वीणाशिखतन्त्र · श्लोक 201-220
ततः स्वकालं कुर्वीत स्वानि कर्माणि साधकः
साध्यहृत्पद्मसंस्थं तु ध्यात्वादौ बीजपञ्चकम् ॥
कुर्वीत मनसा पूजाम् इतायाप्रवतो ? पदा
माययाच्छादयेत् पश्चात् साध्यम् अन्तोबहिर्युतम् ॥
मायाकमलनालेन साध्यम् आवेष्तम् आनयेत्
ततः स्वात्मीकम् आनीय मायातत्त्वश्लथीकृतम् ॥
पुन् अस् तत् स्थापयित्वा तु सम्मुखः साधकोत्तमः
न्यस्तव्यं तु यद् आदौ तु ? साध्ये वै बीजपञ्चकम् ॥
मायावेष्तितं तन् मन्त्री जपेद् अष्टशतं ततः
साध्यनामाक्षरोपेतं तत्प्रबुद्धासने स्थितम् ॥
एवं देवि ततः शीघ्रं ध्वस्तजानुशिरोरुहः
आकृष्तो विधिनानेन साध्यः किंकरितो महान् ॥
अतः परं प्रवक्ष्यामि बद्धे रुद्धे ऽपि मोक्षणम्
यथा संहरते शक्रं तत्प्रयोगम् इदं शृणु ॥
साध्यहृत्कमलान्तःस्थं ध्यात्वैवं बीजपञ्चकम्
कुर्वीत पूर्ववत् पूजां सुषुम्नायागनिर्गदा ? ॥
संहारास्त्रं ततो मन्त्री तुम्बुरुं मूर्ध्नि विन्यसेत्
देवीनां च ततस् तेन साध्यम् आवृत्य योगवित् ॥
तत्र यो मूर्ध्नि तेनैव ज्वलितानलवर्चसा
दृष्त्वा तं मनसा भूयो मूर्च्छितं भुवि विह्वलम् ॥
हृदि बद्ध्वाङ्कुशेनैव आनयेद् आत्मनो ऽन्तिकम्
ततस् त्वधोमुखं स्थाप्य पीडितं छर्दयेद् असृक् ॥
पश्चात् तु हृदये तस्य न्यस्तव्यं बीजपञ्चकम्
प्रोद्धृत्य साध्यनामैवं संहारास्त्रविदर्भितम् ॥
एवं विगतरक्षं तु स्याप्युद्गतं तु ? ततः
जपेद् अष्टसहस्रं तु ज्वालामालाभिर् आवृतम् ॥
ततस् तु कर्मणानेन तेनैव तु विधानतः
साध्यः प्रयाति निधनं मृत्युर् आन्तिम ? कम्पयेत् ॥
इत्य् एतत् कथितं देवि समासाद्यं तु पूर्वशः
यथा संहरते शक्रं बद्धे रुद्धे ऽथ मोक्षणात् ॥
क्रोधेन महता दीप्तः प्रयोगम् इदम् आरभेत्
सुषुम्नायां यदा देवः स्वयंचारेण वर्तते ॥
सुषुम्नान्तर्गतं ध्यात्वा रक्तवर्णं विचिन्तयेत्
विद्वेषोच्चाटनादीनि ततः कर्माणि कारयेत् ॥
बीजपञ्चकदेवस्य वर्गान्तरयुतस्य च
वर्णान्तयागम् एकान्ते सदा गोपितं तन् मया ॥
तदा तु सर्वकार्याणां सिद्धये शृणु सुव्रते
कुसुम्भरजसालोड्यं शालीनां पिष्टकेन च ॥
भस्मना चन्दनेनापि नागकेशरजेन वा
सुगन्धैश् च विचित्रैश् च लिखेच् च सुसमाहितः ॥
मूल पाठ: Vīṇāśikhatantra · Edition: T. Goudriaan, Delhi 1985. · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0