भाषा

ENहिગુ
ग्रंथ पाठ

वीणाशिखतन्त्र · श्लोक 41-60

41

ततस् तत्त्वत्रयं न्यस्य वह्नेर् एव यथाक्रमम्
निरुद्धमायातस्मात्तम् अङ्कुशेन निरोधयेत् ॥

42

माययाच्छादयेत् पश्चाद् अस्त्रेणैव प्रबोधयेत्
होमद्रव्यस्य सर्वस्य कुर्यात् तेनैव शोधनम् ॥

43

ततश् च सर्पिषो होमं विधिवत् कारयेद् बुधः
स्वबीजैर् एव तद् धुत्वा दीक्षां शिष्यस्य कारयेत् ॥

44

संयोज्य विधिवद् बीजैर् महाभूतेषु पञ्चसु
सकले तत्त्वं संयोज्य परिष्ठाप्य परे ऽध्वनि ॥

45

नियोक्तव्यं ततस् तत्र यत्रासवांस्वरपरम्?
एषा दीक्षा य थान्यायं भुक्तिमुक्तिफलप्रदा ॥

46

तैर् एव पञ्चभिस् तत्त्वं सकले सकलात्मिका
निष्कले निष्कला प्रोक्ता साधिकाराध्वनः पुरा ॥

47

दीक्षयित्वा ततः शिष्यान् साधिकारपरे स्थितान्
अभिषिच्य स्वबीजैस् तु बीजान् तेभ्यः प्रदापयेत् ॥

48

निवेद्य समयान् तस्य हृन्मुद्राङ्गुलिदर्शनात्
अनुज्ञां साधकेन्द्रस्य तस्य दद्यान् महात्मना ॥

49

ततः स्वविद्यानैवेद्यं भक्षयेत् साधकोत्तमः
देव्यः प्रीता भवन्त्य् एव अवशिष्टं जले क्षिपेत् ॥

50

आचार्यं पूजयेद् भक्त्या सर्वस्वेनापरे विधा?
प्रणामैः शक्तिदानैश् च येन वा तुष्यते गुरुः ॥

51

स्रग्वी सितोष्णीषी चैव सर्वालंकारभूषितः
उच्चासनस्थः प्राग्वक्त्रः कल्पयेत् कोषमण्डले ॥

52

गोशकृद्भस्मलिप्तस् तु शुचौ जनविवर्जिते
सुसमे भूमिदेशे तु प्रस्तारं प्रस्तरेच् छुचिः ॥

53

चतुरस्रम् अतः कृत्वा प्रस्ताररेखम् उज्ज्वलम्
कुर्याद् एकोनपञ्चाशत् कोष्ठकान् तु समान् शुभान् ॥

54

शतार्धार्धासनासीनं पञ्चवर्गान्तबिन्दुकम्
शिखासम्भिन्नमूर्धान्तं कषाख्यं मध्यकोष्ठके ॥

55

विदिग्दिक्षंस्थकोष्ठेषु तत्पार्श्वे बहिर् अष्टसु
यशवर्गान् न्यसेद् देवि ऐशान्यादिषु तत्क्रमात् ॥

56

आग्नेयादिषु कोष्ठेषु नपुंसकचतुष्टयम्
ऐशान्यादिक्रमाद् देवि बीजद्वादशकं न्यसेत् ॥

57

तृतीयपट्क्तिकोष्ठेषु चतुर्थे पञ्चविंशकम्
ऐशान्यादिषु कोष्ठेषु बीजानि क्रमशो न्यसेत् ॥

58

प्रस्तारम् एवं प्रस्तार्य स्वरवर्णं च शोभने
बीजषोडशकं चैव प्रोद्धरेत् तु यथाक्रमम् ॥

59

कादिपट्क्तिं पुराकृत्य क्रमाद् व्यस्तसमस्तकम्
कोष्ठैकादशबीजेन संयुक्तं पञ्चविंशकम् ॥

60

आत्मतत्त्वम् इति ख्यातं विद्याख्यं चतुस्त्रिंशकम्
शिवतत्त्वं तु देवेशि त्रिंशकोष्ठेषु संयुतम् ॥

मूल पाठ: Vīṇāśikhatantra · Edition: T. Goudriaan, Delhi 1985. · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc