विनयसूत्र · अध्याय 12
। पारिवासिकमानास्यचारिभ्याम् अभिवादनवन्दन-प्रत्युत्थानांजलिसामीचीकर्मणां प्रकृतिस्थाद् भिक्षोर् अस्वीकरणं ।
। यस्याभ्यामकरणम् इतरैर् अपि तत्र तद्गतस्य ।
। यद् अपरिहाणिकातो न्यथानेन सार्द्धम् अचंक्र[57अ3]मणम् ।
। नीचतरासनकत्वाद् अनिषादः ।
। पश्चाच्छ्रमणात्मकतातष्कुलानुपसंक्रमणं ।
। अकल्पनमेकछदने शय्यायाः ।
। प्रव्राजनोपसंपादननिःश्रयदानश्रमणोद्देशोपस्थापनानाम् अकरणं ।
। प्रज्ञप्तिवाचनयोश् चाप्रतीष्टः ।
। कर्मकारकभिक्षुण्यववादकसंघवैश्वासिकसम्मतेः ।
। अव्यापरण प्राक्सम्मतेनापि ।
। अनवव[57अ4]दनञ् च भिक्षुणीनाम्* ।
। अनुद्देशः पोषधे प्रातिमोक्षस्य सत्य् अन्यत्रोद्देष्टरि ।
। अचोदनं विपत्त्या भिक्षोः ।
। अनपसारितस्य संघात्* ।
। अकरणं सवचनीयतासकीलत्वयोः ।
। अस्थापनम् अववादपोषधप्रवारणाज्ञप्तिवाचनानां ।
। असंप्रयोगो नेन ।
। वर्जनं कृतदण्डनिमित्तस्य ।
। अन्यस्य चापराधस्य ।
। नापराध्यता सब्रह्मचारिषु ।
। [57अ5] व्रतस्य निःसारः प्रवर्तितो भवतीति मनसिकरणं ।
। काल्यम् उत्थाय द्वारमोक्षो दीपस्थालकोद्धरणविहारसेकसंमार्गसुकुमारिगोमयकार्ष्यानुप्रदानानि ।
। धावनं प्रस्रावोच्चारकुट्याः ।
। पोच्चन-मृतकालानुरूपपानीयोपस्थापनम्* ।
। प्रणाडिकामुखानां धावनम्* ।
। आसनं प्रज्ञपनम्* ।
। कालं ज्ञात्वा धूपतत्कटच्छुकयोर् उपस्थपनम ।
। [57अ6] प्रतिबलता वेच्छास्तुर्गुणासंकीर्तणं ।
। न चेद् भाषणकाध्येषणं ।
। उपन्वाहृते गण्डीदानम्* ।
। धर्मश् चेद् भिक्षूणां वीजनम्* ।
। अन्त्यत्वम् अस्य सर्वोपसंपन्नानाम् ।
। कृते भक्तकृत्ये शयनासनस्य छन्ने गोपनम्* ।
। पात्राधिष्ठानछोरणं* ।
। कालं ज्ञात्वा स्तूपानां संमार्जनम्* ।
। सुकुमारिगोमयकार्ष्यनुप्रदानं ।
। सामग्रीवेलायां प्र[57ब्1]ज्ञपनाद्यागुणगतात्* ।
। प्रतिबलता चेद् दिवसारोचनम्* ।
। न चेद् अन्यस्य भिक्षोर् अध्येषणं ।
। पादशोचनं भिक्षूणां चैकालिकं कालानुरूपेणाम्बुना ।
। म्रक्षणञ् चानिच्छायां स्नेहोपसंहारः ।
। विहारे ऽस्य प्रत्यन्ते र्हत्वं ।
। अर्हत्वं सर्वत्र लाभे ।
। प्रतिजाग्रियात् कुशलपक्षे ।
। तद्वद् अत्र तत्प्रभावैषीयशिक्षादत्तकौ ।
। असंघे च ।
। [57ब्3] परिच्छिन्नेषु च तदाश्रमपदोपगेभ्यः ।
। न बहुतां परिहरेत्* ।
। स स्थविरप्रातिमोक्षतायै प्रयतेत ।
। न यत्र्यान्ये त्रिःप्रभृतयः सर्वथा तदाख्यचरणास् तत्र तच्चरेत्* ।
। नान्यत्र प्रथमावरणेणानुद्गमयेनां ।
। वर्त्त्स्यत् वृत्तम् आरोचयेतां ।
। संनिपाते संघस्य ।
। प्रत्यहं न चेच् चिरं चरितव्यत्वं ।
। अत्र त्रिचतुरैः ।
। नैवानेनार्थेनावस्पण्डयेत्* ।
। [57ब्4] कलहकारकागमनञ् च श्रुत्वा भयञ् चेदतः प्रतिनि[ः]सृजेतां संघसन्निधौ पुद्गले वा ।
। अपगतौ भीतेर् आदानं तत्रैवं ।
। छेदस् तदहोरात्रस्य प्रकृतिस्थेन सार्धम् एकछदने परिवासिकमानास्यचारिणोः शय्यायां बहि[ः]सीम्नि च ।
। अनारोचने च ।
। नासन्निधौ तत्सीम्नि श्राव्याणाम् अस्योत्थानं निर्दोषं तदहरा[57ब्5]गतौ सीमान्तरे गमनम्* ।
। न परिवासिकेन सार्धम् एकछदने पारिवासिकः शयीत्* ।
। न तीर्थ्युपनिवासस्थस्य तेन सार्धम् अत्र दोषः ॥
मूल पाठ: Vinayasūtra · Edition: Preliminary transliteration of the ms. found in Tibet by Rahula Sankrityayana · Data entry Yoshiyasu Yonezawa et al. · GRETIL (Göttingen) · CC BY-NC-SA 4.0