भाषा

ENहिગુ
ग्रंथ पाठ

वीणाशिखतन्त्र · श्लोक 361-380

361

समयाक्षरबीजं च अक्षराक्षरयोजितम्
रक्षणीयं त्वया भद्रे प्रयत्नेन सुनिश्चलम् ॥

362

एतद् गुह्यं समाख्यातं तव स्नेहाद् विचक्षणि
एतज् ज्ञात्वा तु मन्त्रज्ञः शिवसायुज्यतां व्रजेत् ॥

363

एवं विलयतां याति विधिनानेन योषिताम्
अमलीकृतदेहस् तु विधिनानेन साधकः ॥

364

अमलीकृतं तन्मन्त्रं हृच्चक्रे विनियोजयेत्
सोममण्डलमध्यस्थं ध्यायेत् कुन्देन्दुसप्रभम् ॥

365

अमृतेन तु सिञ्चन्ति लान्तीसगतिलितेन ? तु
एवम् आप्यायितो मन्त्रः सर्वसिद्धिप्रदो भवेत् ॥

366

एवम् आप्यायनं कृत्वा बिन्दुमध्येविचक्षणः
अष्टोत्तरसहस्रं तु मन्त्राणां मन्त्रविज् जपेत् ॥

367

परमीकरणं ह्य् एतन् मन्त्रस्याप्यायनं स्मृतम्
शिवीभूतस् तु मन्त्रो वै साधयेद् अखिलं जगत् ॥

368

सूर्यचक्रनिरुद्धं तु शिरसि समवस्थितम्
जपेत् हूंकारसहितं बोधनं परिकीर्तितम् ॥

369

आदित्यचक्रमध्यस्थं वह्निना संनिरोधितम्
निर्दहते मन्त्रं देवि यदा कर्म न कुर्वति ॥

370

शिखामध्यगतं ध्यात्वा सहस्रं परिवर्तयेत्
मन्त्रम् एवं समुद्दिष्तं गुह्यशक्तिप्रदीपनम् ॥

371

दहनं चाग्निना कार्यं हूंकारेण प्रबोधयेत्
दीपनं तु शिखामध्ये मन्त्राणां मन्त्रवादिनाम् ॥

372

अमलीकुरुतेसूर्यश् चन्द्रेणाप्यायनं स्मृतम्
शिवीकुर्वीत बिन्दुस्थं मन्त्री मन्त्रं तु योगवित् ॥

373

एवं मन्त्रविशुद्धस् तु चन्द्रसूर्यसमन्वितम्
दीपनं शक्तिना नित्यं जपेन् मन्त्री समाहितः ॥

374

अमृतोद्भवकाले तु मन्त्री यत्नेन निश्चयात्
वशम् आनयते क्षिप्रं विश्वं मनत ? संशयः ॥

375

यावती माया मन्त्राणां सर्वेषां कथिता मया
विधिर् अत्र क्रमे चायं पश्चाद् वक्ष्ये जपे विधिम् ॥

376

यजनकाले सम्प्राप्ते एकचित्तः समाहितः
हृत्पद्मे कर्णिकासीन देवतार्पितमानसः ॥

377

शिखाबिन्दुं विनिर्धार्य तन्मन्त्रं हृदि संस्थितम्
पुतवर्णविधानं स्याद् अकृतोच्चारनिस्वनम् ॥

378

स्वस्थचित्तो ह्य् असम्मूढ अलाकूर्ध्वस्थितात्मनः
अविच्छिन्नं द्रुतं चैव अविलम्बितम् एव च ॥

379

तावन् मन्त्री जपेन् मन्त्रं यावच् चित्तं न खिद्यते
अलभ्य मम मन्त्रं स्याद् द्रुतं कालस्य सिध्यति ॥

380

जपं कृत्वा तु मेधावी नान्यम् एतत् समर्पयेत्
मन्त्री कुर्वीत यत्नेन यथार्थत्वं निबोधत ॥

मूल पाठ: Vīṇāśikhatantra · Edition: T. Goudriaan, Delhi 1985. · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc