विनयसूत्र · अध्याय 14
॥ न नानात्वाय संघस्य प्रभाविष्णुम् अका[58अ4]मं चोदयेद् उन्मोटयेद् वा चोदयत्वं ।
। न यत्र प्रतिविरोधस् तेन सार्धम् अभिनमने समासीत ।
। द्वित्रासनान्तरितम् अन्यत्र ।
। एवम् इतरस् तेन ।
। अन्तरितस्यानयोर् विहारस्य देयत्वं ग्राह्यता च ।
। धर्मे विनये चैतद्वताम् अधर्मे चेद् अभिनिवेशो ज्ञात्वा संघसामग्रीन् न विद्यते ।
। तस्मान् न तद् अन्यानां संभूय कृतौ कर्मणो रूढिन् न परस्परेणाव्यग्रत्वम्* ।
। [58अ5] कलिपरायणत्व एषा तद्विपक्षस्य चावन्द्यत्वम् इदं धर्मभिः ।
। प्रत्युत्थानासनोपनिमन्त्रणासंलपनालपनसंमोदनव्यवलोकनालोकनानाम् अप्य् अकरणं ।
। लूहशयनासनानुप्रदानं हस्तसंव्यवहारकेन ।
। वचनेनान्यत्र ससूतम् इत्य् अपरम्* ।
। प्रत्यन्ते विहारस्य ।
। मृद्धद्वा वयम् इति वदत्सु यूथम् अपि श्रमणाः शाक्यपुत्रिया स्म इत्य् आत्मानम्* [58अ6] प्रतिजानीध्वे ।
। येषां चेदं वृत्तम् इयं वार्ता कारुणिको वः शास्ता येनैतद् अनुज्ञातम् एतद् अपि वो न प्रापद्यत इति प्रतिवदेयुर् अन्यत्र ।
। न भिक्षुण्यासनमोक्षं हापयेत्* ।
। ददीतोपासकपिण्डपातम् ।
। नापि सारिताआम् एषां सामग्यस्य विना सामग्रीलाभेनोत्थापनं ।
। न विना पोषधेन प्रकृतिस्थताप्राप्तिः ।
। दत्वपिनं कुर्युः ।
। कर्मणैतत्* ।
। पूर्वं च ।
। [58ब्1] कल्पते सामग्रीमङ्गलार्थमापदि पोषधः ।
। तस्यैव चात्र कालस्य निमित्तत्वं ।
। कर्मणः कृतावधर्मवादिभिर् अन्तःसीम्नि पृथक् तद्भेदो तदचित्तेन ।
। रूढिर् अस्मिन्* प्रतिस्वं कर्मणः ।
। नास्वपक्षं प्रति ।
। धर्मवादि कृतता संघस्य कृतत्वं ।
। स्थलस्थैर् अत्र सन्नि चेद् भिक्षुणीनाम् अचोद्यत्वं ।
। व्यग्रत्वम् एषां धर्मपक्षैः ।
। ध्वन्सो नुविधौ त[58ब्2]त्त्वस्य ।
। नैनं कुर्यात्* ।
। अचोद्यत्वम्* पक्षापरपक्षव्यवस्थितस्य भिक्षुणीसंघस्य ।
। नैनः भिन्नस्य ।
। समग्र्य याचमानानां नियोज्यत्वं ।
। धर्मत्रादिनि गामित्वं वार्षिकस्य ।
। उभयसन्निपाते चाविभज्याप्रतिपातितस्य संघे वैभाज्यस्य ।
। संघपरिमाणता चेत् तत्र तेषां ।
। जनता चेतिर् एषाम् ।
। तत् तता यदीयस्योत्संघे प्रतिपादनं [58ब्3] द्वयोश् चेद् उभयत्र ।
। पुद्गलसो रांशित्वं न संघशः ।
मूल पाठ: Vinayasūtra · Edition: Preliminary transliteration of the ms. found in Tibet by Rahula Sankrityayana · Data entry Yoshiyasu Yonezawa et al. · GRETIL (Göttingen) · CC BY-NC-SA 4.0