भाषा

ENहिગુ
ग्रंथ पाठ

वीणाशिखतन्त्र · श्लोक 81-100

81

आत्मतत्त्वं न्यसेन्मूर्ध्नि विद्यातत्त्वं द्वितीयके
शिवं दद्यात् तृतीयेषु सर्वसिद्धिषु भामिनि ॥

82

अधस्ताद् आत्मतत्त्वं तु विद्यातत्त्वं तु मध्यतः
शिवतत्त्वं न्यसेन् मूर्ध्नि हस्ते देहे पुनः क्रमात् ॥

83

एवं तत्त्वत्रयं न्यस्य तथा कूटाक्षराणि तु
भूयश् चोत्तरबीजानि विन्यसेत् तु वरानने ॥

84

अस्त्रं चैव तु विन्यस्य विस्फुलिट्गसमप्रभम्
माययाच्छादयित्वा तु अट्कुशेन निरोधयेत् ॥

85

योनिमुद्रां ततो बद्ध्वा कुर्यात् [तु] सकलां तनुम्
एतद् आलभनं चैव तव देवि प्रकीर्तितम् ॥

86

अट्गुष्ठौ ग्रथितौ कृत्वा करयोर् उभयोर् अपि
तर्जनीं वामहस्ते तु प्रसार्याकुञ्चयेद् बुधः ॥

87

एषा निरोधनी प्रोक्ता मुद्रेयम् अट्कुशस्य तु
वश्याकर्षणकार्येषु प्रयोज्या साधकोत्तमैः ॥

88

तर्जनी मध्यमा चैव अनामा दक्षिणस्य तु
वामे त्रीणि समाक्रम्य अट्गुष्ठौ च सुसंस्थितौ ॥

89

अधस्तात् सर्वतः प्रोक्ता दक्षिणा तु कनिष्ठिका
तर्जन्यट्गुष्ठयोर् मध्ये योनिमुद्रा प्रकीर्तिता ॥

90

आद्यं मूर्ध्नि ततो बीजं द्वितीयं मुखमण्डले
कट्यूर्ध्वे च ततश् चान्यं चतुर्थं जानुतः कटिम् ॥

91

आपादजानुनी चान्यं प्रसृतैश् च करैः क्रमात्
एवं बीजेन देहस् तु मुच्यते नात्र संशयः ॥

92

वज्रोपलमहावर्षं चोरदंष्ट्रीभयावहम्
मुच्यते च सदा रोगैर् मृत्युरूपैर् दुरासदैः ॥

93

अहिगरविषशस्त्र ज्वरकुष्ठक्षयादिभिः
मुच्यते नात्र संदेहो यो ऽपि स्यात् पातकी नरः ॥

94

उपलिप्य शुभे देशे प्रच्छन्ने जनवर्जिते
पूर्ववद् धस्तमात्रं तु लिखित्वा मण्डलं शुभम् ॥

95

चतुःपत्त्रं तु तत्राब्जं सर्ववर्णितकर्णिकाम्
सितरक्तपीतकृष्णां पूर्वादिदलसंस्थिताम् ॥

96

जयाद्यं विन्यसेन् मन्त्री तुम्बुरुं कर्णिकोपरि
पद्मासनोपविष्टं तु वरदानोद्यतकरम् ॥

97

चतुर्वक्त्रमष्टभुजं चतुष्कायं त्रिलोचनम्
नागयज्ञोपवीतंतु शूलपाणिं गदाधरम् ॥

98

मुकुटेन विचित्रेण शशाङ्कधृतशेखरम्
शक्तीनां तु प्रियं देवं पाशाङ्कुशकरप्रभम् ॥

99

दिव्याम्बरातपत्रेण दिव्यस्रग्बन्धलेपनम्
देवदेवं सदा ध्यायेत् सूर्यकोटिसमप्रभम् ॥

100

क्षीरोदफलसंकाशां व्याघ्रयज्ञोपवीतिनीम्
प्रेतारूढां चतुर्वक्त्रां गदाखेटकधारिणीम् ॥

मूल पाठ: Vīṇāśikhatantra · Edition: T. Goudriaan, Delhi 1985. · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc