भाषा

ENहिગુ
ग्रंथ पाठ

वीणाशिखतन्त्र · श्लोक 301-320

301

देहन्यासं पुनर् वक्ष्ये अभेद्यं परमेश्वरि
विन्यस्य करणान् साक्षान् महाभूतेषु पञ्चसु ॥

302

देहे तत्त्वत्रयं न्यस्य प्राणायामपुरःसरः
शरीरे विन्यसेद् देवि पूर्वम् उक्तक्रमेण तु ॥

303

माययाच्छादयित्वा तु अङ्कुशेन निरोधयेत्
योनिं बद्ध्वा ततः पश्चात् साधकः सुसमाहितः ॥

304

स्वदेहे नमसा मन्त्री कल्पोक्तेन तु कर्मणा
कुर्यात् सर्वाणि कार्याणि ततः सिद्धिर् न संशयः ॥

305

नयोत्तरादितन्त्रेषु कल्पोक्तं कर्म कारयेत्
अथवादशलक्षाणि जपेद् यस् तु विधानतः ॥

306

ततः सभ्रातृका देव्यः साधकस्याग्रतः स्थिताः
वरम् इष्तं प्रयच्छन्ति त्रयातीतं पदं हि यत् ॥

307

बीजपञ्चकम् एतद् धि न देयं यस्य कस्यचित्
वर्गान्तनिर्गुणाक्रान्तं सम्यग् वै बीजपञ्चकम् ॥

308

एवम् एव पुरा कृत्वा ज्ञात्वैवं हि विधानतः
बीजानि बीजयेत् प्राज्ञः ततः कर्म समारभेत् ॥

309

एवं विधानविद् यस् तु हीनो वा सर्वलक्षणैः
अपि पातकसंयुक्तः स सिद्धिफलभाग् भवेत् ॥

310

वर्गान्तनिर्गुणाख्यस्य अस्यापि परमं स्मृतम्
हृदयं देवदेवीनाम् एकाक्षरम् अतः परम् ॥

311

यत्र सभ्रातृका देव्यः कूटदेहा व्यवस्थिताः
नातः परतरो मन्त्रस् त्रिषु लोकेषु विद्यते ॥

312

गोपितव्यं प्रयत्नेन तन्त्रसारं सुदुर्लभम्
ममापि गोपितं देवि सर्वज्ञेनापि सर्वदा ॥

313

निश्चयं मम बद्ध्वान्त ? यच् च देवेन भाषितम्
त्वयापि चैवम् एवं हि रक्षणीयं प्रयत्नतः ॥

314

चिन्तारत्नम् इदं गुह्यं व्रतसाधनवर्जितम्
अनुस्मरणामात्रेण सम्यग्ज्ञाय क्रमेण तु ॥

315

वर्णयागक्रमेणैव पूर्वोक्तेन यथाक्रमम्
सिध्यते नात्र संदेहः सर्वकामस् तु मन्त्रिणाम् ॥

316

शान्तिकं पौष्तिकं चैव विद्वेषोच्चाटनं तथा
वश्याकर्षस् तथा नाशं सर्वं सिध्यति साधके ॥

317

शुक्रेण सर्वतोभद्रे महासम्मोहने तथा
निर्मथ्य कथितो देवि दध्नो घृतम् इवोद्धृतम् ॥

318

परीक्ष्य गुरुणा शिष्यं गुरुदेवाग्निपूजकम्
तस्य देयम् इदं तन्त्रं न च नास्तिकनिन्दके ॥

319

न दीक्षिता न सिध्यन्ति स्थिताः कल्पशतैर् अपि
स्वयंगृहीतमन्त्राश् च नास्तिका वेदनिन्दकाः ॥

320

समयेभ्यः परिभ्रष्तास् तथा तन्त्रविदूषकाः
गुरूणां विहेठनपरास् तन्त्रसारविलोपकाः ॥

मूल पाठ: Vīṇāśikhatantra · Edition: T. Goudriaan, Delhi 1985. · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc