भाषा

ENहिગુ
ग्रंथ पाठ

वराह पुराण · अध्याय 202

202.1

अथ नारकिदण्डनकर्मविपाकवर्णनम् ॥
ऋषिरुवाच ॥
विस्मयस्तु मया दृष्टस्तस्मिन्नद्भुतदर्शनः ॥
चित्रगुप्तस्य सन्देशो धर्मराजेन धीमतः

202.2

प्राप्नुवन्ति फलं ते वै ये च क्षिप्ताः पुरा जनाः ॥
अग्निना वै प्रतप्तास्ते बद्धा बन्धैः सुदारुणैः

202.3

सन्तप्ता बहवो ये ते तैस्तैः कर्मभिरुल्बणैः ॥
श्यामाश्च दशनाभिर्ये त्विमं शीघ्रं प्रमापय

202.4

दुराचारं पापरतं निर्घृणं पापचेतसम् ॥
श्वानस्तु हिंसका ये च भक्षयन्तु दुरात्मकम्

202.5

पितृघ्नो मातृगोघ्नस्तु सर्वदोषसमन्वितः ॥
आरोप्य शाल्मलीं घोरां कण्टकैस्तैर्विपाटय

202.7

एनं पाचय तैलस्य घृतक्षौद्रस्य वा पुनः ॥
तप्तद्रोण्यां ततो मुंच ताम्रतप्तखले पुनः ॥ ६ !।
नराधममिमं क्षिप्त्वा प्रदीप्ते हव्यवाहने ॥
ततो मनुष्यतां प्राप्य ऋणैस्तत्र प्रदीप्यते

202.8

शयनासनहर्त्तारमग्निदायी च यो नरः ॥
वैतरण्यामयं चैव क्षिप्यतामचिरं पुनः

202.9

पापकर्मायमत्यर्थं सर्व तीर्थविनाशकः ॥
तस्य प्रदीप्तः कीलोऽयं वह्नितप्तोऽतिदुःस्पृशः

202.202.10

आदेश्य चोभयोरस्य कर्णयोः कूटसाक्षिकः ॥
यो नरः पिशुनः कूटसाक्षी चालीकजल्पकः

202.11

ग्रामयाजनकं विप्रमध्रुवं दांभिकं शठम्॥
बद्ध्वा तु बन्धने घोरे दीयतां तु न किंचन

202.12

जिह्वाऽस्य छिद्यतां शीघ्रं वाचा दुष्टस्य पापिनः ॥
गम्यागम्यं पुरा येन विज्ञातं न दुरात्मना

202.13

कृतं लोभाभिभूतेन कामसम्मोहितेन च ॥
तस्य च्छित्वा ततो लिंगं क्षारमग्निं च दीपय

202.14

इमं तु खलकं कृत्वा दुरात्मा पापकारिणम् ॥
दायादा बहवो येन स्वार्थहेतोर्विनाशिताः

202.15

इमं वार्धुषिकं विप्रं सर्वत्रांगेषु भेदय ॥
तथायं यातनां यातु पापं बहु समाचरन्

202.16

सुवर्णस्तेयिनं पापं कृतघ्नं च तथा नरम् ॥
क्रूरं पितृहणं चैनं ब्रह्मघ्नेषु समीकुरु

202.17

अस्थि च्छित्वा ततः क्षिप्रं क्षारमग्निं च दापय ॥
इमं तु विप्रं खादन्तु तीक्ष्णदंष्ट्राः सुदारुणाः

202.18

पिशुनं हि महाव्याघ्राः पंच घोराः सुदारुणाः ॥
इमं पचत पाकेषु बहुधा मर्मभेदिनम्

202.19

येनाग्निरुज्झितः पूर्वं गृहीत्वा च न पूजितः ॥
इमं पापसमाचारं वीरघ्नमतिपापिनम्

202.202.20

कर्कटस्य तु घोरस्य नित्यक्रुद्धस्य मोचय ॥
इमं घोरे ह्रदे क्षिप्तं सर्वयाजनयाजकम्

202.21

सर्वेषां तु पशूनां यो नित्यं धारयते जलम् ॥
न त्राता न च दाता च पापस्यास्य दुरात्मनः

202.22

अदानव्रतिनो विप्रा वेदविक्रयिणस्तथा ॥
सर्वकर्माणि कुर्युर्ये दीयते न च किंचन

202.23

तोयभाजनहर्त्तारं भोजनं योऽनिवारयन् ॥
हन्यतां सुदृढैर्दण्डैर्यमदूतैर्महाबलैः

202.24

वेणुदण्डकशाभिश्च लोहदण्डैस्तथैव च ॥
जलमस्मै न दातव्यं भोजनं च कथंचन

202.25

तस्मा अन्नं च पानं च न दातव्यं कदाचन ॥
हत विश्वास्य हन्तारं वह्नौ शीघ्रं प्रपाचय

202.26

ब्रह्मदेयं हृतं येन तं वै शीघ्रं विपाचय ॥
बहुवर्षसहस्राणि पातये कर्म विस्तरे

202.27

समुत्तीर्णं ततः पश्चात्तिर्यग्योनौ प्रपातये ॥
सूक्ष्मदेहविपाकेषु कीटपक्षिविजातिषु

202.28

क्लिष्टो जातिसहस्रैस्तु जायते मानुषस्ततः ॥
तत्र जातो दुरात्मा च कुलेषु विविधेषु च

202.29

हिंसारूपेण घोरेण ब्रह्मवध्यां प्रदापयेत् ॥
राज्ञस्तु मारकं घोरं ब्रह्मघ्नं दुष्कृतं तथा

202.202.30

सुवर्णस्तेयिनं चैव सुरापं चैव कारयेत् ॥
अनुभूय ततः काले ततो यक्ष्म प्रयोजयेत्

202.31

गोघातको ह्ययं पापः कूटशाल्मलिमारुहेत् ॥
कृष्यते विविधैर्घोरै राक्षसैर्घोरदर्शनैः

202.32

पूतिपाकेषु पच्येत जन्तुभिः संप्रयोजितः ॥
ब्रह्मवध्याच्चतुर्भागैर्मृगत्वं पशुतां गतः

202.33

उद्विग्नवासं पतितं यत्र यत्रोपपद्यते ॥
पापकर्मसमुद्विग्नो जातो जातः पुनःपुनः

202.34

अयं तिष्ठति किं पापः पितृघाती दुरात्मवान् ॥
ते तु वर्षशतं साग्रं भक्षयन्तु विचेतसः

202.35

ततः पाकेषु घोरेषु पच्यतां च नराधमः ॥
ततो मानुषतां प्राप्य गर्भस्थो प्रियतां पुनः

202.36

व्यापन्नो दशगर्भेषु ततः पश्चाद्विमुच्यताम् ॥
तत्रापि लब्ध्वा मानुष्यं क्लेशभागी च जायताम्

202.37

बुभुक्षारुग्विकारैश्च सततं तत्र पीड्यताम् ॥
पापाचारमिमं घोरं मित्रविश्वासघातकम्

202.38

यन्त्रेण पीड्यतां क्षिप्रं ततः पश्चाद्विमुच्यताम् ॥
दीप्यतां ज्वलने घोरे वर्षाणां च शतद्वयम्

202.39

जायतां च ततः पश्चाच्छूनां योनौ दुरात्मवान् ॥
भ्रष्टोऽपि जायतां तस्मान्मानुषः क्लेश भाजनः

202.202.40

प्राप्तवान्विविधान्रोगान्संसारे चैव दारुणान् ॥
ब्रह्मस्वहारी पापोऽयं नरो लवणतस्करः

202.41

वर्षाणां तु शतं पंच तत्र क्लिष्टो दुरात्मवान् ॥
कृमिको जायते पश्चाद्विष्ठायां कृमिकोऽपरः

202.42

शकुन्तो जायते घोरस्तत्र पश्चाद्वृको भवेत् ॥
इममग्निप्रदं घोरं काष्ठाग्नौ सम्प्रतापय

202.43

स्वकर्मसु विहीनेषु पश्चाल्लब्धगतिस्तथा ॥
ततश्चाथ मृगो वापि ततो मानुषतां व्रजेत्

202.44

तत्रापि दारुणं दुःखमुपभुंक्ते दुरात्मवान् ॥
सर्वदुष्कृतकार्येषु सह संघातचिन्तकैः

202.45

एवं कर्मसमायुक्तास्ते भवन्तु सहस्रशः ॥
परद्रव्यापहाराश्च रौरवे पतितास्तथा

202.46

कुम्भीपाकेषु निर्दग्धः पश्चाद्गर्दभतां गतः ॥
ततो जातस्त्वसौ पापः शूकरो मलभुक्तथा

202.47

प्राप्नोतु विविधांस्तापान्यथा हृतधनश्च सन् ॥
क्षुधातृष्णापराक्रान्तो गर्दभो दशजन्मसु

202.48

मानुष्यं समनुप्राप्य चौरो भवति पापकृत् ॥
परोपघाती निर्लज्जः सर्वेदोषसमन्वितः

202.49

वृक्षशाखावलम्बोऽत्र ह्यधःशीर्षः प्रजायते ॥
अग्निना पच्यतां पश्चाल्लुब्धो वै पुरुषाधमः

202.202.50

ततो वर्षशते पूर्णे मुच्यते स पुनः पुनः ॥
अजितात्मा तथा पापः पिशुनश्च दुरात्मवान्

202.51

पूर्वैश्च सूकरो भूत्वा नकुलो जायते पुनः ॥
विमुक्तश्च ततः पश्चान्मानुष्यं लभते चिरात्

202.52

धिक्कृतः सर्वलोकेन कूटसाक्ष्यनृतव्रतः ॥
न शर्म लभते क्वापि कर्मणा स्वेन गर्हितः

202.53

इमं ह्यानृतिकं दुष्टं क्षेत्रहारकमेव च ॥
स्वकर्म दुष्कृतं यावत्तावदुःखं भुनक्त्वसौ

202.54

कर्मण्येकैकशश्चायं स तु तिष्ठत्वयं पुनः ॥
वर्षलक्षं न सन्देहस्ततस्तिष्ठत्वयं पुनः

202.55

ततो जातीः स्मरेत्सर्वास्तिर्यग्योनिं समाश्रितः ॥
जायतां मानुषः पश्चात्क्षुधया परिपीडितः

202.56

सर्वकामविमुक्तस्तु सर्वदोषसमन्वितः ॥
क्वचिज्जात्यां भवेदन्धः क्वचिद्बधिर एव च

202.57

क्वचिन्मूकश्च काणश्च क्वचिद्व्याधिसमन्वितः ॥
एवं हि प्राप्नुयाद्दुःखं न च सौख्यमवाप्नुयात्

202.98

जात्यन्तरसहस्राणि प्रयुतान्यर्बुदानि च ॥
शान्तिं न लभते चैव भूमे क्षेत्रहरो नरः

202.59

तीव्रैरन्तर्गतैर्दुःखैर्भूमिहर्त्ता नराधमः ॥
इमं बन्धैर्दृढैर्बद्ध्वा विपाचय तथाचिरम्

202.202.60

प्रबद्धः सुचिरं कालं मम लोकं गतो नरः ॥
जायतां स चिरं पापो मार्जारस्तेन कर्मणा

202.61

तीव्रक्षुधापरिक्लिष्टो बद्धो बन्धनयन्त्रितः ॥
दुःखान्यनुभवंस्तत्र पापकर्मा नराधमः

202.62

सप्तधा सप्त चैकां च जातिं गत्वा स पच्यते ॥
इमं शाकुनिकं पापं श्वभिर्गृध्रैश्च घातय

202.63

ततः कुक्कुटतां यातु विड्भक्षश्च दुरात्मवान् ॥
दंशश्च मशकश्चैव ततः पश्चाद्भवेत्तु सः

202.64

जातिकर्म सहस्रं तु ततो मानुषतां व्रजेत् ॥
इमं सौकरिकं पापं महिषा घातयन्तु तम्

202.65

वर्षाणां च सहस्रं तु धावमानं ततस्ततः॥
विभिन्नं च प्रभिन्नं च शृंगाभ्यां पद्भिरेव च

202.66

तस्माद्देशात्ततो मुक्तस्ततः सूकरतां व्रजेत् ॥
महिषः कुक्कुटश्चैव शशो जम्बूक एव च

202.67

यां यां याति पुनर्जातिं तत्र भक्ष्यो भवेत्तु सः ॥
कर्मक्षयोऽन्यथा नास्ति मया पूर्वं विनिर्मितम्

202.68

प्राप्य मानुषतां पश्चात्पुनर्व्याधो भविष्यति ॥
अन्यथा निष्कृतिर्नास्ति जातिजन्मशतैरपि

202.69

उच्छिष्टान्नप्रदातारं पापाचारमधार्मिकम् ॥
अङ्गारैः पचतां चैनं त्रीणि वर्षशतानि च

202.202.70

भिन्नचारित्रदुःशीला भर्त्तुर्व्यलीककारिणी ॥
आयसान्पुरुषान्सप्त ह्यालिङ्गतु समन्ततः

202.71

ततः शुनी भवेत्पश्चात्सूकरी च ततः परम् ॥
कर्मक्षये ततः पश्चान्मानुषी दुःखिता भवेत्

202.72

न च सौख्यमवाप्नोति तेन दुःखेन दुखिता ॥
अनेन भृत्या बहवः श्रांताः शांताः प्रवाहिताः

202.73

भक्ष्यं भोज्यं च पानं च न तेषामुपपादितम् ॥
अनुमोदे प्रजा दृष्ट्वा लिप्समानो दुरात्मवान्

202.74

एवं कुरुत भद्रं वो मम पार्श्वे तु दुर्मतिः ॥
रौरवे नरके घोरे सर्वदोषसमन्विते

202.75

सर्वकर्माणि कुर्वाणं क्षपयध्वं दुरासदम् ॥
वर्षाणां तु सहस्राणि तैस्तैः कर्मभिरावृतम्

202.76

प्रक्षिप्यतामयं पश्चाद्दस्युजातौ दुरात्मवान् ॥
जायतामुरगः पश्चात्ततः कर्म समाश्रयेत्

202.77

ततः पश्चाद्भवेत्पापश्चेतरः सर्वपापकृत् ॥
सूकरस्तु भवेत्पश्चान्मेषः संजायते पुनः

202.78

हस्त्यश्वश्च शृगालश्च सूकरो बक एव च ॥
ततो जातस्तु सर्वेषु संसारेषु पुनः पुनः

202.79

वर्षाणामयुतं साग्रं ततो मानुषतां व्रजेत् ॥
पंचगर्भेषु सापत्सु पंच जातो म्रियेत सः

202.202.80

अपौगण्डो म्रियेत्पंच कर्मशेषक्षये तु सः ॥
ततो मानुषतां याति चैष कर्माविनिर्णयः

202.81

पापस्य सुकृतस्याथ प्रजानां विनिपातने ॥
भूतानां चाप्यसंमानं दुष्प्रहारश्च सर्वशः

202.82

अतः स्वयम्भुवा पूर्वं कर्मपाको यथार्थवत्

202.202

इति श्रीवराहपुराणे संसारचक्रे नारकिदण्डकर्मविपाक वर्णनं नाम द्व्यधिकद्विशततमोऽध्यायः

मूल पाठ: varāhapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc