वातूलनाथसूत्र (टीका सहित) · श्लोक p10870-07
इह किल षड्दर्शनचतुराम्नायादिमेलापपर्यन्तसमस्तदर्शनोत्तीर्णम् अकथ्यम् अपि श्रीमद्वातूलनाथस्य पीठेश्वर्योच्छुष्मपादौघम् उक्त्वा तद् अनु परमरहस्योपबृंहितत्रयोदशकथासाकात्कारदृशा क्रमाक्रमास्तिनास्तितथ्यातथ्यभेदाभेदसविकल्पनिर्विकल्पभवनिर्वाणकलङ्कोज्झितं किम् अप्य् अनवकाशं परं तत्त्वं सूत्रमुखेनादिशन्ति -
यत्रेदम् आदिसूत्रम्
महासाहसवृत्त्या स्वरूपलाभः ॥
अतितीव्रातितीव्रतरविशृङ्खलशक्तिपाताघ्रातस्य स्वस्वरूपसमाविष्टस्य कस्य चित् क्व चित् कदा चिद् अकस्माद् एव "*महासाहसवृत्त्या*" घस्मरमहाघनतरपरनादोल्लासस्फारेण सविकल्पनिर्विकल्पात्मकसमस्तसंविन्निवहघट्टनान् निरावरणमहाशून्यतासमावेशनिष्ठया "*स्वरूपलाभः*" समस्तकल्पनोत्तीर्णत्वाद् अकृतकनिरवकाशनिरुत्तरनिस्तरङ्गनिरवधिनिर्निकेतास्पर्शसंवित्प्राप्तिर् भवति - इति रहस्यार्थः । महासाहसवृत्त्यानुप्रवेशश् च वक्ष्यमाणकथितक्रमेणाधिगन्तव्यः ॥
झटिति सर्वोल्लङ्घनक्रमेणानिकेतस्वरूपप्राप्तिसाक्षात्कारमहासाहसचर्चासंप्रदायं निरूप्य, इदानीं तत्रैव सर्ववृत्तिमहासामरस्यम् एककाले प्रचक्षते
तल्लाभाच्छुरिता [युद्?]युगपद्वृत्तिप्रवृत्तिः
वृत्तीनां दृगादिमरीचिरूपाणां तथा रागद्वेषाद्युन्मेषवतीनां "*युगपत्*" तुल्यकालं क्रमपरिपाट्युल्लङ्घनेनाक्रमप्रवृत्त्या "*तल्लाभाच्छुरिता*" तत् तेन प्रागुक्तमहासाहसदशासमावेशक्रमप्राप्येण स्वरूपलाभेन कालाकालकल्पनोत्तीर्णालंग्रासवपुषा महानिरीहेणाच्छुरिता स्पृष्ता स्वस्वरूपतां नीताऌ"*प्रवृत्तिर्*" प्रकर्षेण वर्तमाना वृत्तिर् सततम् अच्युततया तत्समावेशावस्थानम् इत्य् अर्थः । इत्य् अनयोक्तिभङ्ग्या सर्ववृत्तीनां समनन्तरम् एव सर्वोत्तीर्णमहाशून्यताधाम्नि धामरूपे तन्मयतया परस्परविभेदविगलनेनोदयपदव्याम् एव सततम् अवस्थितिर् स्थितेत्यर्थः ॥
इत्यनयोक्तिभङ्ग्या तुल्यकालकथनोपदेशम् उक्त्वेदानीं पुस्तककथां निरूपयन्ति
उभयपट्टोद्घट्टनान् महाशून्यताप्रवेशः
श्रीमन्निष्क्रियानन्दनाथानुग्रहसमये श्रीगन्धमादनसिद्धपादैर् अकृतकपुस्तकप्रदर्शनेन या परपदे प्राप्तिर् उपदिष्टा सैव वितत्य निरूप्यते । सप्तरन्ध्रक्रमोदितसप्तशिखोल्लासात्मकः प्राणप्रवाहोदयः सैवोर्ध्वपट्टकः पूर्णवृत्त्युदयः, रन्ध्रद्वयसुषिरनालिकाप्रवाहप्रसृतो ऽपानरूपो ऽधःपट्टकः पञ्चेन्द्रियशक्तिवेष्टितः पञ्चफणधर्मानिबन्धको ऽधःस्थितः । तस्य वलयद्वयं जाग्रत्स्वप्नात्मकम् उन्मुद्र्य ग्रन्थिनिबन्धनम् अपहृत्य "*उभयपट्टोद्घट्टनात्*" प्राणापानद्वयविदारणान् मध्यवर्ती यः प्राणरूपो महाशून्यतास्वभावः कुलाकुलविकल्पदशोज्झितो ऽव्यपदेश्यमहानिरावरणनिरत्ययवेद्यवेदकनिर्मुक्तो वर्णावर्णनिवर्णोत्तीर्णः स्पर्शास्पर्शप्रथापरिवर्जितोपचारात् परमाकाशाद्यभिधानैः
अभिधीयते । तत्र "*प्रवेशः*" तत्समावेशतया सामरस्यावस्थितिर् सैव प्राप्तमहोपदेशनामाविर्भवतीत्यर्थः ॥
इत्थं महानयोक्तदृशा सर्वशास्त्रप्रपञ्चोत्तीर्णात्वाद् अवाच्यं किम् अपि महोपदेशसाक्षात्कारम् उभयपट्टकाकारसदसद्रूपद्वयनिवारणेन निस्तरङ्गपरव्योमसमावेशविवर्जितम् आसूत्रितमहाशून्यतासमावेशम् आवेद्य, इदानीं युग्मोपसंहारात् कैवल्यफलं तन्मयतोपवर्ण्यते
युग्मग्रासान् निरवकाशसंविन्निष्ठा ॥
पृथिव्यादिमहाभूतपञ्चकस्यैकैकस्मिन् ग्राह्यग्राहकतया "*युग्म*" वृत्त्युदयसंव्यवस्थितिः । तत्र गन्धप्राधान्याद् धरातत्त्वस्य पायुघ्राणरूपेण द्विप्रकारता । अप्तत्त्वस्य च रसप्रधानतयोपस्थरसनारूपेणद्वैविध्यम् । तेजस्तत्त्वस्य रूपप्राधान्यात् पादनेत्रभेदेन द्वयरूपता । वायुतत्त्वस्य स्पर्शप्राधान्यात् त्वक्पाणिस्वभावतो द्विधा गतिः । आकाशतत्त्वस्य शब्दप्राधान्याद् वाक्श्रोत्रभेदेन द्विप्रकारतयैव बहुधात्वम् । अथवा पृथिव्यप्स्वरूपौ भोग्यस्वरूपावस्थितौ । तेजोवाय्वाख्यौ भोक्तृस्वभावौ संस्थितौ । आकाशं चैतद् युग्मान्तरस्थं सत्सुषिरतया सर्वप्रनाडिकान्तरोदितं च बहुधा विभक्तम् । पृथिव्यादिवाय्वन्तं भूतचतुष्टयं भोग्यरूपम् आकाशं च भोक्तृस्वभावम् इति वा । भोग्ये ऽपि भोक्ता सदैव तिष्ठति; भोक्तर्य् अपि भोगः
नित्यं विभाति । एवमुक्तयुक्त्या प्रत्येकं पृथिव्यादिमहाभूतपञ्चकं युग्मेन द्वयविभूत्यानारतं प्रोल्लसतीत्यभिप्रायः । अथवा प्रत्येकं व्यक्ताव्यक्ततया बहिरन्तरतया शान्तोद्रिक्ततया वा विभाति । एतत् पञ्चकस्थानसंथितयुग्मस्य ``ग्रासात्ऽऽ संहरणत् ``निरवकाशसंविन्निष्ठाऽऽ निरवकाशा येयं संवित् तस्या निष्ठा सम्यगविपर्यस्ततया संथितिः । निरवकाशसंवित्त्वेन नापि सविकल्पसंविदुन्मेषैर् अवकाशो लभ्यते, नापि निर्विकल्पसंवित्स्वभावेन प्रवेशो ऽधिगम्यते । इत्थम् अप्रमेयत्वान् निरुत्तरपरमाद्वयस्वभावत्वाच् च निरवकाशसंविद् इहोच्यते । तस्या निष्ठा वरगुरुप्रदर्शितदृशा सततम् उच्यता गतिर् केषांचिद् भवतीत्य् अर्थः । एवं द्वयात्मककुलकौलकवलनेन निरुपाधिनीरूपनिःस्वरूपतादात्म्यं भवतीत्य् अर्थः ॥4॥
द्वयविगलनेन परतत्त्वावस्थितिं युग्मचर्चागमनिकयेहोक्त्वा, तद् अनु संघट्टकथासाक्षात्कारो निरूप्यते
सिद्धयोगिनीसंघट्टान् महामेलापोदयः
सिद्धा च योगिन्यश् च ता सिद्धयोगिन्यो विषयकरणेश्वरीरूपा । तासां संघट्टः संगमो ग्राह्यग्राहकोभयसंश्लेषः परस्परागूरणक्रमेणालिङ्गनम् । तेनालिङ्गनेन सदैव ``महामेलापोदयःऽऽ महामेलापस्याहंतेदंतात्मकद्वयविगलनान् निरुत्तरचिद्व्योम्नि सततं महासामरस्यात्मकस्य सर्वत्र प्रत्यक्षतयोदयः समुल्लासो भवतीत्य् अर्थः । वेद्यवेदकद्वयाप्रथनप्रवृत्त्या परमाद्वयसमावेशः सर्वत्रावस्थितेत्य् उक्तं भवति ॥5॥
उभयविगलनेन सदैव महामेलापोदयम् उक्त्वा, तद् अनु कञ्चुकत्रयोल्लङ्घनेन निरुत्तरपदप्राप्तिं कटाक्षयन्ति
त्रिकञ्चुकपरित्यागान् निराख्यपदावस्थितिः
त्रिकञ्चुकस्य भाविकभौतिकशून्यभेदभिन्नस्य । तत्र भाविकं शब्दाद्यहंकारपर्यन्तं तन्मात्ररूपं, भौतिकं पृथिव्यादिरूपं, शून्यं निरीहाख्यं वासनास्वरूपं च । अथवा भाविकं घटाकारं बाह्यं ग्राह्यविषयरूपं, भौतिकं पुनोऽअन्तरम् इन्द्रियात्मकं ग्रहणरूपम्, शून्यं तदुभयमध्यमाकाशम् । अथवा भाविकं स्वप्नावस्था सृष्टिर् उच्यते, भौतिकं जाग्रत्प्रथा स्थितिर् निगद्यते, शून्यं सुषुप्तदशा संहारो ऽभिधीयते । इत्थंसंस्थितस्य त्रिकञ्चुकस्य ``परित्यागात्ऽऽ सन्न्यासात् ``निराख्यपदावस्थितिर्ऽऽनिर्गताख्याभिधानं यस्यासौ निराख्यो ऽव्यपदेश्यम् अनुत्तरं वागुत्तीर्णं परं धाम, तस्मिन् सर्वोत्तीर्णानिकेतनपरमाकाशे ऽवस्थितिर् सदैवापरिच्युतस्वभावनिष्ठा भवतीति संबन्धः ॥6॥
इत्थं कञ्चुकत्रयोल्लङ्घनेन तुर्यपदप्राप्तिं निरूप्य, इदानीं सर्ववाक्प्रथासु निरावरणासु स्वरभूतिविजृम्भैव प्रथते सदैव, - इति निरूपयन्ति
वाक्चतुष्टयोदयविरामप्रथासु स्वरः प्रथते
मूल पाठ: Vātūlanāthasūtra with the Vṛtti of Anantaśaktipāda · Edition: Madhusudana Kaul Sastri, Srinagar 1923 (Kashmir Series of Texts and Studies ; 39) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0