भाषा

ENहिગુ
ग्रंथ पाठ

वीणाशिखतन्त्र · श्लोक 341-360

341

मानुषाणां तु का चिन्ता आकर्षणविधिं प्रति
एकादशमः संयुक्तस् तत्त्वराजेन शोभने ॥

342

शिरसा बिन्दुभिन्नेन हृदि चैष निगद्यते
सप्तविंश शिरः प्रोक्तं त्रिंशमस् तु शिखा भवेत् ॥

343

ऊनचत्वारिंशतिर् देवि तत्त्वो ऽयं कवचः स्मृतः
षोडशस्वरसंयुक्तम् एतद् अस्त्रं प्रकीर्तितम् ॥

344

नेत्रं तु कथितं देवि विंशत्यक्षरयोजितम्
एष एकाक्षरो देवि षडङ्गः समुदाहृतः ॥

345

हंसो मायायुक्तो देवि नाराचास्त्रविदर्भितः
सविसर्गनयपदं बीजान्तस्थं(?) ऊ ई सिद्धिकरी नृणाम्(?) ॥

346

ह र त्र वृद्धिं करोति .... ....
मायाङ्कुशनिरोधास् ते सर्वमन्त्रगणादयः ॥

347

क्रमशो योजयेन् मन्त्रि यदीच्छेद् दीर्घम् आत्मनि
सर्वम् एतत् परित्यज्य कुर्यान् मन्त्रपरिग्रहम् ॥

348

आत्मातीन्द्रियाधाराणां कृत्वा कर्तव्यं मुहुर् मुहुः
पदार्थविधिसंयुक्तं यन् मया गदितं पुरा ॥

349

तद् अनेन प्रयोगेण कर्तव्यं सिद्धिम् इच्छता
ध्यायेत् सिन्दूरसदृशं वश्याकर्षणकर्मणि ॥

350

मारणे कृष्णवर्णं तु विद्वेषे वामरूपकम्
उच्चाते धूम्रवर्णं तु श्वेतं चैव पुष्ट्यर्थिना ॥

351

मयूरग्रीवसदृशं स्तम्भने चिन्तयेत् सदा
सर्ववर्णधरं चैव सर्वकामिकम् एव च ॥

352

सर्वेन्द्रियाणां कुर्वीत उपहारे महाधिपे
हृत्पद्मकर्णिकोर्ध्वं तु सुषिरं तत्र चिन्तयेत् ॥

353

स्फुलिङ्गं कर्णिकारूपं निर्धूमतेजरूपिणम्
धूमज्वालाविनिर्मुक्तं सूर्यकोटिसमप्रभम् ॥

354

तस्योर्ध्वे तु शिखा सूक्ष्मा निर्मला स्फातिकोपमा
नित्यं सा सेव्यते युक्तैर् योगिभिर् निष्कला परा ॥

355

ऊर्णातन्तुसमाकारा ऊर्ध्वस्रोता निरुपमा
तत्र मध्ये गतं पश्येद् देव्या गुह्योत्तरम्भवा ॥

356

वालाग्रशतभागाख्या वीणाधारासुसंस्थिता
ध्यायेत नित्यं योगीन्द्रः सूक्ष्मगुह्यसमुद्भवाम् ॥

357

कृत्वा पूर्वं तु विन्यासं सकलाबाह्यसंस्थितम्
एवं वर्णविभागं तु ज्ञात्वा सिद्धिम् अवाप्नुयात् ॥

358

वश्याकर्षणकर्माणि वाचया स करिष्यति
वीणाशिखायाः सर्वस्वं चिन्तारत्नम् इवापरम् ॥

359

एतद् बीजवरं प्राप्य यथेप्ससि तथा कुरु
आज्ञा भगवतश् चैषा सर्वदाव्यभिचारिणी ॥

360

ध्यातव्या सा प्रयत्नेन यदीच्छेत् सिद्धिम् आत्मनः
यजनं याजनं चैव संयोगं च लयं तथा ॥

मूल पाठ: Vīṇāśikhatantra · Edition: T. Goudriaan, Delhi 1985. · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc