वीणाशिखतन्त्र · श्लोक 161-180
अङ्कुशेन हतो मूर्ध्नि मायापाशेन वेष्टितम्
राजानं राजपत्नीं वा सप्ताहाद् वशम् आनयेत् ॥
गृहीत्वा तु महामांसं दधिमध्वाज्यसंयुतम्
आहुत्यष्टसहस्रेण सद्योत्कर्षणम् उत्तमम् ॥
आत्मनः साध्यबीजं च पञ्चदेव्या चतुष्टयम्
नाडीमध्यगतं ध्यात्वा एकीकृत्य विचक्षणः ॥
नाडीमार्गानुसारेण प्रवेश्य साध्यविग्रहम्
अनेनैव प्रयोगेण त्रैलोक्यं वशम् आनयेत् ॥
अत उच्चाटनं कुर्याच् छत्रूणां बलदर्पिताम्
शुष्काणि निम्बपत्त्राणि ध्वजाग्राणि तथैव च ॥
नृवालं चितिभस्मं च काकपक्षाग्रपिच्छकम्
कटुतैलविषं रक्तं तेनालोड्य तु होमयेत् ॥
चण्डालाग्निं समाहृत्य चितिकाष्ठं समिन्धयेत्
उच्चाटयेत् त्रिरात्रेण त्यक्तबन्धुसुहृज्जनान् ॥
वामहस्ततले चन्द्रं ध्यात्वा सम्पूर्णमण्डलम्
बीजपञ्चकसंयुक्तं यस्य तं दर्शयेत् करम् ॥
दर्शनाद् वशम् आयान्ति ये ऽपि हन्तुं समुद्यताः
यं यं स्पृशति हस्तेन दासत्वम् उपगच्छति ॥
दक्षिणे ऽप्य् एव वै हस्ते विन्यसेद् रविमण्डलम्
यं स्पृशेद् दर्शयेद् यं तु विद्विष्टाः सुहृदान्य् अपि ॥
निम्बस्थवायसं गृह्य श्वपाकेनावतारितम्
बीजैर् एतैर् विपर्यस्तैस् तैलाभ्यक्तं चिताहुतम् ॥
तद् भस्म विषरक्ताक्तं कृष्णान्ते रक्तवाससः
परिजप्य सहस्रं तु विलोमैर् बीजपञ्चकैः ॥
यं स्पृशेद् भस्मना तेन काकवद् भ्रमते महीम्
विद्विष्टः सर्वलोकानां यदि शक्रसमो भवेत् ॥
यथात्मनि तथा साध्ये बीजषोडशकं न्यसेत्
जवापुष्पसमप्रख्यौ द्वाव् एतौ परिचिन्तयेत् ॥
जातीहिङ्गुलकपक्षौ लाक्षारससमप्रभौ
पद्मसम्पुटमध्यस्थौ उभौ तौ साध्यसाधकौ ॥
अङ्कुशं साध्यगुह्ये तु दण्डं चात्मनि गुह्यतः
कुसुम्भरक्तसंकाशौ मायातन्त्वभिवेष्टितौ ॥
पञ्चरात्रं त्रिरात्रं वा निःशब्दो ध्यानपारगः
वशम् आनयते क्षिप्रं नृपतिं मानगर्वितम् ॥
द्विजयोषिन् मृता या तु तस्या गृह्यं तु कर्पटम्
कृष्णचतुर्दश्यां गृहीत्वा चित्यङ्गारैस् तदुद्भवैः ॥
बीजैर् विदर्भितं नाम यस्य यस्य च वेश्मनि
निखन्यते स वै क्षिप्रं प्रयाति यमसादनम् ॥
ततो विद्याव्रतश्लाघी कीर्त्यादिभिर् अलंकृतः
साध्यते ऽनेन प्रयोगेण म्रियते चाविकल्पतः ॥
मूल पाठ: Vīṇāśikhatantra · Edition: T. Goudriaan, Delhi 1985. · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0