भाषा

ENहिગુ
ग्रंथ पाठ

वीणाशिखतन्त्र · श्लोक 381-396

381

प्रथमे वायवी प्रोक्ता द्वितीया त्व् अनला स्मृता
तृतीया चैव माहेन्द्री वारुणी तु तथापरे ॥

382

ओंकारपूर्वतो मन्त्रं नमस्कारान्तयोजितम्
बीजपिण्डं तु मध्यस्थं मुद्रायुक्तं सदा यजेत् ॥

383

क्षिप्रम् अर्थस् तथा कर्म भुक्तिभोगं सुदुर्लभम्
साधयेन् मनसा सर्वं बीजमुद्राप्रयोगतः ॥

384

हूंकारम् अदितो न्यस्तम् नमस्कारान्तव्यवस्थितम्
उच्चातयेत् सर्वदुष्तान् दैत्यभूतग्रहांस् तथा ॥

385

ओंकारयोजितस्यादौ स्वाहाकारावसानतः
अग्निकार्यप्रयोगो ऽयं क्षिप्रम् अर्थं प्रसाधयेत् ॥

386

ओंकारसम्पुतं पिण्डं रकारेण तु दीपकम्
साधयेन् मनसा ध्यात्वा कामार्थश् च यथेप्सितम् ॥

387

सुप्तं बोधयते मन्त्री शीघ्रं सिद्धिम् अवाप्नुयात्
ओंकारश् च रकारश् च फट्कारश् चैव मध्यतः ॥

388

मध्ये वर्गान्तपिण्डस् तु कर्म कुर्याद् यथेप्सितम्
हूंकारम् आदौ अन्ते च हकारश् चादिमध्यतः ॥

389

जपन् तु बोधयेन् मन्त्री अपि सुप्तम् अचेतनम्
हूंकारश् च रकारश् च फट्कारम् आदिमध्यतः ॥

390

क्रुद्धस् तु जापयेन् मन्त्री यदाकर्म न कुर्वति
ओंकारसम्पुतं कृत्वा नमस्कारान्तयोजितम् ॥

391

जपेत् पिण्डाक्षरं मन्त्री सर्वसिद्धिकरं परम्
शान्तिकपौष्तिकं कर्म शुभेषु अशुभेषु च ॥

392

क्षिप्रम् आवाहने सिद्धिर् होमबीजप्रयोगतः
होमयेत् फलबीजानि धान्यबीजतृणानि च ॥

393

पयसा वापि शुद्धेन होमकर्म ह्य् उदाहृतम्
मधुना घृतसंयुक्तं तिलं जुह्याद् विचक्षणि ॥

394

साधयेत् सर्वकर्माणि वषत्कृतं जपिष्यति
सर्वेषां गुह्यमन्त्राणां बीजमुद्रां प्रयोजयेत् ॥

395

अप्रकाश्यम् इदं गुह्यं शिववक्त्राद् विनिःसृतम्
यस् त्व् इदं ध्यायते नित्यं पूजयेन् मनसा जपेत् ॥

396

स भुङ्क्ते विपुलान् भोगान् ईशानान्तपदं लभेत् ॥

मूल पाठ: Vīṇāśikhatantra · Edition: T. Goudriaan, Delhi 1985. · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc