भाषा

ENहिગુ
ग्रंथ पाठ

वीणाशिखतन्त्र · श्लोक 61-80

61

तत्त्वत्रितयम् एतद् धि न्यासं च समुदाहृतम्
बिन्दुयुक्तान्य् अशेसाणि न्यस्तव्यानि यथाक्रमम् ॥

62

अत्र-सिद्धिः स्थिता देवि विज्ञेया साधकोत्तमैः
पञ्चविंशतिकोष्ठस्थं प्रथमं बीजम् उच्यते ॥

63

द्विसप्तकोष्ठकं बीजं द्वितीयं समुदाहृतम्
तृतीयम् अष्टकोष्ठस्थं बिन्दुयोनिः चतुर्थकम् ॥

64

चतुर्विंशतिकोष्ठस्थं पञ्चमं बीजम् उच्यते
बीजानि देवदेवीनां निर्णीतानि यथाक्रमम् ॥

65

कालबद्धानिलैर् बीजैः कलायथेष्ठया युतम्
अर्धेन्दु बिन्दुशिखया संनिभानि क्रमेण तु ॥

66

बीजपञ्चकम् उद्धृत्य कथितं देवि ते क्रमात्
कूटस्थास् तु स्मृता बीजाः पञ्च चैव वरानने ॥

67

बीजपञ्चकम् अभ्यस्य सर्वकामफलप्रदम्
यजनं सम्प्रवक्ष्यामि सर्वसिद्धिप्रदायकम् ॥

68

करसंस्कारम् आदौ तु कृत्वानेन क्रमेण तु
वक्ष्यमाणेन चानेन दिग्बन्धशोध्यम् एव हि ॥

69

संहारास्त्रेण दिग्बन्धः प्राणायामपुरःसरः
प्राणायामैस् त्रिभिर् देवि आत्मानं तु विशोधयेत् ॥

70

निष्क्रम्य रेचयेद् वायुं नवं चाकृष्य पूरयेत्
निरोधे कुम्भकः प्रोक्तः प्राणायामं प्रकीर्तितम् ॥

71

ध्यात्वा कालाग्निबीजं तु युगान्तानलसप्रभम्
न्यसेत् पादतले मन्त्री ज्वालामालाकुलं महत् ॥

72

निर्दहेच् चात्मदेहं तु वारिणाप्लावयेत् ततः
दग्ध्वा तु प्राकृतंदेहं भस्मकूटम् इव स्थितम् ॥

73

ततश् चामृतधाराभिर् विद्यादेहं विचिन्तयेत्
स्रवन्तं मूर्ध्नि परमं प्रणवं च अधोमुखम् ॥

74

वारुणामृतसंयुक्तं शुद्धस्फटिकनिर्मलम्
कषाख्यं यत् स्मृतं बीजं रेफद्वयसमायुतम् ॥

75

अध ओंकारसंयुक्तं ऊर्ध्वं बिन्दुकभूषितम्
अनेनैव तु बीजेन शिखया भिन्नमस्तकम् ॥

76

धारणायोगमार्गेण निर्दहेत् साधकोत्तमः
देहं संशोधयेन् मन्त्री घोरपापं तु कल्मषम् ॥

77

न्यासम् आलभनं कुर्याद् भवेन् मन्त्रात्मविग्रहः
दिग्बन्धभूमिं संशोध्य चक्रशुद्ध्यर्थम् एव च ॥

78

संहारास्त्रेण कुर्वीत विघ्नोच्चाटनम् एव च
हस्तौ संशोधयेत् पश्चाद् विधिर् एष प्रकीर्तितः ॥

79

कृत्वा तु विधिवन् मन्त्री ततः कर्म समारभेत्
आमणिबन्धनात् पूर्वं भरमाखाश् ? च विन्यसेत् ॥

80

अट्गुष्ठादिकनिष्ठान्तं न्यसेद् वै बीजपञ्चकम्
अट्गुष्ठाद् ये तु ये पर्वा करयोर् उभयोर् अपि ॥

मूल पाठ: Vīṇāśikhatantra · Edition: T. Goudriaan, Delhi 1985. · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc