ।

1.287

। भवति सतत्वं याचितेन ।

1.288

। तद्वत् पञ्चकं ।

1.289

। न वर्षास्व् अपात्रक<<ः>> स्यात्* ।

1.290

। न जनपदचारिकां चरेत्* ।

1.291

। चरेत् सभयतायां कुपात्रकेण ।

1.292

। प्रव्राजयेद् अभावे ।

1.293

। नोत्थितः पात्रं कर्षेत् प्रक्षिपेच् छोषयेद् वा ।

1.294

। मात्रया परिभुञ्जीत्* ।

1.295

। [5अ1] । । नान्येनात्र निसर्ग प्रक्षिपेत्* ।

1.296

। नानेन संकारं छोरयेत्* ।

1.297

। न चोचं न हस्तमुख्[ओ]दकं दद्यात्* ।

1.298

। न प्रमदनधर्मणा श्रामण्[ए]रेण निर्मादयेत्* ।

1.299

। न सवालुकेन गोशकृता ।

1.300

। नात्यार्द्रं प्रतिशामयेत्* ।

1.301

। नातिशुष्क(ं)म् अध्युपेक्षेत ।

1.302

। न शिलायां स्था<<प>>येत ।

1.303

। नाशुचौ प्रदेशे ।

1.304

। न यत्र क्वचन ।

1.305

। नास्मिन् निक्षिपेत्* ।

1.306

। मालकस्यैतद् अर्थ करणं ।

1.307

। उ[5अ2]त्तिष्ठतोर् विहारपरिगणयोर् न खननेन भित्तेः ।

1.308

। चकोरकस्यारण्यकैः ।

1.309

। लतामयस्य रज्व वा ।

1.310

। लिप्त<<स्य>> गोमयमृदा ।

1.311

। सतच्चिद्विध[प्]इधानस्य ।

1.312

। लम्बनम् अस्य कान्तारिकया वृक्षे साधु ।

1.313

। न भूमौ स्थापनं ।

1.314

। नैनम् अत्यत्र नयेत्* ।

1.315

। प्रक्षिप्तं स्थविकायां नयेत्* ।

1.316

। न हस्तेन ।

1.317

। कक्षयास्य नयनमालयनकं दत्वा ।

1.318

। पृथक् स्थविकासु - पात्र-भैषज्य-[5अ3]कोलाहलानि स्थापयेत ।

1.319

। धारयेद् एनाः ।

1.320

। न तुल्यावलम्बानाम् आस्व् आलयनकानां निवेशम् उपयुंजीत ।

1.321

। अविस्तीर्णानाञ् च दुःखानिच्छुः ।

1.322

। संकोचासंपत्तये न मतदानं मध्ये ।

1.323

। स्थानायास्यान्तरान्तरे काकपादके दानं ।

1.324

। चक्षुर् इव पात्रं पालयेत्* ।

1.325

। त्वचम् इव सांघाटीं* ।

1.326

। शिष्टं च चीवरं ।

1.327

। न प्रतिसंस्करणम् उपेक्षेत ।

1.328

। अनुतिष्ठेत् पात्रबन्धनं प्रति[5अ4]गुप्तिप्रदेशे ।

1.329

। उपस्थापयेत् संघः कर्मारभाण्डिकां ।

1.330

। छिद्रस्यैतद् असाधु गुडजतुसित्थत्रपुशीसैः ।

1.331

। साधु पट्टिकाकीलिकाथिग्गलिकामगरदन्तिकाभिः ।

1.332

। चूर्णिकया लोहस्य पाषाणस्य वा ।

1.333

। तैलेन घृष्टिरासित्थसादृश्याल् लोहेन कुरुविन्देन वा ।

1.334

। उष्णे दानं ।

1.335

। अवगुण्ठ्य भूर्जेन मृदानुलिप्य पाकस्य मध्यस्य ।

1.336

। घृष्टिस् तैलेन गुडमृदमृन्म[5अ5]यस्य भुज्यमा<<न>>त्वे पाक्यत्वं मासषट्कान्ते ।

1.337

। मार्तन्* चेत् पक्षस्य ।

1.338

। वर्षाश् चेतद् विरूक्षणे म्रक्षितत्वेन कार्यान्तराले स्य संयोज्यत्वं ।

1.339

। पचनम् अस्य ।

1.340

। नैतद् आत्मना कर्तुं युक्तं ।

1.341

। कटाहकस्य तदर्थम् उपस्थापनं ।

1.342

। तत्वोत्पत्तेः ।

1.343

। कर्[प्]अरकस्य वा ।

1.344

। भस्मनः पूरयित्वा साधु भेदनं घटभेदनकेन ।

1.345

। धारणम् अस्य ।

1.346

। तेनाव[च्छा]दनम् अपलापिधूमं ।

1.347

। दत्ततुषमृत्ति[5अ6]काबहिः लेपेन ।

1.348

। पिण्याकेन गोमयेन वा लिप्ताभ्यन्तरेण उपगतशोषेण ।

1.349

। कृतपरिकर्मायां भूमाव् आस्तृततुषायाम् अवकीर्णरुचिरधूमकरकपिण्याकादिद्रव्यायां तस्याधोबिलं ।

1.350

। गोमयै.. पलालेन वावगुण्ठ्यादीपनं ।

1.351

। सुशीतलस्यापनयनं ।

1.352

। आनिष्पन्नरङ्गसंपत्तेर् आवृत्तिः ।

1.353

। निर्माद्य निर्माद्यारोपनं ।

1.354

। सामन्तकस्य प्राण[5ब्1]कानाम् अनुकम्पया सम्मार्जनं सेकश् च ।

1.355

। प्ररोहस्य परिव्यञ्जनम् अज्ञातो वर्षाग्रस्योपसंपद्यङ्गीकरणं व्याजेनास्य प्रत्यवेक्षणं ।

1.356

। उच्चनागदन्तकचीवरवङ्शस्थभावावतारणादिना ।

1.357

। नोपसंपत्प्रेक्षं वृक्षम् अधिरोहयेत ।

1.358

। न बहिःसीमां प्रेषयेत ।

1.359

। दर्शनोपविचार एनम् अवकाशने स्थापयेयुः गणाभिमुखं व्रगृहीताञ्जलिं* ।

1.360

। न गृहिणे निःश्रया[5ब्2]नारोचयेत्* ।

1.361

। नोपसंपन्नमात्राय नारोचयेत्* ।

1.362

। वस्तुकर्मोपस्थापकपरिहारेणैनं परीच्छेयुः ।

1.363

। दहरम् अप्य् अभावे वृद्धतरम् आपृच्छेत्* ।

1.364

। भावे प्य् उपनिःश्रयत्वेन ।

1.365

। नानवलोक्य तज्जातीयं परिकर्मयेत् तेन वात्मानं ।

1.366

। निर्दोषम् अभावे प्रवृत्तपर्येषनस्य निःश्रयार्हस्यानिःश्रितस्य वासे ।

1.367

। आपञ्चरात्रनिष्ठानात्* ।

1.368

। अर्हत्वञ् च लाभे ।

1.369

। [5ब्3] विश्रम्याकन्तुको द्वितीये त्रितीये वाह्नि निःश्रयं गृह्णीत्* ।

1.370

। नैकाहस्यार्थे ।

1.371

। अन्यम् असान्निध्ये निःश्रितस्यापृच्छेत्* ।

1.372

। निर्दोषम् अनापृष्टौ गतस्य कर्मादाने ऽपरतदागतौ ।

1.373

। न यस्य तस्यान्तिकात्* ।

1.374

। निर्ज्ञाय वृत्तज्ञानपरिवारानुग्राहकत्वं प्रस्नादिनास्य ग्रहणं संवरवत्* ।

1.375

। प्रपीड्योभाभ्यां पाणिभ्याम् उभौ पादतलौ ।

1.376

। परीक्षदानं ।

1.377

। [5ब्4] पुत्रपितृसंज्ञयोः निवेशनं ।

1.378

। तत्त्[ऐ]वोपाध्याय्[ए] निःश्रितत्वं तस्माद् अग्रहणम् अस्य तत्र ।

1.379

। निरपेक्षतासंपत्तिर् उभयोर् आन्तनिःश्रयध्वंसे कारणं ।

1.380

। सन्निपत्ताव् अनौपाध्यायेनाभिमतेन प्रवृत्तिः ।

1.381

। तेनैव तेन ।

1.382

। निरन्तरं दृष्ट्वोपाध्यायम् आसनं मुञ्चेत्* ।

1.383

। त्रिर् दिवसेन निःश्रितम् उपसंक्रामेत् तद्विहारस्थः ।

1.384

। अरण्यवासी क्रोशे चेत् प्रत्यहं ।

1.385

। पञ्चषैर् अहोभिः क्रोशपञ्चके ।

1.386

। [5ब्5] पोषधे र्द्वतृतीये (र्)योजन्[ए]षु ।

1.387

। न निःश्रितम् अवसादनार्ह नावसादयेत्* ।

1.388

। पञ्चावसादनाः ।

1.389

। अनालापो नववाद उपस्थानधर्मामिषैर् असंभोगः प्रारब्धकुशलपक्षसमुच्छेदो निःश्रयप्रतिप्रश्रम्भणञ् च ।

1.390

। अश्रद्धस्येतद् अर्हत्वं ।

1.391

। कुसीतस्य दुर्वचसो नादृतस्य पापमित्रस्य च ।

1.392

। अवसादितसंग्रहे न्यस्य स्थूलात्ययः ।

1.393

। अनादृतौ भिक्षोः प्रगुणीकरणा[5ब्6]य प्रयोगो भिज्ञस्य ।

1.394

। त्यक्तनिमित्तस्य क्षमणं क्षमयतः ।

1.395

। नानर्हम् अवसादयेत्* ।

1.396

। नार्हस्य न क्षमेत्* ।

1.397

। नानर्हस्य क्षमेत्* ।

1.398

। सर्वथा निष्काशनम् अकरणीयतायां लयनात्* ।

1.399

। परिश्रावणकुण्डिके दत्वा सान्तरोत्तरञ् च श्रामणेरस्य ।

1.400

। उपसंपत्प्रेक्षश् चेत् पंच परिस्कारान्* ।

1.401

। उपसम्पन्नस्य च ।

1.402

। न सिङ्हनिष्णुरो भवेत्* ।

1.403

। न विघातसंवर्तिनं [6अ1] । । क्रियाकारं कुर्वीरन्* ।

1.404

। पलिशुद्धतापर्युषितत्वम् आस्यस्य ।

1.405

। विसर्जयेत्* दन्तकाष्ठं ।

1.406

। प्रतिछन्नं ।

1.407

। उच्चारप्रस्रावक्रिया च ।

1.408

। नोपभोग्यस्यान्ते वृक्षस्य कुड्यस्य वा ।

1.409

। प्रमणम् अस्य द्वादशकाद् अङ्गुलीनां प्रभृत्याष्टकात) ।

1.410

। आचतुष्कोत्तराद् अभावे बहुश्लष्मणः ।

1.411

। नायुक्तत्वं विजनस्य लयने कठिल्लकस्योपरे ।

1.412

। नासंपत्तिर् अत्र [6अ2] गुप्तेः प्रनाडीमुखे ।

1.413

। हस्तसामन्तकस्यात्रैवंजातीयके संभाव्यर्थं* ।

1.414

। जिह्वाम् अस्यानुनिर्लिखेत्* [।]

1.415

। उपस्थापयेज् जिह्वनिर्लेखनिकां ।

1.416

। शूचीद्रव्या ।

1.417

। कल्पते त्रार्थे दन्तकाष्ठ[व्]इदलः ।

1.418

। परस्परम् अस्यातीक्ष्णतायै घृष्टिः ।

1.419

। न तीक्ष्णेन दन्तं जिह्वां कर्णञ् चोत्घृषेत्* ।

1.420

। नाशनैः ।

1.421

। अवाधयंस् तन्मासं ।

1.422

। नाप्रक्षाल्य दिग्धं मुखमलेन प्रदेशम् अ[6अ3]वगुण्ठ्य वा पांशुना दन्तजिह्वयोः यवनं छोरयेत्* ।

1.423

। नाविशब्द्य ।

1.424

। निदर्शनम् एतत्* ।

1.425

। उच्चारप्रश्रावखेटसिं*घाणकवान्तम् विरिक्तम् अ[प्]य् अन्यच् च ।

1.426

। निर्मादनस्यातो पि संपत्तिर् ऊषाडुकगोमयाद् अपि ।

1.427

। चेत्यम् अनन्तरं कायकरणीयानुष्ठानाद् वन्देत ।

1.428

। अथ निःश्रितप्रतिपत्* ।

1.429

। अतो नन्तरं काल्यम् उपसंक्रम्य वन्दनं ।

1.430

। वार्ताप्रच्छनं ।

1.431

। ऊ[6अ4]षाडुकोदकदन्तकाष्ठोपनामनं ।

1.432

। महानसम् अवलोक्यम् आरोचनं ।

1.433

। प्रियस्योपनाम्यत्वेन मनसिकरणं ।

1.434

। पात्रनिर्मादनं ।

1.435

। पिण्डपातिकश् चेद् रावकस्य च ।

1.436

। सप्रयोजनं परिश्रा<<व>>णस्यापि ।

1.437

। सो पि चेत् प्रस्नः ।

1.438

। साह्यं चेद् अभिरुचितं तेनैव सह प्रवेशः ।

1.439

। विषमादौ पुरतो गतिः ।

1.440

। प्रणीतस्य तस्मै परिणमनं ।

1.441

। असह चेद् आगत्योपदर्शनं ।

1.442

। [6अ5] वरतरस्योपनामनं ।

1.443

। मात्राज्ञो सौ सर्वत्र स्यात्* ।

1.444

। उदकस्थालकपूरणं ।

1.445

। कालार्[ओ]चनं ।

1.446

। भुक्ते पात्रादिनिर्मादनं ।

1.447

। स्थापनम् अस्य ।

1.448

। चेत्यादिवन्दनायाम् ऊषाडुकोदकाह्युपनयः ।

1.449

। पादप्रक्षालनगतानुष्ठानं ।

1.450

। शयनासनप्रज्ञपनं ।

1.451

। प्रति निवासनार्पणं ।

1.452

। निवासनग्रहणं ।

1.453

। पादौदकाधिष्ठानकठिल्लोपनामनं [6अ6] उपानपौच्चनं ।

1.454

। असम्मतम् उत्थानकारकत्वेन ग्रिहीतसम्मार्जनीकं दृष्ट्वाल्पोत्सुकं कुर्यात्* ।

1.455

। ग्रिहीतसूचिकं चासम्मतं चीवरसेवकत्वेन ।

1.456

। कल्पिकीकरणाल्पहरिततापादनपुष्पफलोच्चयदन्तकाष्ठोपसं*-हाराद्य् अपि श्रामणोद्देशे ।

1.457

। अर्ग..काकोटनेनाभ्यन्तरस्थं बोधयेत्* ।

1.458

। शनैर् एतत्* ।

1.459

। नातिवेलं ।

1.460

। नात्येनं* विद्येत्* ।

1.461

। शनैः सं[6ब्1]प्रजानन्* प्रविश्[ए]न् निष्क्रामेच् चासंघर्षयं द्वारशाखे ।

1.462

। स कुर्याद् एनं ।

1.463

। आलियेत्* ।

1.464

। न तद्विरुद्धिं* ।

1.465

। अपत्रपेतातः ।

1.466

। दक्षो स्य कृत्ये स्यात्* ।

1.467

। सत्कृत्यकारि प्रासादिकप्रस्थानः ।

1.468

। ह्रीमान् सगौरवः ।

1.469

। सप्रतीशः ।

1.470

। नीचचित्तः ।

1.471

। संप्रजान् न हापयन् स्वकार्यां ।

1.472

। किं*कुशलगवेषी ।

1.473

। विक्रिमयाम् आपद्यमानं निवारयेत्* ।

1.474

। अवृद्धौ कुशले नान्यत्र तत्(कर)करे समर्प[6ब्2]णां याचेत्* ।

1.475

। निर्ज्ञाय निःश्रयार्ते र्पयेत्* ।

1.476

। पापमित्राढारणं ।

1.477

। कुशले नियोगः ।

1.478

। तदुपसंहारः व्युत्थापनायाम् आपत्तेर् आनुलोमिकाजीवितपरिस्कारसंपत्तौ चोद्योगः ।

1.479

। सार्धन्विहार्यन्तेवासिकोपाध्यायाचार्यसमानोपाध्यायसमानाचार्यालप्तकसम्* लप्तकसंस्तुतकसंप्र्[ए]मकं ग्लानम् उपतिष्ठेत्* ।

1.480

। पूर्वक्रियाभावाद् उत्तरः ।

1.481

। पाठाचार्यस्याप्य् अत्र गृहीतता ।

1.482

। [6ब्3] सा ह्य् अशक्तौ निःश्रितं येन प्रवृत्तिः ।

1.483

। प्रव्रजितवद् अत्र प्रारब्धतल्लिङ्गः ।

1.484

। न ग्लान सब्रह्मचारिणम् अध्युपेक्षेरन्* ।

1.485

। उपस्थायकम् अस्याभावे ददीरन् नान्तात्* ।

1.486

। कल्पते भैषज्यस्य संघतः ।

1.487

। केवलस्य ग्लानस्य परिभोगः ।

1.488

। असत्व [ए]तद् उपस्थायकः समादापयेत्* ।

1.489

। असंपत्तो सांघिकं ददीरन्* ।

1.490

। अभावे बौद्धिकम् आशरीरगतात्* ।

1.491

। यानकछत्रारो[6ब्4]पणादिकारान् एनम् उदिश्य कुर्युः सांघिकात्* ।

1.492

। अभावे स्य बोधिकात ।

1.493

। देयत्वम् आ[भ्य्]आम् आत्तस्य तेनामृत्यौ सति विभवे ।

1.494

। नोपस्थायक एनं नोपतिष्ठेत्* ।

1.495

। नार्थ्याम् अस्य धर्माञ् चाज्ञां विलोमयेत्* ।

1.496

। नाध्यवसानवस्तूपयाचितो विधारयेत्* ।

1.497

। न नाववदेत्* ।

1.498

। नैनं ग्लानो तिलंघयेत्* ।

1.499

। सांघिकाद् एनम् असौ मारणाशंकायां शयनासनाद् उत्थाप्य [6ब्5] पौत्गलिके निवेशयेत ।

1.500

। अभ्यञ्जनस्नापनपूर्वकताव्याजेन ।

1.501

। यत्नवांस् तदवस्थापरिछेदे स्यात्* ।

1.502

। तत्कार्यत्वं तत्कृतसंक्लेशानां तन्मृतचीवराणां धावनस्य ।

1.503

। संघस्य तत्स्थविरसंनिपाते पूर्वगमः स्यात्* ।

1.504

। गमने विलम्बितम् उदीक्षेत ।

1.505

। ते प्य् एनं ।

1.506

। अनिर्गतञ् च दूरं गत्वा ।

1.507

। ग्रामान्ते च ।

1.508

। प्रवेशश् चेद् अत्रानुयन्तं ।

1.509

। द्रुतश् चेत्* स्याद् आगमय यावत् स्थविरागच्छ[6ब्6]तीतेनं ब्रूयुः ।

1.510

। पाण्युदकदाने च गतत्वे भ्यवहारायास्ति चेत्* कालः -

1.511

। असत्य् अत्रोपवेशे स्यासनं मुञ्चेरन्* ।

1.512

। सन्निषण्णतायां बहिश् च प्रत्यवेक्षेत्* ।

1.513

। दुःप्राव्रितत्वे दुर्निवस्ततायां वा सौष्ठवार्थम् अनयोर् निमित्तम् अस्मै कुर्वीत्* ।

1.514

। अप्रतिवेधे न[न्त]रेण कारयेत्* ।

1.515

। असंपत्तौ स्वयं नैनान्* संलापयेन् नवकान्* ।

1.516

। यत्रेषाम् विहारारण्ययोर् वृत्तिस् तत् वृत्तं ग्राहयेन् नियुञ्जी ।

1.517

। [7अ1] । । आगन्तुक प्रत्यवेक्ष्यावासिकानाम् आरोचयेच् छयनासनार्थं ।

1.518

। गमिको दिक्सार्थावासशयनासनं सहायकाब्श् च ग्लान्येन पहायित्वेन तोलयित्वा प्रक्रामेत्* ।

1.519

। सर्व पश्चात् मा कस्यचित् किञ्चित् प्रमुषितम् इत्य् अपेत्य दूरम् उत्सारयेत्* ।

1.520

। अनुद्धतानुन्नडत्वै नवकां प्रतिस्थापयेत्* ।

1.521

। कुलञ् चोपगतान्* सर्वः सर्वान्* ।

1.522

। संजानीत चार्येर्योपदेशोद्देशादिभक्तलाभग्लानसं[7अ2]विधानादिकरणीयसंपादनेनानुगृह्णीत्* ।

1.523

। वर्षोपगतो नुसंज्ञा<<प>>य विहारम् अप्रतिसंस्कुर्वतः संस्कारयेत्* ।

1.524

। संस्कुर्वतो भ्युत्सादयेत्* ।

1.525

। पर्षत्गतान् सर्वः कथैषितायाम् आनुलोमिकधर्मोपसंहारेणानुगृह्णीत्* ।

1.526

। तुष्णीं*त्वे रतान् उपेक्षेत्* ।

1.527

। गृहिण उपगतां भक्तात् संविभाजयेत्* ।

1.528

। अकरणे निष्टौ वा धर्म्याम् एभ्यः कथं कृत्वेदम् अस्माकं संविद्यत इति ब्रूयात्* ।

1.529

। पर्षदं [7अ3] तद्वान् सर्वः प्रत्यवेक्षेत ।

1.530

। मुधाचारिण[ं] निगृह्णीयात्* ।

1.531

। गमनाद्य् अत्र यथैत् कुर्यात्* ।

1.532

। अनानातिर्यक्कथस् स्यात्* ।

1.533

। न पुरः पश्चाच्छ्रमणोपगच्छेत्* ।

1.534

। न तिष्ठेत्* ।

1.535

। उक्तो ब्रूयात्* संपादयेद् वा ।

1.536

। नान्तरकथाम् अवपादयेत्* ।

1.537

। अधर्म भाषमाणं प्रतिवहेत्* ।

1.538

। धर्मम् अनुमोदेत ।

1.539

। उत्पन्नं धार्मिकं लाभं प्रतिगृह्णीत ।

1.540

। अनुद्धतः कुले स्याद् अनुन्नडा[7अ4]न् अवस्थितः ।

1.541

। उत्क्षिप्तचक्षुः ।

1.542

। धर्म्यां गृहिभ्यः कथां कुर्यात्* ।

1.543

। दानदमसंयमब्रह्मचर्यवासोपोषधशरणगमनशिक्षापदग्रहणेष्व् एनान् नियुञ्जित ।

1.544

। सर्वत्रापत्तिमुखभूते प्रस्थाने स्मृतः प्रतिपद्येत्* ।

1.545

। न नशिष्टो नुगः ।

1.546

। एहि स्वागतपूर्वप्रियालाप्यभिगते स्यात्* ।

1.547

। उत्तानमुखवर्णः स्मतपूर्वंगमो विगतभृकुटिः ।

1.548

। गृही चेत्* धर्म्याम् अस्मै कथं कुर्यात्* ।

1.549

। [7अ5] अनागच्छत्य् अत्र ग्रामान्तिकस् संरञ्जनीयं यथाशक्ति प्रवर्तयेत्* ।

1.550

। पानीयासनम् उपस्थापयेत्* ।

1.551

। संमार्गशयनासनप्रज्ञपनपानीयस्थापनचारणः भक्तनिःसर्गान् नवकः कुर्यात्* ।

1.552

। उपगच्छेद् विलोमां परिजनक्रियां न चेत् स्वपरोपघाताय ।

1.553

। अस्मै चेच् छक्तौ समुच्छिद्यैनां धर्म्याम् उत्पाद्य तया संज्ञपयेत ।

1.554

। भङ्गे प्ररोगे वा तन्निदानं परिजनस्य प्रतिसंस्क[7अ6]रणं ।

1.555

। अशक्तत्वे न्येन प्रक्रमनं ।

1.556

। न तत्प्रत्ययं विगृह्य ब्रूयात्* ।

1.557

। संघारामे पराध्यांस् तथा कुर्याद् यथा स्वयं ग्राहिकया ग्रहणं गच्छेत ।

1.558

। अगच्छन्तम् अनारोच्य सहसा कस्यचित् कुमारमित्रामत्यभट्टराजपुत्रपादमूलिकान्* ग्राहयित्वा शुद्धिकायां पर्षदि निहन्यात्* ।

1.559

। भिक्षुणी भिक्षुस्थाने सर्वस्य प्रव्रजायां ।

1.560

। उपसंपद्य् अन्यस्य तद्याचनादौ कर्मकर्तुः [7ब्1] अत्राचयस् संघः ।

1.561

। कथनं भिक्ष्ण्यन्तरितम् आन्तरायिकस्य ।

1.562

। शिक्षमाणात्वं नाम स्त्रियाम् अपरं पर्व ।

1.563

। नि(ः)श्रितायाम् एव ।

1.564

। श्रामणेरिकात्वभिक्षुणीत्वयोर् अन्तराले वर्षद्वयञ् चरणस्य कालः ।

1.565

। तदूनोपसंपत्कालाद्यादिकः प्ररोहस्य ।

1.566

। द्वादशत्वं वर्षाणाम् उपसंपद्यूढतायाम् आदिः ।

1.567

। दानाद् उत्थानं ।

1.568

। भिक्षु[7ब्2]णीसंघेन ।

1.569

। शिक्षासंवृतिर् इति दानं ।

1.570

। अनन्तरम् अस्य शिक्षोत्कीर्तनं ।

1.571

। नालब्धब्रह्मचर्योपस्थानसंवृतेर् उपसंपत्* ।

1.572

। रहोनुशासनाद् ऊर्धं तद्दानं ।

1.573

। संघेन ।

1.574

। पृष्ट्वान्तरायिकं ।

1.575

। याचितायां ।

1.576

। पञ्चत्वं चीवरेषु ।

1.577

। नि(ः)श्रयेषु विवृक्षमूलत्वं ।

1.578

। अष्टत्वं पतनीयेषु ।

1.579

। गुरुधर्मारोचनं ।

1.580

। पतनीयश्रमणकरकान्तराले ।

1.581

। कृत्*षट्के ।

1.582

। नास्त्य् अस्याः [7ब्3] प्ररोहणधर्मत्वेति च ।

1.583

। उभयव्यञ्जना ।

1.584

। संभिन्नव्यञ्जना ।

1.585

। सदाप्रश्रवणी ।

1.586

। अलोहिनी नैमित्तिकी ।

1.587

। निमित्तमात्रभूतव्यञ्जना तदाख्या ।

1.588

। पूर्वं प्रव्रजिता ।

1.589

॥ नामनुषगतिकोत्तरकोरवकयोः

1.590

संवरस्य क्षेत्रत्वं ।

1.591

। न त्रितीयस्यां परिवृत्तो व्यञ्जनस्य ।

1.592

। न प्रथमयोर् वस्तिः ।

1.593

। उत्थानं गृह्यमाणत्वे ।

1.594

। अनुपाध्याय[7ब्4]कतायां तद्वतः ।

1.595

। अनुपसंपन्नत्वे स्य ।

1.596

। न जानाने स्याभिक्षुत्वं ।

1.597

। नेनं प्रत्याचक्षणे ।

1.598

। नानयोर् नामानुत्भावने ।

1.599

। न संघस्य तद्योनेः ।

1.600

। नागारिकतीर्थिकध्वजे ।

1.601

। न नग्नकुपितपुंफालिनीषु ।

1.602

। न निमित्तविपर्ययानभ्युपेताव् उत्क्षिप्तकस्य ।

1.603

। दुस्क्रितमात्रकम् अपूर्वपर्वतायां ।

1.604

। अयाज्ञायाम् उपाध्यायस्य ।

1.605

। आन्तरायिकस्याप्रष्णे [7ब्5] प्रतिज्ञाने स्यासतो दान्[ए] ।

1.606

। न पुरुषानुकृतित्वं स्त्रिया स्त्र्यनुकृतित्वं च पुरुषस्य व्यञ्जनान्तरप्रकारः ।

1.607

। आक्षिप्तत्वम् अस्य हस्तछिन्नादिना ।

1.608

। पापलक्षणभिन्नकल्पद्वीपान्तरजय्[ओ]ः ।

1.609

। एकनख-समुद्रकलेख-पक्षहत-लिङ्गशिरो-गुल्मकेश्-आन्तर्बहिर्द्विकुब्ज-षट्सहित्-आनङ्गुलि-यक्ष्म-नकुल-किं*पिलविपरीतमिलित-सिक्य--कश्मीलिता-क्षाक्षाक्षि-शालशक्तदद्रू-विचर्चिक-पीतावदातरक्त-नाडी[7ब्6]कर्ण-कण्डूपिण्डस्थूलकच्छ्वण्डलांगुलप्रतिछन्न--मूढाजिह्वैकहस्तपादनीलकेशहस्त्यश्वश्वगोमेषमृगमत्स्याहिदीर्घबहुशीर्षतालकण्ठशूलेर्यापथछिन्नेभ्यश् चानाबाधिकानां ग्लानेन चेतरेषां ।

1.610

। .औरेण दस्योः ।

1.611

। पितृवत् पित्राशयत्वे नुज्ञायां राजा ।

1.612

। परिग्रहीत्रोर् अनुज्ञानधारणारोच[ने]षु पितृत्वं ।

1.613

। नामनुष्यगतिकयोः ।

1.614

। नात आनन्तर्योत्थानं ।

1.615

। जनकाभ्याम् एतत् परिवृत्तव्यं

1.616

[8अ1] । । नाभ्याम् अपि ।

1.617

। एतत्कृत्त्वं मातृघातकादौ तन्त्रं ।

1.618

। दूषकत्वम् अब्रह्मचर्येण स्वादयतोर् अपराजित्व्[ए] ।

1.619

। अर्हत्वं प्रव्रज्य्[ओ]पसंपदोर् उपगतौ पुंस्त्वस्य हीनायां योषिति ।

1.620

। असाधारणं पाराजयिकम् अध्याचरितवत्यां ।

1.621

। आवासिकानां स्त्र्युपसंपादने ङ्गत्वं ।

1.622

। ध्वंसो भवत्व् अस्योत्सृष्टौ ॥

मूल पाठ: Vinayasūtra · Edition: Preliminary transliteration of the ms. found in Tibet by Rahula Sankrityayana · Data entry Yoshiyasu Yonezawa et al. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc