वीणाशिखतन्त्र · श्लोक 261-280
यतो नित्यं चरेद् देवः क्रमशश् च निवर्तते
तान्य् आत्मवतकर्माणि प्रयुक्तं कुरुते प्रभुः ॥
स एव कुरुते कर्म बीजनाडीप्रयोगतः
अयं कालः समाख्यातस् तृत्वेदय ? समन्वितः ॥
देहस्थम् कथितं देवि ऋतुयुक्तस् तु साधकः
ज्ञात्वा कालं च तत्त्वं तु ततः कर्म समारभेत् ॥
शान्तिकं पौष्तिकं चापि विद्वेषोच्चाटनं तथा
वश्याकर्षणकं कुर्याद् यदि कालं विजानते ॥
सौम्यानि सौम्यकाले तु रौद्रे रौद्राणि कारयेत्
अन्यकालकृतं कर्म वृथा भवति साधके ॥
तस्मात् सर्वप्रयत्नेन काले कर्माणि कारयेत्
स्वरक्तं गोचनं चैव तथा सिन्दूरम् एव च ॥
कुसुम्भरजःसम्मिश्रं दधिमध्वाज्यसंयुतम्
खदिरै रक्तसमिधैर् अथवा रक्तचन्दनैः ॥
अत्र दिग्ध्वा हुनेन् मन्त्री सप्ताहाद् वशम् आनयेत्
प्रतिमां लवणमयीं कृत्वा शताभिमन्त्रितां बुधः ॥
पादौ प्रभृति होतव्यं यावद् अष्टशतं भवेत्
त्रिसन्ध्याम् एकचित्तस् तु अमोघवश्यतां नयेत् ॥
सैक्थीं तु प्रतिमां कृत्वा त्र्यूषणेन तु लेपयेत्
प्रतिमासु सुसम्पूर्णं कण्टकैर् मदनोद्भवैः ॥
विदर्भ्य पादौ गुह्यं च ललातं च विचक्षणः
कुचयुग्मे च देवीनाम् अग्रतो निखनेत तु ॥
अधोमुखां विलिप्ताङ्गां राजिकालवणेन तु
वामनासिकरक्तेन नाममन्त्रैर् विदर्भिताम् ॥
लिखित्वा हृदये कुर्याद् वह्निं प्रज्वाल्य चोपरि
राजिकालवणं चैव होतव्याष्तशतं बुधः ॥
त्रिसन्ध्याम् एव सप्ताहात् त्रैलोक्यं वशम् आनयेत्
कुलालकरनिर्मुक्त मृदा प्रतिमयीकृता ॥
तेनैव कण्तकैर् विद्ध्वा स्वस्थानस्थैस् तु मन्त्रिणः
भगे वा अथवा लिङ्गे सन्मन्त्राण्य् अष्टशतानि तु ॥
सूत्रयेद् गुह्यदेशे तु गृणन् मन्त्रं तु सर्वदा
सप्ताहाद् आनयेद् वश्यं स्त्रियं वा पुरुषम् अपि वा ॥
मानुषास्थिमयं कीलं कृत्वा तु चतुरङ्गुलम्
क्षीरवृक्षं भगे लिख्य लिङ्गं वा कीलयेत् ततः ॥
षण्डिलस् तु भवेत् साध्य आर्द्रयोगो न संशयः
उद्धृतेन भवेन् मोक्षं नात्र कार्या विचारणा ॥
मधूका श्वेतपद्मं च रोचना नागकेशरम्
तगरं चैव सूक्ष्मेलम् अञ्जनं समभागिकम् ॥
कन्यया पिषितं कृत्वा यागं कृत्वा यथोदितम्
सहस्राष्ताधिकं जप्त्वा जपेन यजने ततः ॥
मूल पाठ: Vīṇāśikhatantra · Edition: T. Goudriaan, Delhi 1985. · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0