भाषा

ENहिગુ
ग्रंथ पाठ

वीणाशिखतन्त्र · श्लोक 21-40

21

आचम्य शिष्यम् आहूय पञ्चतत्त्वपरिष्कृतम्
सावित्र्या प्रोक्षयेद् भूयस् तत्त्वजप्तं यथोदितम् ॥

22

प्रमार्जयेत्कुशाग्रेण तस्याङ्गानि समालभेत्
आलभ्यैव तु सावित्र्या क्षालयेत् सकलं क्रमात् ॥

23

यागभूमौ स्वशिष्यांस् तु स्वपेच् च कुशसंस्तरे
रक्षां सदा शतैर् बीजैः कृत्वा ध्यात्वा च ताः क्रमात् ॥

24

ततः प्रभाते विमले मुखं प्रक्षाल्य साधकः
इष्टानिष्टां गुरौ चेष्टां प्रणिपत्य निवेदयेत् ॥

25

इष्टानिष्टान् विदित्वा तु देशिकः साधकस्य तु
आदौ देशे समे भूमौ विविक्ते शल्यवर्जिते ॥

26

मण्डलं संलिखेत् प्राज्ञो यथावद् विधिपूर्वकम्
चतुर्हस्तं चतुर्द्वारम् अथवा चैकहस्तकम् ॥

27

मण्डलम् संलिखेद् दिव्यम् शालिचूर्णेन सूज्ज्वलम्
तत्र मध्ये लिखेत् पद्मं चतुःपत्त्रं सकर्णिकम् ॥

28

श्वेतासृ क्पीतकृ ष्णानि कमलस्य दलानि तु
प्राग् आरभ्य यथान्यायं सौम्येशान्तानि लेखयेत् ॥

29

कर्णिकां च तथा मध्ये शबलां देशिकोत्तमः
चतुर्मूर्तिं चतुर्वर्णं स्वेन बिजेन तुम्बुरुम् ॥

30

चतुर्वर्णम् ईश्वरं ध्यायेन् निविष्टम् कर्णिकोदरे
ततः सितां स्वबीजेन जयां प्राग्दले विन्यसेत् ॥

31

बन्धूककुसुमप्रख्यां विजयां दक्षिणे दले
स्वच्छचामीकरप्रख्याम् अजितां पश्चिमे दले ॥

32

भिन्नाञ्जनचयप्रख्याम् उत्तरे चापराजिताम्
विन्यस्य पूजां कुर्वीत स्वैः स्वैर् बीजैर् यथाक्रमम् ॥

33

पुष्पधूपैश् च बलिभिर् यथाकालान्तरैः शुभैः
सद्वितानपताकाढ्यं स्रग्मालालंकृतं पुरम् ॥

34

प्रदीप्तदीपकैर् दिक्षु समन्ताद् अवभासितम्
नानाभक्ष्यान्नपानैश् च स्वादुभिर् व्यञ्जनैस् तथा ॥

35

फलैर् नानाविधैश् चैव परितः पर्यवस्थितैः
कलशैर् वारिपूर्णैश् च दशदिक्षु व्यवस्थितैः ॥

36

चूतपल्लवसंवीतैः स्रग्मालालंकृतैः शुभैः
एवं यष्ट्वा यथान्यायं शिष्यान् आप्रोक्ष्य वारिणा ॥

37

सावित्र्या मुखम् आसाद्य वाससा सकलीकृतान्
स्वैः स्वैर् बीजैर् न्यसेत् पुष्पान् शिष्याणां करयोर् द्वयोः ॥

38

जयात् प्रवेशयेन् मायां मण्डलं देशिकोत्तमः
प्रवेश्य तत्र शिष्यं तु द्वित्रिचतुःपञ्च एव वा ॥

39

ततो ऽग्निकार्यं कुर्वीत मण्डलात् पश्चिमे बहिः
उल्लिख्योद्धृत्य सावित्र्या कुशान् संस्तीर्य सर्वतः ॥

40

अस्त्रबीजेन चाभ्युक्ष्य गन्धतोयेन देशिकः
वह्निम् आदाय तेनैव सावित्र्या पूजयेत् ततः ॥

मूल पाठ: Vīṇāśikhatantra · Edition: T. Goudriaan, Delhi 1985. · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc