भाषा

ENहिગુ
ग्रंथ पाठ

वीणाशिखतन्त्र · श्लोक 181-200

181

गवां रोचनया चैव यस्य नाम विदर्भितम्
बीजैर् एतैः समायुक्तैर् आलिख्य प्रक्षिपेद् बुधः ॥

182

पात्रं मध्वाज्यसम्पूर्णं शतम् आवर्तयेद् द्रुतम्
मुमुक्षोर् अपि तस्यास्त्रं शान्तिपुष्टिश् च जायते ॥

183

शतजप्तो जलेनापि ततो वा मुच्यते सदा
व्याधिघातसमिद्भिस् तु व्याधिनात्यन्तपीडितः ॥

184

अष्टोत्तरशतेनैव आहुतीनां न संशयः
क्षीराक्तेन तु देवेशि रोगी रोगाद् विमुच्यते ॥

185

जुहोति यस् तु सततं द्रव्यं तस्य गृहे तु यत्
कुर्वन्तो ऽपि व्ययं नित्यम् अक्षयत्वं च गच्छति ॥

186

नित्यं कालजपेनापि सर्वेषां जायते प्रियः
तेजस्वी बलसम्पन्नो नाप्य् असौ पीड्यते भयैः ॥

187

श्रीकामः श्रीफलं जुह्यात् पद्मं चाज्यमधुप्लुतम्
लक्षैकेन महावित्तो मन्त्री लक्षद्वयेन तु ॥

188

लक्षत्रयेण पृथ्वीशो निर्जितारिर् भवेद् ध्रुवम्
सर्वकामस् तिलं जुह्यात् प्राप्नुयात् तु न संशयः ॥

189

लक्षेणैकेन देवेशि साधकः स जितेन्द्रियः
त्यक्तेन नरमांसेन छागस्य पिशितेन वा ॥

190

लक्षमात्रहुतेनाशु यद् इष्टं तद् अवाप्नुयात्
कृष्णागोपयसा सार्धं नृमांसं तण्डुलान्वितम् ॥

191

पायसं शववक्त्रे तु जुहुयात् तावतन्द्रितः
यावद् उत्तिष्थते प्रेतः किं करोमीति सो ऽब्रवीत् ॥

192

मार्गितव्यं यद् इष्तं तु लभनीयं यशस्विनि
गुडिकाञ्जनपादुकं खन्यं वा राज्यम् एव च ॥

193

विधानं शक्रनाशं च पादलेपरसायनम्
एतेषां प्रार्थितं चैकं दत्त्वागच्छति नान्यथा ॥

194

उद्धता या मृता योषित् तस्या गृह्याङ्गुलीयकम्
अभिमन्त्र्य इमैर् बीजैर् अनुलोमैः शतेन तु ॥

195

अष्ताधिकेन मन्त्रज्ञः साध्यनाम विदर्भयेत्
यस्या ददाति तद्वद् आस्ते स्त्रियायाः साधकोत्तमः ॥

196

आकर्ष्यति तां क्षिप्रं यदि स्याद् उर्वशीसमा
योजनानां शतस्यापि दूरेणापि समर्पितम् ॥

197

पुरुषस्य भवेद् देवि उद्धतस्य यशस्विनि
काकमांसं गृहीत्वा तु निम्बतैलसमायुतम् ॥

198

श्मशानाग्निं समाधाय शिग्रुकाष्ठेन साधयेत्
जुहुयात् सप्तरात्रं तु यस्य नाम्ना तु साधकः ॥

199

विद्विष्तो दृश्यते लोके एष विद्वेषणं परम्
अतो ऽन्यत् सम्प्रवक्ष्यामि रहस्यम् इदम् अद्भुतम् ॥

200

यद् विदित्वा महेशानि सिद्धिम् आप्नोति पुष्कलाम्
स्वकाले सम्प्रयोगेण सिद्धिस् तन्त्रेषु कीर्तिता ॥

मूल पाठ: Vīṇāśikhatantra · Edition: T. Goudriaan, Delhi 1985. · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc