वीणाशिखतन्त्र · श्लोक 101-120
दिव्याम्बरातपत्रेण हारकेयूरभूषिताम्
देवदेवीं जयां ध्यायेद् दीप्यमानां स्वतेजसा ॥
देवस्याभिमुखो मन्त्री सस्मितोत्फुल्ललोचनाम्
दाडिमीकुसुमप्रख्यां सुरगोपकसप्रभाम् ॥
चापोद्यतकरां घोरां मत्स्यमांससुराप्रियाम्
उलूके संस्थितां देवीं हारकेयूरभूषिताम् ॥
रक्ताम्बरातपत्रेण विजयां सिद्धिदां स्मरेत्
धातुचामीकरप्रख्यां पीतमाल्याम्बरप्रियाम् ॥
घण्टाखट्वाङ्गधरीं देवीम् अश्वारूढां महाबलाम्
सूर्यायुतप्रतीकाशीं सर्वाभरणभूषिताम् ॥
जयन्तीं ध्यायति क्षिप्रं सिद्धिम् आप्नोति पुष्कलाम्
भिन्नाञ्जनसमप्रख्यां शर्वरीतिमिरप्रभाम् ॥
कृष्णकौशेयसंवीतां मुक्तिकामणिभूषिताम्
दिव्यं विमानम् आरूढां गदाखेटकधारिणीम् ॥
महारावादिनिर्घोषैश् चिन्तयेद् अपराजिताम्
गायत्रीं वा जपन्तीं च स्फाटिकमणिभूषिताम् ॥
ऋग्यजुस्सामाथर्वाख्यं गायन्तीं वा तथैव च
सावित्रीं दिव्यरूपां तूपनिषद्गायने रताम् ॥
देवीनाम् अग्रसंस्थं कृतभृकुटिमुखं चिन्तयेद् अङ्कुशाख्यं सम्पृष्ठे चास्त्रराजं प्रकटितसुमहासृक्वणीलेलिहानम्
संक्रुद्धं भीषयन्तं नररुधिरवसादिग्धदान्ताकलालं ....... ....... ....... ॥
एवं ध्यात्वा विशालाक्षि ततः पूजा प्रवर्तते
भक्ष्यभोज्यविधानैश् च गन्धपुष्पादिभिः क्रमात् ॥
पूजयेत् कूटमध्यस्थं तत्र मध्ये विधानतः
भूर् एवायं पादपद्मैर् हृदि वामकरे ऽथवा ॥
मनसा पूजयेन् नित्यं सिद्धिकामः समाहितः
महाशङ्खमयं कुर्याद् अथवा कच्छपस्य तु ॥
सौवर्णं रजतं ताम्रं कुलं भवति सिद्धिदम्
गन्धमण्डलके वापि अथवा भस्ममण्डले ॥
सिद्धार्थमण्डले वापि अथवा हृदि मण्डले
कुसुम्भमण्डले वापि पुष्पमण्डलके ऽपि वा ॥
नागकेशरजोभिर् वा लिखित्वा मण्डलं शुभम्
मुक्तिदा सिद्धिदा ह्य् एवं भवन्तीत्य् अविचारणात् ॥
सम्पूज्य च यथान्यायं गन्धपुष्पादि योजयेत्
दर्शयेद् योनिमुद्रां तु काले कर्माणि कारयेत् ॥
समुत्पन्नेषु कार्येषु प्राणद्रविणहारिषु
पूजिताः साधकं देव्यः परिरक्षन्ति पुत्रवत् ॥
अत्रापि यागम् एवोक्तं विशेषः को ऽपरः प्रभो
यथा तु अभ्यासमात्रेण सिद्धिर् भवति कामदा ॥
केवलं स्मरणाद् एव तथा त्वं वक्तुम् अर्हसि
प्रणयस्व प्रसादश् च यदि चास्ति महेश्वर ॥
मूल पाठ: Vīṇāśikhatantra · Edition: T. Goudriaan, Delhi 1985. · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0