भाषा

ENहिગુ
ग्रंथ पाठ

वीणाशिखतन्त्र · श्लोक 1-20

1

कैलासशिखरे रम्ये नानारत्नोपशोभिते
नानाद्रुमलताकीर्णे सिद्धचारणसेविते ॥

2

तत्र देवः सुरश्रेष्ठः क्रीडते उमया सह
स्तूयमानो महासिद्धैर् महाकालादिभिर् गणैः ॥

3

ऋषिभिश् च महाभागैर् भृग्वाद्यैः सुरसत्तमैः
तेषां मध्ये समुत्थाय देवी वचनम् अब्रवीत् ॥

4

श्रुतं सम्मोहनं तन्त्रं तथा नयोत्तरं महत्
शिरश्छेदं च देवेश त्वत्प्रसादात् सुदुर्लभम् ॥

5

व्रतसाध्यानि चैतानि यागसाध्यानि वै पुनः
अन्यसारा यतो लोके प्रायो द्रविणवर्जिताः ॥

6

एभ्यो ऽपि चोत्तरं यस्मात् केवलं ज्ञानसिद्धिदम्
सर्वकामप्रदं देव यथावद् बीजपञ्चकं ॥

7

उत्तरं हृदयं ह्य् एषां भक्ताय दातुम् अर्हसि ॥

8

यन् न कस्यचिद् आख्यातं शुक्रादीनां च योगिनाम्
सुभक्तस्य विनीतस्य गोपितं वै गुहस्य च ॥

9

चतुःषष्टिः समाख्याताः शिष्यास् तन्त्रेषु ये मया
तेषाम् अपि न चाख्यातं ब्रह्मविष्णुपुरःसरैः ॥

10

तद् अहं सम्प्रवक्ष्यामि चिन्तारत्नम् इवापरम्
तन्त्रं वीणाशिखं नाम निर्व्याजेनाशुसिद्धिदम् ॥

11

देवीतुम्बुरुसंयुक्तं वीणाधारसुसंस्थितम्
शिखायोगेन इष्यन्ते तेन वीणाशिखा स्मृता ॥

12

यागम् आदौ प्रवक्ष्यामि तन्त्रसारं सुदुर्लभम्
तेनैव वरदा देव्यो नित्यं देवि भवन्ति हि ॥

13

गृहयागम् इदं देवि यो जानातीह साधकः
व्रतहोमाद् ऋते चास्मिन् सुसिद्धिं लभते परम् ॥

14

शिष्याणाम् आदितः कुर्याद् यागं कृत्वा परिग्रहम्
नान्यथा दर्शयेत् तन्त्रं न चासौ सिद्धिम् आप्नुयात् ॥

15

चतुर्थ्याम् अथ पञ्चम्यां नवम्याम् एकादशीषु च
ग्रहणे वापि कर्तव्या सर्वदा चार्कसोमयोः ॥

16

चतुर्थ्यां यजनं श्रेष्ठं सौभाग्यकरणं महत्
श्रीकामो यजनं कुर्यात् पञ्चम्यां सुसमाहितः ॥

17

संग्रामे विजयार्थी वा परराष्ट्रविमर्दनम्
नवम्यां पार्थिवं यागं कुर्वीत भगिनीप्रियम् ॥

18

एकादश्यां यजेद् यस् तु शिवलोके महीयते
सुगुप्ते निर्जने देशे सरिद्वापीतटे ऽपि वा ॥

19

कृत्वादौ भूमिसंशुद्धिं सावित्र्या देशिकोत्तमः
कृत्वा पूजां प्रकुर्वीत शिष्याणाम् अधिवासनम् ॥

20

चरुकं साधने पश्चात् सावित्र्या दापयेद् बुधः
शिष्याणां दन्तकाष्ठं च सक्षीरंद्वादशाङ्गुलम् ॥

मूल पाठ: Vīṇāśikhatantra · Edition: T. Goudriaan, Delhi 1985. · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc