भाषा

ENहिગુ
ग्रंथ पाठ

वीणाशिखतन्त्र · श्लोक 141-160

141

नाभिदेशे स्थितो ग्रन्थिस् तत्र पद्मं व्यवस्थितम्
कर्णिका पद्ममध्यस्य तत्र साध्यं व्यवस्थितम् ॥

142

कर्णिकासुषिरान्ते तु या कला चोर्ध्वगामिनी
तस्या मध्ये स्थितो देवः स तु दीपशिखोपमः ॥

143

शुद्धस्फटिकसंकाशं विस्फुलिङ्गार्कसंनिभम्
वारिमारुतसंकीर्णं वालाग्रशतभागकम् ॥

144

वायुवाहनम् आरूढं शब्दातीतम् अनामयम्
सम्प्रत्ययं तु गम्यो ऽसौ वहते देहमध्यतः ॥

145

इडामध्यगतो वापि पिङ्गलान्तर्गतो ऽपि वा
सुषुम्नान्तर्गतश् चैव विषुवं समुदाहृतम् ॥

146

इडा तु वामजा प्रोक्ता दक्षिणे पिङ्गला स्मृता
अनयोर् मध्ये सुषुम्ना तु सृष्टिसंहारकारिका ॥

147

इडा शान्तिकपुष्ट्यर्थे मृत्यूच्चाटन पिङ्गला
सुषुम्ना मोक्षदा चैव जीवमार्गानुसारिणी ॥

148

पिङ्गलान्तर्गतं ध्यात्वा रक्तवर्णं विचिन्तयेत्
मारणोच्चाटनादीनि ततः कर्माणि कारयेत् ॥

149

अमृतान्तर्गतं ज्ञात्वा ध्यायेत् तुहिनसंनिभम्
शान्तिपुष्टिवशाकर्षं तदा कर्माणि कारयेत् ॥

150

व्रतयोगादिसंसिद्धिं मूलमन्त्रेषु कारयेत्
तद् अत्र जपमात्रेण मन्त्री साधयते क्षणात् ॥

151

अप्रसूता मृता योषित् प्राप्तयौवनम् एव च
तस्याः पांशुलिकां गृह्य वामभागे विचक्षणः ॥

152

लिखेन् नामाक्षरं तत्र देवीनाम् कूटसंस्थितम्
वामाङ्गोज्ज्वलरक्तेन साधकः संयतव्रतः ॥

153

स्त्रियं चैव लिखेत् तत्र गवां रोचनया पुनः
अनुलोमैर् विहन्यस् तु वामपादेन चाक्रमेत् ॥

154

तत्क्षणाद् आनयेच् छीघ्रं या स्त्री द्वादशयोजनात्
पुरुषस्य तथा प्रोक्तं दक्षिणाङ्गे तु कारयेत् ॥

155

अथाभिचारकं कुर्यात् समिधानां तथास्थिभिः
राजिकाविषरक्ताक्तं श्मशाने होमम् आरभेत् ॥

156

नग्नो मुक्तशिखो भूत्वा कपालत्रयसंस्थितः
समिधाष्टशतं होमं रात्रौ कुर्याद् विचक्षणः ॥

157

होमान्ते तु ततः शक्रं कृष्णवर्णम् विचिन्तयेत्
त्रिशूलेन विनिर्भिन्नं दण्डेन ताडितं शिरः ॥

158

साधको घोररूपेण क्रुद्धः संरक्तलोचनः
सप्ताहान् नाशयेद् इन्द्रं किं पुनर् मानुषादिकम् ॥

159

त्यक्तेन तु कुसुम्भेन शतेनाष्टोत्तरेण तु
त्रिसन्ध्यं धारयेद् रात्रौ अग्निकार्यं तु कारयेत् ॥

160

साध्यं तु साधकश् चैव रक्तवर्णं विचिन्तयेत्
होमान्ते तु ध्यायेत् साध्यं विह्वलं च सम्मूर्छितम् ॥

मूल पाठ: Vīṇāśikhatantra · Edition: T. Goudriaan, Delhi 1985. · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc