भाषा

ENहिગુ
ग्रंथ पाठ

वातूलनाथसूत्र (टीका सहित) · श्लोक p17915-p27583

p17915

आदौ तावद् वाक्चतुष्टयं निर्णीयते । निरावरणनिरवकाशोदयनिरुत्तरनिस्तरङ्गपरमनभस्य् उच्छलत्किम्चिच्चलनात्मकप्रथमस्पन्दविकासस्वभावा वर्णरचनां मायूराण्डरसन्यायेनाद्वयमहासामरस्यतयान्तोधारयन्ती परेति प्रथिता । सैव चानाहतनादस्वरूपताम् अवाप्ता निर्विभागधर्मिणी समस्तवर्णोदयं वटधानिकावद् अन्तोधारयन्ती द्रष्टृस्वभावा पश्यन्तीति व्यपदेश्या । सैव च संकल्पविकल्पनिवहनिश्चयात्मबुद्धिभूमिं स्वीकृतवती वर्णपुञ्जं शिम्बिकाफलन्यायेनान्तोधारयन्ती मध्यमेत्यभिहिता । सैव हृत्कण्ठताल्वादिस्थानकरणक्रमेणाहता सती वर्णविभवमयश्लोकादिवद् भेदरूपं प्रकटयन्ती रूपादिसमस्तविश्वप्रथां च व्यक्तताम् आपादयन्ती वैखरीत्य् उक्ता । इत्थं निरवकाशात् संवित्पदात्
वाक्चतुष्टयम् अविरतम् अनिरोधतया प्रथते । एवम् ईदृक्स्वभाववाक्चतुष्टयस्योदयश् च विरामश् च तावद् उदयविरामौ सृष्टिसंहारौ, तयोर् प्रथा व्यक्ताव्यक्ततया सदैवाविरतम् उल्लसन्त्यः स्फुरन्त्यः, तासु ``स्वरःऽऽ अनाहतहतोत्तीर्णमहानादोल्लासविकासस्वभावः ``प्रथतेऽऽ सविकल्पनिर्विकल्पसंविदुत्तीर्णपरवियदुदयम् एव प्रकाशितं सततम् अकरणप्रवृत्त्या प्रयातीत्य् अर्थः । इत्थं नानाभेदोल्लासप्रकाशरूपेषु वर्णनिवहोद्वहोदयेषु मध्यात् प्रतिवर्णान्तरे वाक्चतुष्टयक्रमेणाखण्डितवृत्त्या स्वस्वरूपम् अपरित्यज्य यथामुखोपदिष्टनीत्या स्वरैव प्रथते, -- इत्युक्तं भवति ॥7॥

p19356

इति वाक्चतुष्टयोदयक्रमेण निरावरणस्वरोदयः सर्वत्र सर्वकालं स्फुरति, -- इति निरूप्य, इदानीं रसत्रितयाभोगे सति परं धामैव निरुत्तरं चकास्ति, -- इति निगद्यते

08

रसत्रितयास्वादनेनानिच्छोच्छलितं विगतबन्धं परं ब्रह्म ॥

p19668

रसत्रयं गुरुमुखोदितदृशा मनाग् ईषत् प्रकाश्यते । मूलाधारपयोधराधारप्रथिताकृत्रिमरसत्रितयाभोगे सति "*अनिच्छोच्छलितम्*" निष्कामतया प्रोल्लसितं "*विगतबन्धं*" विरहितभेदप्रथात्मकसंसारावग्रहं शान्तचित्रोभयविधब्रह्मस्वरूपसमुत्तीर्णं किम् अपि निरुत्तरप्रकृष्टतरामर्शसंवित्स्वभावं "*परं ब्रह्म*" एव सततम् अनस्तमितस्थित्या विजृम्भतेत्य् अर्थः । एतद् एव रहस्यक्रमेणोच्यते । मूलाधारस् तु प्रथमप्रतिभोल्लासमहानादविशेषः सृष्टिस्वभावो भेदाभेदात्मकसंवित्पदार्थप्रथमाश्रयभित्तिमूर्तत्वात् । पयिधरस् तु पयः समस्ताप्यायकत्वात् सर्वाश्रयसंवित्स्वरूपं तद् एव धारयति स्थितिप्ररोहम् अवलम्बयति यः स्पन्दो ऽद्योन्मेषैव सर्वपदार्थावभासनात् स्थितिरूपः । आधारस् तु
जडाजडभावपदार्थोपसंहारकत्वात् प्रत्यावृत्तिसंवित्स्वभावः संहारः । एतत्त्रयोधूतं रसरूपं तत्तदनुभवचमत्कारसामरस्यम् आस्वाद्य स्वात्मन्य् अकृतकखमुद्रानुप्रवेशाद् विमृश्य, तुर्यस्वभावो महासंहाराख्यो ऽनवरतं परमाद्वयतया विभातीति रहस्यार्थः ॥8

p20763

एवं निरवकाशभङ्ग्या रसत्रितयचर्चासंप्रदायं निरूप्य, इदानीं देवीचतुष्टयकथासाक्षात्कारः प्रकाश्यते

09

देवीचतुष्टयोल्लासेन सदैव स्वविश्रान्त्यचस्थितिः ॥

p20991

"*देवीचतुष्टयं*" क्षुत्तृडीर्ष्यामननाख्यम् । तत्र च सर्वग्रासनिरतत्वात् क्षुद् एव महासंहारः । सर्वशोषकत्वात् तृड् एव संहारः । ईर्ष्या द्वयप्रथापादिका ग्राह्यग्राहकपरिग्रहग्रथिता स्थितिरूपा । मनना च संकल्पविकल्पोल्लासरूपा सृष्टिः । एतद्रूपस्य देवीचतुष्टयस्य च "*उल्लासेन*" घस्मरसंवित्प्रवाहप्रवृत्त्या प्रथनेन "*सदैव*" सर्वकालं प्रत्येकं चातुरात्म्येनोद्योगाभासचर्वणालंग्रासवपुषा स्वस्वरूपावस्थितिर् पञ्चमपदातिशायिनी निरवकाशसंविन्निष्ठा स्थितेत्य् अर्थः । ।9

p21550

इत्य् अनेन सूत्रेण देवीचतुष्टयकथाक्रमं प्रकाश्य, इदानीं द्वादशवाहचक्ररहस्यं निरूप्यते

10

द्वादशवाहोदयेन महामरीचिविकासः ॥

p21748

मनःसंहितं श्रोत्रादिबुद्धीन्द्रियपञ्चकं, तथा बुद्धिसंहितं वागादिकर्मेन्द्रियपञ्चकं, एतदुभयसमूहः "*द्वादशवाहः*" । तस्योल्लासो ऽहेतुकेन केनाप्य् अतिविशृङ्खलतरधामनिरुत्तरनिस्तरङ्गपरस्वातन्त्र्यवृत्त्या घस्मरसंवित्प्रवाहः । तेन "*महामरीचीनाम्*" निरावरणक्रमेण प्रत्येकस्मिन् प्रवाहोद्योगावभासचर्वणालंग्रासविश्रान्तिरूपाणां महासंविद्रश्मीनां "*विकासः*" नियतानियतचिदचित्प्रथाविगलनेन नित्यविकस्वरस्वभावो महाप्रबोधः सततम् अविनश्वरतया सर्वत्र सर्वतः सर्वदैव स्थितेति महावाक्यार्थः ॥

p22350

इत्य् अकरणसिद्धं सदैव निरावरणपदसमावेशं द्वादशवाहोदयदृशा प्रकाश्य, इदानीं चर्यापञ्चकसंप्रदायं निरूप्यन्ति

11

चर्यापञ्चकोदये निस्तरङ्गसमावेशः ॥

p22579

"*चर्यापञ्चकं*" त्व् अनाश्रितावधूतोन्मत्तसर्वभक्ष्यमहाव्यापकस्वरूपं । तस्योदयो नियतानियतशक्तिसमूहान्तरोदितो विकासस्वभावोल्लासः । तस्मिन् सति "*निस्तरङ्गसमावेशः*" आणवशाक्तशाम्भवोदयरूपसमस्ततरङ्गपरिवर्जितसमावेशलक्षणनिरुत्तरसमावेशधर्मैव प्रथतेत्यर्थः । चर्यापञ्चकक्रमं च वितत्य निरूपयामि । तत्रानाश्रिता निराधारत्वात् परमाकाशरूपा श्रोत्रसुषिरप्रदेशगमनेन स्वग्राह्यवस्तूपसंहरणायोद्गता । अवधूता चानियततया सर्वत्रविहरणदृक्शक्तिमार्गेण स्वसंहार्यस्वीकरणायोन्मिषिता । उन्मत्ता च विचित्तवत्स्वतन्त्रतया ग्राह्याग्राह्यसंबन्धाविवक्षया स्वविषयग्रहणाय प्रथिता । सर्वभक्ष्या भक्ष्यसंस्कारनिखिलकवलनशीला स्वसंहार्यपदार्थग्रसनायोदिता । सर्वव्यापिका च
त्वग्वृत्तिगमनिकया निखिलव्यापकत्वाद् अशेषस्पर्शस्वीकरणायोन्मिषिता; -- इति चर्यापञ्चकोदयः ॥

p23499

सततसिद्धचर्याक्रमं निरूप्य, इदानीं निर्निकेतपरज्ञानप्रकाशावलम्बनेन पुण्यपापनिवृत्तिकथां निरूपयन्ति

12

महाबोधसमावेशात् पुण्यपापसंबन्धः ॥

p23720

"*महाबोधः*" च ज्ञातृज्ञानज्ञेयविकल्पसंकल्पकालुष्यनिर्मुक्तो निःशमशमानिकेतनिर्धामधामप्रथात्मकः परतरज्ञानस्वभावः क्रमाक्रमोत्तीर्णत्वान् महागुरुभिर् साक्षात्कृतः । तस्य "*समावेशः*" अकरणक्रमेण यथास्थितसंनिवेशेन त्यागस्वीकारपरिहारतः सततम् अच्युतवृत्त्या तद्रूपेण स्फुरणम् । तस्मात् "*महाबोधसमावेशत्*" पुण्यपापयोर् शुभाशुभलक्षणकर्मणोर् द्वयोर् स्वफलद्वयवितरणशीलयोर् "*असंबन्धः*" असंश्लेषो ऽसंयोगश् चानवरतं जीवत एव वीरवरस्यापश्चिमजन्मनः कस्य चित् सर्वकालम् अकृतकानुभवरसचर्वणसंतृप्तस्य भवभूमाव् एव बन्धमोक्षोभयोत्तीर्णमहामुक्तिर् करतलामलकवत् स्थितेत्य् अर्थः ॥

p24438

स्वस्वरूपप्राप्तिपूर्वकं पुण्यपापतिरस्कारचर्चाक्रमम् उक्त्वा, इदानीं स्वरसिद्धमौनकथाम् उद्घाटयन्ति

13

अकथनकथाबलेन महाविस्मयमुद्राप्राप्त्या खस्वरता ॥

p24671

"*अकथनकथाबलं*" गुरुमुखोपदिष्टसंप्रदायक्रमेण मनाग् इह चर्च्यते । अस्य अकारस्य (1)हत(2)अनाहत(3)अनाहतहत(4)अनाहतहतोत्तीर्णतया चतुर्धोदितरूपस्य कथनं वक्त्राम्नायचर्चासंनिवेशनम् इत्य् अकथनं । तत्र हतस् तावत् कथ्यते - हृत्कण्ठताल्वादिस्थानकरणसंनिवेशैर् हतो ऽकारादिहकारपर्यन्तनानापदार्थावभासकः । अनाहतश् चास्वरमूलोल्लसितपरनादविस्फारस् तन्त्रीमध्यमास्वरसंकेतको ऽअकण्ठकूपान्ताद् उपचारतः कृतप्रतिष्ठः । अनाहतहतश् चोभयाश्रितोन्मिषितो ऽहतो विश्रान्तशष्कुलीश्रवणगोपनोद्भिन्नप्रथः श्रवणयुग्ममध्यवर्त्याकाशात् तत्त्वप्रतिबिम्बतत्त्वदेहतो ऽपि हतो ऽनाहतहतः । अनाहतहतोत्तीर्णश् च महानिरावरणधामसमुल्लसितो ऽविकल्पः
ईषच्चलत्तात्मकमहास्पन्दप्रथमकोटिरूपः स्वरः संकोचविकासविरहात् परमविकासरूपो ऽस्पर्शधर्मानुच्चार्यमहामन्त्रप्रथात्मकः । तथा चानाहतहतोत्तीर्णो यः स शृङ्गाटकाकारो रौद्रीस्वभावस् तुर्यः । अनाहतहतश् चानच्ककलात्मकवक्त्रसंस्थानो वामरूपः सुषुप्तः । अनाहतश् च बाहुरूपाम्बिकाशक्तिर् यागमे निरूपिता तत्स्वरूपः स्वप्नः । हतश् चायुधाकारो ज्येष्ठास्वभावो जाग्रत् । इत्य् एतच्चतुष्टयस्वभावस्याद्यवर्णस्य कथनं पारम्पर्यमुखयुक्तिविशेषः । तस्य बलं हतादिरूपत्रयोल्लसितानाहतहतोत्तीर्णरावस्फुरत्तारूपं वीर्यं तेन "*अकथनकथाबलेन*" । तत्रैवम् अकथनं वाक्प्रपञ्चोत्तीर्णम् अकथनम् एव कथनं संक्रमणक्रमेण निर्निकेतस्वरूपावधानं तद् एव बलं अकृतकस्फारसारं । तेन संक्रमणं च मनाग् इह वितन्यते । प्राणपुर्यष्टकशून्यप्रमातृनिविनिष्टाभिमानविगलनेन निस्तरङ्गप्रविकचच्चिद्धामबद्धास्पदो दैशिकवरो निःस्पन्दानन्दसुन्दरपरमशून्यदृग्बलेन कार्यकरणकर्मनिरपेक्षतया यद् यत् किं चित् सर्वगतात्मस्वरूपप्रतिपत्ताव् अवलोकयति तत् तत् परतरचिन्मयम् एव सततं भवति, इति नास्त्य् अत्र सन्देहः । तथा चान्यद् व्याख्यान्तरम् आह कथनं तावत् षड्दर्शनचतुराम्नायमेलापक्रमसमूहेषु पूजनक्रमोदितनियतानियतदेवताचक्रावलम्बनेन स्फुरति । इह पुनः पूज्यपूजकपूजनसंबन्धपरिहारेण श्रीमद्वातूलनाथादिसिद्धप्रवरवक्त्राम्नायदृशा सततसिद्धमहामरीचिविकासैव सर्वोत्तीर्णस्वरूपाविभिन्नः सर्वदैव सर्वत्र विराजते, इत्य् अकथनकथाबलं तेन महाविस्मयप्राप्तिर् भवतीति संबन्धः । "*महाविस्मयः*" च विगतो विनष्टः स्मयो मितामिताहङ्कारदर्पः सर्वोल्लङ्घनवृत्त्या स्वरूपानुप्रवेशः । अथ च महाविस्मयः स्वपरभेदविस्मरणाज् झटिति निरन्तरनिरर्गलखेचरवृत्तिसमावेशः । सैव सर्वमुद्राणां क्रोडीकरणात् "*मुद्रा*" तस्या मौनपदसमावेशमयता । तया हेतुभूतया "*खस्वरता*" त्रयोदशकथाकथनसामरस्यात्मकः खस्वरस् तस्य भावः सामरस्यप्रथनं भवतीत्य् अर्थः । खस्वरस् तु खम् अपि भावशून्यम् अपि स्वेन राति व्याप्नोति स्वीकरोतीत्य् आदत्ते, इति खस्वरः ॥

p27583

षड्दर्शनचातुराम्नायिकसर्वमेलापकथात्रयोदशकथासाक्षात्कारोपदेशभङ्ग्यानुत्तरपदाद्वयतया कस्यचिदवधूतस्य पीठेश्वरीभिर् महामेलापसमये सूत्रोपनिबद्धो वक्त्राम्नायः प्रकाशितः । तस्यैवेह मनाक् सताम् अवबोधार्थम् अस्माभिर् वृत्तिर् इयं कृतेति शिवं ।

मूल पाठ: Vātūlanāthasūtra with the Vṛtti of Anantaśaktipāda · Edition: Madhusudana Kaul Sastri, Srinagar 1923 (Kashmir Series of Texts and Studies ; 39) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc