वीणाशिखतन्त्र · श्लोक 281-300
सर्वलोकेषु दृश्यन्ते कामदेवसमो ऽपि तत्
विचरेत महीं कृत्स्नां नात्र कार्या विचारणा ॥
मञ्जिष्था कुन्दुरुश् चैव हरिद्रे द्वे तु पीषयेत्
पिष्त्वा पूर्वविधानेन ततो गुह्यं प्रलेपयेत् ॥
प्रवृत्ते मैथुने काले पतिर् दासं करिष्यति
मेषलोचनमूलं तु कम्बल्या क्षीरसाधितम् ॥
श्मशाने साधयेन् मन्त्री रात्रौ काष्ठैस् तदुद्भवैः
कपालैर् गुण्डयेद् अङ्गं रक्तवासोपरिच्छदम् ॥
उद्वर्तनो ऽभयो ह्य् एष वज्रवत् स्याङ्कुशोपमः
भक्षयेद् देशयेत् कंचित् कामाङ्कुशविनिर्गतः ॥
पुरुषो वशम् आयाति स्त्री वा मदनगर्विता
वाल्मीकमृत्तिकां गृह्य बलीवर्दं तु कारयेत् ॥
कन्याकर्तितसूत्रेण तस्य नासां प्रवेधयेत्
अथवा पद्मसूत्रेण रक्तचन्दनलेपितम् ॥
रक्तपुष्पैः समभ्यर्च्य सर्वार्णवं समानयेत्
साध्यस्य विलिखेन् नाम स्वरक्तेन वृषोदरे ॥
श्रीवृक्षकोतरे स्थाप्य साध्यम् एवं वशीकुरु
अनेनैव मृदा मेषं कारयेन् मन्त्रवित् सदा ॥
मेषसूत्रेण वै नासां वेधयेत् पूर्ववच् छुचिः
देवीनाम् अग्रतः स्थाप्य तस्य नासां प्रचालयेत् ॥
यं यं विज्ञापयेत् कामं तं तं प्राप्नोति साधकः
एते योगवरा देवि मया तव उदाहृताः ॥
वर्णानाम् उदरे यागं सर्वकामप्रसिद्धिदम्
एवम् एव मगर्भस्थं मारणे सम्प्रयोजयेत् ॥
गवां रोचनया लिख्य एवम् एव प्रयोजयेत्
सोदरेमूकतां कुर्याद् वागीशम् अपि मूकयेत् ॥
नित् यम् आकर्षयेत् प्रोक्तम् आकारोदरे पूजिता
महापुरुषवरस्त्रीणां जपमाना तु कीर्तनात् ॥
ज्ञानाङ्कुशगता पूजा क्षिप्रं प्रायेषु वस्तुषु
उन्मनेष्व् अथ घोरेषु साकारेण तु साधयेत् ॥
एकारोदरयागेन भवत्य् अर्थप्रदायिका
वकारमध्यगा चैव वशीकरणकर्मणि ॥
धर्मार्थमोक्षदा चैव पुष्टितेजोविवर्धनी
भवति नियता देवि हंसमध्येषु पूजितम् ॥
भञ्जने यदि सैन्यानां भकारजथरे स्थितम्
भवति नियता क्षिप्रं क्षेमनाभिगरीयसी ॥
मारणे तु प्रयोक्तव्यं फत्कारान्ते व्यवस्थिता
विद्वेषं तु प्रयच्छन्ति जकारजथरेस्थिता ॥
शत्रुकुलोच्छादं कुर्यात् हूं फत्कारान्ते व्यवस्थिता
स्वल्पप्रायेषु कार्येषु यकारजथरोदरे ॥
मूल पाठ: Vīṇāśikhatantra · Edition: T. Goudriaan, Delhi 1985. · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0