भाषा

ENहिગુ
ग्रंथ पाठ

विनयसूत्र · अध्याय 13

13.1

॥ नाप्रासिद्धिकस्य मूलत्वं ।

13.2

। अरूढिर् अवसितप्रवारणोक्तौ प्रवारणास्थापनस्य ।

13.3

। तथा ग्लानकर्तृकतायां ।

13.4

। दूतेनापि ।

13.5

। ग्लानगतायाञ् च ।

13.6

। [57ब्6] नैतत् प्रतीच्छेयुः ।

13.7

। आगमय त्वम् आयुष्मं ग्लानस् त्वम् अप्रयोज्यम इत्य् आयुस्मं भूतेति ग्लानो साव् अननुयोज्या इति प्रतिवदेयुः ।

13.8

। अनवगतस्वरूपतायां कृतस्य कर्तुर् वा चोदनस्य ।

13.9

। शिष्टे पि नाकाले प्रवर्तेत ।

13.10

। नानुपस्थास्य स्मृतिसंप्रजन्ये ।

13.11

। नानेकान्ते ।

13.12

। नाकारितावकाशे ।

13.13

। तत्वं प्रवारणस्य ।

13.14

। अस्मृतौ स्मारणं [58अ1] ।

13.15

॥ अकरणेभ्यः वचनीयताम् अस्य कुर्यात्* ।

13.16

। सवचनीयं त्व् आयुष्मन् करोमि न त्वं यो स्मादावासादनवलोक्य प्रक्रमितव्यम् अस्ति मे आयुष्मति प्रणिहितं वचनायेति ।

13.17

। आगच्छत्य् एव दमनाथमन चोद्यतां ।

13.18

। आलपनादेर् अस्य् अनुविनिवर्तनम्* ।

13.19

। तथापि पोषधस्थापनं ।

13.20

। ततो पि प्रवारणायाः ।

13.21

। करणम् अस्यत्र स्थापकैः स्थापितस्य तेन [58अ2] सार्धम् उपसारणं ।

13.22

। कृतत्वे वकाशस्यामृदुत्वं चेत् सकीलकरणं ।

13.23

। वक्ष्याम्य् अत्रामुत्र वा वसे मुत्र वा वास्तुनि यत्र चेष्टम् इत्य् आरोप्य चामत्तिं* दर्शयित्वापराधम् उत्सृजनेन ।

13.24

। शीलदृष्ट्या चाराजीव विपत्या सर्वस्यास्य चोदनादेः क्रियायां रुढिः समूलकं ।

13.25

। न दुर्दूलेन कुर्यात्* ।

13.26

। अकरणम् अत्र वस्तुनः सत्यत्वं ।

13.27

। क्रियानिमित्तानां परसंलाप[58अ3]स्य सानुश्रावणस्येति त्रिविधं श्रुतं ।

13.28

। अमूलत्वम् अस्रद्धितस्य ।

13.29

। कामो नेकत्वे ज्ञातुश् चोदनादौ ।

13.30

। नाप्रवारणे तत्स्थावनम्* ।

13.31

। नापोषधे तस्य न कृतौ कृतत्वे वा स्त्रीत्वे स्थापकस्यै[क]तरस्य पुंस्त्वे स्थापितत्वं स्थापितता ।

13.32

। न नष्टप्रकृतिना ।

13.33

। नाशीलैक्येन ।

13.34

। नानयोः ।

मूल पाठ: Vinayasūtra · Edition: Preliminary transliteration of the ms. found in Tibet by Rahula Sankrityayana · Data entry Yoshiyasu Yonezawa et al. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc