भाषा

ENहिગુ
ग्रंथ पाठ

वीणाशिखतन्त्र · श्लोक 121-140

121

शृणुष्वैकमना भद्रे प्राकृतं तपसः फलम्
प्रणयाद् अतुलं वापि रहस्यं परमं पदम् ॥

122

उत्तरोत्तरयोगेन तन्त्रं ते कथितं मया
अत्रान्तरम् इदं ज्ञानं श्रुत्वा भवति निर्वृतिः ॥

123

प्रस्तार्य पूर्ववद् वर्णं प्रोद्धरेद् बीजपञ्चकम्
पूर्ववत् क्रमयोगेन सर्वकामप्रसिद्धये ॥

124

आदौ द्वात्रिंशकं बीजं युक्तम् एकोनविंशति
चतुस्त्रिंशं ततो ऽधस्ताद् देवदेवं प्रकल्पयेत् ॥

125

जया सप्तदशं बीजं युक्तम् एकादशेन तु
तद् एव विजयाख्याता किं तु युक्तं न केन चित् ॥

126

पञ्चविंशच् छिखाभाजि युक्तम् एकादशेन तु
अजितायाः समुद्दिष्टं चतुर्थ्याः शृणु साम्प्रतम् ॥

127

वर्णैकादशसंयुक्तं शम्भुस्थं पञ्चविंशकम्
गुह्यम् एतत् समुद्दिष्टं प्रष्टव्यं नान्यतः परम् ॥

128

सर्वकामप्रदं देवि एतद् वै बीजपञ्चकम्
उत्तरं हृदयं ह्येतत् सर्वतन्त्रेषु चोत्तरम् ॥

129

यानि कानि च कर्माणि सर्वाण्य् एतैस् तु कारयेत्
पञ्चविंशतिकोषस्थं युक्तं वै षोडशेन तु ॥

130

अस्त्रम् एतत् समुद्दिष्टम् अस्मिंस् तन्त्रे च सुव्रते
पुनर् एतद्बीजयुक्तं विंशकेन समन्वितम् ॥

131

माया ह्य् एषा समुद्दिष्टा शिवस्यानन्तरूपिणी
आदिकोष्ठकबीजं तु अधस्ताष्टादशसंयुतम् ॥

132

अष्टत्रिंशतिकोषस्थं तस्योपरि नियोजयेत्
अङ्कुशोद्धरणं ह्य् एतद् देवीनां संनिरोधने ॥

133

बिन्दुपुञ्जसमेता हि न्यस्तव्या तु यथाक्रमम्
पञ्चविंशतिकोषस्थं तद् एव परमाक्षरम् ॥

134

नवत्रिंशसमायुक्तं बीजं गायत्रिसंज्ञकम्
एतद् बीजवरं दिव्यं योज्यम् आलभनादिके ॥

135

चतुस्त्रिंशतिकोषस्थं पञ्चविंशतियोजितम्
सर्वकर्मसमुद्दिष्टं बीजं सावित्रिसंज्ञितम् ॥

136

अर्धेन्दुशिखया देवि लाञ्छितानि तु पूर्ववत्
प्रयोगं चास्य वक्ष्यामि सिद्धिर् येनाशु जायते ॥

137

प्रयोगं कारणं देवि ग्रन्थशास्त्रम् अकारणम्
सर्वत्र सुलभं शास्त्रं प्रयोगं तु सुदुर्लभम् ॥

138

प्रयोगरहिता मन्त्रा नैव सिद्धिप्रदाः स्मृताः
हृत्पद्मे योगविन्यासं ध्यात्वा वै बीजपञ्चकम्
गतिं देवं तु विज्ञाय ततः कर्म समारभेत् ॥

139

कीदृशः स भवेद् देवो गतिस् तस्य तु कीदृशी
देहस्थं तु कथं विद्याद् वक्तुम् अर्हसि शङ्कर ॥

140

मेढ्रनाभ्यन्तरे देवि कन्दमूलाकृतिर् भवेत्
द्वासप्ततिसहस्राणि नाडीर् आधारसंस्थिताः ॥

मूल पाठ: Vīṇāśikhatantra · Edition: T. Goudriaan, Delhi 1985. · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc