वीणाशिखतन्त्र · श्लोक 241-260
पादौ पायुर् उपस्थम् च हस्तौ वागिन्द्रियस् तथा
श्रोत्रत्वक्चक्षुषा जिह्वा नासिका च तथापरा ॥
पृथ्व्य् आपस् तथा तेजो वायुर् आकाशम् एव च
शब्दः स्पर्शश् च रूपं च रसो गन्धस् तथैव च ॥
मनो बुद्धिर् अहंकारो अव्यक्तम् पुरुषस् तथा
पञ्चविंशतितत्त्वानि शरीरे तु विदुर् बुधाः ॥
एभिर् आधारभूतैस् तु आधेयो ध्यायते सदा
आधारं पुरम् इत्य् उक्तं पुरुषश् चाधेय उच्यते ॥
हृत्पद्मे कर्णिकावस्थ ऊर्ध्वगामी सदात्मकः
निष्कलस्य तु देवस्य पुनर् आधारसंस्थितिः ॥
तत्पुरुषम् आधाराधेयं निष्कलं परमं शिवम्
षत्कौशिकशरीरं तु तत्त्वानां पञ्चविंशतिः ॥
दशवायुसमायुक्तं नाडीभिर् व्यापितं पुरम्
शरीरं त्रिगुणं चैव सर्वदैवतसंयुतम् ॥
अनेनाधिष्थितं देवि चक्रवत् परिवर्तते
यथा तारगणं सर्वं ग्रहनक्षत्रमण्डलम् ॥
ध्रुवाधिष्थितं तत् सर्वम् अचलं परिवर्तते
तद्वच् छरीरं देवस्य सर्वबीजगणं हि यत् ॥
शिवेनाधिष्थितं ज्ञात्वा तन्त्रे सिद्धिम् अवाप्नुयात्
त्रिकुब्जिकुतिलाकारा षष्ठस्वरसमन्विता ॥
शक्तिर् बिन्दुविनिर्भिन्ना देहस्था सकलात्मका
अस्यास् तेजःशिखा सूक्ष्मा मृणालतन्तुसंनिभा ॥
ज्योतिरूपा च सा ज्ञेया तस्यान्ते तु पुनः शिवः
अकारादिक्षकारान्तम् आब्रह्मभुवनं जगत् ॥
अस्मिंश् चोद्पद्यते सर्वं तत्रैव प्रलयं भवेत्
एष देवः परः सूक्ष्म आधाराधेयसंस्थितः ॥
अयने विषुवे चैव आग्नेयामृतकारणम्
यदा वारुणमार्गस्थ इडामध्यगतो भवेत् ॥
हिमकुन्देन्दुसंकाशो विज्ञेयः शुचिकर्मणि
द्वादशादित्यसंकाशः पिङ्गलान्तर्गतो यदा ॥
अरुणानलसंकाशं रौद्रकर्मणि योजयेत्
सुषुम्नायां यदा देव उपशान्तो वहत्य् असौ ॥
मोक्षमार्गम् इदं देवि ज्योतीरूपं परापरम्
एष देवो गतिश् चैव कालतत्त्वात्मविग्रहः ॥
साधकस्य हितार्थाय परमार्थम् उदाहृतम्
एतत्सर्वं समाख्यातं कालतत्त्वात्मविग्रहम् ॥
त्रिसंस्थे तु समासेन सर्वतन्त्रेषु सिद्धिदम्
नाडीसंस्थं यथा कर्म कुरुते मन्त्रिणः सदा ॥
तद् अहं सम्प्रवक्ष्यामि शृणु त्वं च वरानने
इडा च पिङ्गला चैव नाड्यौ द्वे समुदाहृते ॥
मूल पाठ: Vīṇāśikhatantra · Edition: T. Goudriaan, Delhi 1985. · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0