भाषा

ENहिગુ
ग्रंथ पाठ

वीणाशिखतन्त्र · श्लोक 221-240

221

वर्गातीतस्य गर्भे तु न्यसेत् पद्मं चतुर्दलम्
तत्र सभ्रातृका देव्यः पूजयेद् बीजपञ्चके ॥

222

एवं पूजितमात्रास् तु सर्वदासर्वकामदाः
भवन्ति नियतं[नित्यं] धर्मकामार्थमोक्षदाः ॥

223

यागम् एवं च कृत्वान्ते ततो लक्षत्रयं जपेत्
ततः सिद्धिम् अवाप्नोति ब्रह्मघ्नो ऽपि हि नान्यथा ॥

224

मनसा चिन्तितं कामं तदा प्रभृतिम् आप्नुयात्
अतः परं प्रवक्ष्यामि जपस्य विधिम् उत्तमम् ॥

225

एकासनस्थितो मन्त्री यागं कृत्वा विधानवित्
एकचित्तः प्रसन्नात्मा वामहस्ताक्षसूत्रधृक् ॥

226

जपकर्म सदाकुर्याद् विशेषम् अपरं शृणु
वश्यकामो जपं कुर्याद् अनुलोमैर् विदर्भितम् ॥

227

बीजैर् एतैर् यथान्यायं साध्यनामाक्षरान्वितैः
कालं तत्र विजानीयात् कालसिद्धिः प्रवर्तते ॥

228

मारणे प्रतिलोमैस् तु साध्यनाम तु पूर्वतः
विद्वेषे ऽपि विलोमैस् तु फट्कारान्तं प्रयोजयेत् ॥

229

मारणे प्रतिलोमैस् तु हूंफत्कारान्त द्यन् ? तकैः
ओं स्वाहा नमो ऽन्तैस् तु वश्याकर्षणकर्मसु ॥

230

होमयेद् एवम् एवं तु सर्वं कुर्याद् विचक्षणः
नमस्कारो जपस्यान्ते स्वाहा होमे प्रकीर्तितम् ॥

231

स्वशोणिताक्तं लशुनं मारणे प्रतिहोमयेत्
उच्चातने काकपक्षं वश्ये जातिं तु होमयेत् ॥

232

विद्वेषे श्लेष शिग्रुं च होमयेद् अविचारणात्
आकर्षणे बकुलपुष्पं होमयेच् च विचक्षणः ॥

233

सर्वे यागसमुद्दिष्ताः कालज्ञस्य यशस्विनि
येन कालं च वै ज्ञातं तेन ज्ञातः सदाशिवः ॥

234

सदाशिवे परिज्ञाते सिद्धिं शाम्यन्ति साधकाः
कालतत्त्वं च विज्ञेयं तत्त्वात्सिद्धिः प्रवर्तते ॥

235

तत्त्वहीना न सिध्यन्ति प्रयत्नेनापि साधकाः
तस्मात् सर्वप्रयत्नेन कालतत्त्वं विदुर् बुधाः ॥

236

क्रियाकालं च वै शून्यं न सिध्यन्तीह साधकाः
तस्मात् क्रियां च कालं च असंज्ञेयं प्रयत्नतः ॥

237

स कालश् च कथं ज्ञेयो यो ऽसाव् उक्तस् त्वया प्रभो
कालहीनानृतं मन्ये सर्वम् एव च शङ्कर ॥

238

शृणु देवि परं गुह्यं कालतत्त्वात्मविग्रहम्
यज् ज्ञात्वा तु सुखेनैव सिद्धिर् भवति मन्त्रिणाम् ॥

239

अयुतं द्वे च विज्ञेयाः षोडशैव शतानि च
चतुर्विंशतिसंक्रान्त्या द्वादशाङ्गुलगतागते ॥

240

शरीरे तु यथा देवि स्थितं सकलनिष्कलम्
तथा हंसं प्रवक्ष्यामि साधकानां हिताय वै ॥

मूल पाठ: Vīṇāśikhatantra · Edition: T. Goudriaan, Delhi 1985. · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc