भाषा

ENहिગુ
ग्रंथ पाठ

वीणाशिखतन्त्र · श्लोक 321-340

321

योगिनीभिः सदा भ्रष्टाः कथ्यन्ते धर्मलोपकाः
इति तथ्यं महादेवि सुरासुरनमस्कृतम् ॥

322

सारम् एतद् धि तन्त्रस्य तस्य तत्स्थं महानये
आज्ञा भगवतश् चैव शिवस्य परमात्मनः ॥

323

श्रुतं मया महादेव वीणासद्भावम् उत्तमम्
तन्त्रं वीणाशिखं नाम दुर्लभं त्रिदशेष्व् अपि ॥

324

वर्गान्तनिर्गुणाख्यस्य अस्यापि परमं च यत्
एकाक्षरं परं गुह्यं भुक्तिमुक्तिप्रदायकम् ॥

325

गोपितं तु त्वया देव सारभूतं महेश्वर
तपसा दुर्धराल्लब्धं यच् च ज्ञानं शिवोद्भवम् ॥

326

प्रसादं कुरु देवेश यत्र सिद्धिर् ध्रुवं स्थिता
प्राप्ते कलियुगे घोरे संकते बहुपातके ॥

327

सर्वस्रोतःप्रपन्नानाम् आशु सिद्धिर् यथा नृणाम्
प्रसादं कुरु देवेश कः परम्पारते मम ॥

328

अल्पप्रज्ञाः कुमतयो बहुव्याकुलचेतसा
तन्त्रं नैवाधिगच्छन्ति न चैव बहुधा श्रुतम् ॥

329

इति देव त्वया पूर्वं कथितं गुरुणात्मना
अस्माकम् अपि संक्षेपात् कथयस्व महेश्वर ॥

330

अहो स्वभावप्रकृते किम्प्रश्नासि पुनः ऽपुनः
यन् मया कथितं पूर्वं तद् गृहाण सुभाषितम् ॥

331

न भूयः परिपृच्छामि प्रश्नम् एका गरीयसी
वारम् एकं कुरु व्यक्तं प्रसादं सूक्ष्मगोचरम् ॥

332

शृणु देवि प्रयत्नेन सूक्ष्मात् सूक्ष्मतरं महत्
प्रयोगं सर्वतन्त्राणाम् उत्तरं सर्वसिद्धये ॥

333

येन संस्मृतमात्रेण सिद्धिर् हस्ततले स्थिता
नायासो न व्रतश् चैव न तपश् च महेश्वरि ॥

334

नाग्निकर्म न चैवार्चा स्मरणात् सिद्धिदः स्मृतः
शृणुष्वैकाक्षरं देवि सद्भावपरसंहितम् ॥

335

शरीरं तत्त्वराजानं जातवेदसि संस्थितम्
शिखायां संस्थितो देवो बिन्दुदेवी जया स्मृता ॥

336

यश्चात्रोर्ध्वं भवेद् देवि सौकरः परिकीर्तितः
तन्तुदेवं विजानीयान् मकारं बिन्दुदेवताम् ॥

337

एवं तु पञ्चधा देवि तत्त्वराजं तु कीर्तितम्
चतुर्विंशतिकोष्थे तु यो मन्त्रनायकः स्मृतः ॥

338

तत्त्वराज इति ख्यात ऊनविंशत्य् अधः स्मृतः
विंशकेन स्वरेणैव बिन्दुमूर्ध्ना तु पीडितम् ॥

339

एष एकाक्षरः प्रोक्तस् त्वत्प्रियार्थं वरानने
सुषिरं तत्त्वराजानं जातवेदसि संस्थितम् ॥

340

विष्णोर् उपरि दीप्तेन जपेल् लक्षत्रयं बुधः
आकर्षयेद् द्रुमाण्य् एष मृगपक्षिसरीसृपान् ॥

मूल पाठ: Vīṇāśikhatantra · Edition: T. Goudriaan, Delhi 1985. · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc