वराह पुराण · अध्याय 201
अथ राक्षसकिंकरयुद्धम् ॥
ऋषिपुत्र उवाच ॥
ततस्ते सहिताः सर्वे चान्योऽन्याभिरताः सदा ॥
नानावेषधरा दूताः कृताञ्जलिपुटास्तदा
दूता ऊचुः ॥
वयं श्रान्ताश्च क्षीणाश्च ह्यन्यान् योजितुमर्हसि ॥
वयमन्यत्करिष्यामः स्वामिन्कार्यं सुदुष्करम्
अन्ये हि तावत्तत्कुर्युर्यथेष्टं तव सुव्रत ॥
भगवन्स्म परिक्लिष्टाः त्राहि नः परमेश्वर
ततो विवृत्तरक्ताक्षस्तेन वाक्येन रोषितः॥
विनिःश्वस्य यथा नागो ह्यपश्यत्सर्वतो दिशम्
अदूरे दृष्टवान्कंचित्पुरुषं स ह्यनाकृतिम् ॥
स तु वेगेन सम्प्राप्त इङ्गितज्ञो दुरात्मवान्
निःसृतः स च रोषेण चित्रगुप्तेन धीमता ॥
ततः स त्वरितं गत्वा मन्देहा नाम राक्षसाः
नानारूपधरा घोरा नानाभरणभूषिताः ॥
विनाशाय महासत्वो यत्र तिष्ठन्महायशाः
चित्रगुप्तो महाबाहुः सर्वलोकार्थचिन्तकः ॥
समः सर्वेषु भूतेषु भूतानां च समादिशत्
ततस्ते विविधाकारा राक्षसा पिशिताशनाः ॥
उपरुह्य तथा सर्वे मातंगांश्च हयं तथा
बद्धगोधाङ्गुलित्राणा नानायुधधरास्तथा ॥
अग्रतः किंकराः कृत्वा तिष्ठन्पादाभिवन्दनम्
ब्रुवन्तश्च पुनर्हृष्टाः शीघ्रमाज्ञापय प्रभो ॥
तव सन्देशकर्त्तारः कस्य कृन्तामजीवितम्
तेषां तद्वचनं श्रुत्वा चित्रगुप्तो ह्यभाषत ॥
रोषगद्गदया वाचा निःश्वसन्वै मुहुर्मुहुः
भो भो मन्देहका वीराः मम चित्तानुपालकाः ॥
एतान्बध्नीत गृह्णीत भूतराक्षसपुंगवाः
एवं हत्वा च बद्ध्वा च ह्यागच्छत पुनर्यथा ॥
ह्न्तारः सर्वभूतानां कृतज्ञा दृढ विक्रमा
हत्वा वै पापकानेतान्मम विप्रियकारिणः ॥
एतच्छ्रुत्वा वचस्तस्य वचनं चेदमब्रुवन्
राक्षसा ऊचुः ॥
श्रान्ता वा क्षुधिता वापि दुःखिता वा तपोधनाः ॥
अमात्या एव ज्ञातव्या भृत्याः शतसहस्रशः
एते वधार्थं निर्दिष्टास्त्वयैव च महात्मना ॥
न युक्तं विविधाकारा ह्यस्माकं नाशनाय वै
यथा ह्येते समुत्पन्नाः सर्वधर्मानुचिन्तकाः ॥
तथा वयं समुत्पन्नास्तदर्थं हि भवानपि
मा च मिथ्या प्रतिज्ञातं धर्मिष्ठस्य भवत्विति ॥
अस्माकं विग्रहे वीर मुच्यन्तां यदि मन्यसे
परित्रायस्व नो वीर किंकराणां महाबलान् ॥
हन्यमानान्हि रक्षोभिरस्मानद्य रणाजिरे
एवमुक्त्वा ततो घोरा व्याधयः कामरूपिणः ॥
सन्नद्धास्त्वरितं शूरा भीमरूपा भयानकाः
गजैरन्ये तथा चाश्वै रथैश्चापि महाबलाः ॥
कण्टकैस्तुरगैर्हंसैरन्ये सिंहैस्तथापरे
मृगैः सृगालैर्महिषैर्व्याघ्रैर्मेषैस्तथापरे ॥
गृध्रैः श्येनैर्मयूरैश्च सर्पगर्द्दभकुक्कुटैः
एवं वाहनसंयुक्ता नानाप्रहरणोद्यताः ॥
समागता महासत्त्वा अन्योन्यमभिकांक्षिणः
तूर्यक्ष्वेडितसंघुष्टैर्बलितास्फोटितैरपि ॥
जयार्थिनो द्रुतं वीराश्चालयन्तश्च मेदिनीम्
ततः समभवद्युद्धं तस्मिंस्तमसि सन्तते ॥
मुकुटैरंगदैश्चित्रैः केयूरैः पट्टिशासिकैः
सकुण्डलैः शिरोभिश्च भ्राजते वसुधातलम् ॥
बहुभिश्च सकेयूरैश्छत्रैश्च मणिभूषणैः
शूल शक्तिप्रहारैश्च यष्टितोमरपट्टिशैः ॥
असिखड्गप्रहारैश्च बलप्राणसमीरितैः
अभवद्दारुणं युद्धं तुमुलं लोमहर्षणम् ॥
नखैर्दन्तैश्च पादैश्च तेऽन्योऽन्यमभिजघ्निरे
बाहुभिः समनुप्राप्तः केशाकेशि ततः परम् ॥
अयुक्तमतुलं युद्धं तेषां वै समजायत
ततस्ते राक्षसा भग्ना दूतैर्घोरपराक्रमैः ॥
देहि देहि वदन्त्येव भिन्धि गृह्णीष्व तिष्ठ च
वध्यमानाः पिशाचास्ते ये निवृत्ता रणार्दिताः ॥
आहूयन्त प्रतिभयात्क्रोधसंरक्तलोचनाः
तिष्ठ तिष्ठ क्व यासीति न गच्छामि दृढो भव ॥
मया मुक्तमिदं शस्त्रं तव देहविनाशनम्
किन्तु मूढ त्वया शस्त्रं न मुक्तं मे रुजाकरम् ॥
मया क्षिप्तास्तु इषवः प्रतीच्छ क्व पलायसे
किं त्वं वदसि दुर्बुद्धे एषोऽहं पारगो रणे ॥
मम बाहु विमुक्तस्तु यदि जीवस्यतो वद
तत्र ते सहसा घोरा राक्षसाः पिशिताशनाः ॥
मन्देहा नाम नाम्ना ते वध्यमानाः सहस्रशः
ततो भग्ना यदा ते तु राक्षसाः कामरूपिणः ॥
प्रत्यपद्यन्त ते मायां तामसीं तमसावृताः
अदृश्याश्चैव दृश्याश्च तद्बलं तमसावृताः ॥
ततस्ते शरणं जग्मुर्ज्वरं परमभीषणम्
शूलपाणिं विरूपाक्षं सर्वप्राणिप्रणाशनम् ॥
मन्देहा नाम नाम्ना वै राक्षसाः पिशिताशनाः
खादन्ति चैव घ्नन्ति स्म चित्रगुप्तेन चोदिताः ॥
व्याधीनां च सहस्राणि दूतानां च महाबलाः
वयमद्य महाभाग त्रायस्व जगतः पते ॥
ततस्तेषां वचः श्रुत्वा दूतानां कामरूपिणाम्
ज्वरः क्रुद्धो महातेजा योधानां तु सहस्रशः ॥
कालो मुण्डः केकराक्षो लोहयष्टिपरिग्रहः
विविधान्सन्दिदेशाऽत्र पुरुषानग्निवर्चसः ॥
बद्धाञ्जलिपुटान्सर्वानिदमाह सुरेश्वरः
पच शीघ्रमिमान्पापान्योगेन च बलेन च ॥
ततस्ते त्वरितं गत्वा यत्र ते पिशिताशनाः
ज्वराज्ञया च ते सर्वे जीमूतघननिःस्वनाः ॥
बहूंस्ते राक्षसान्घोरान्दर्पोत्सिक्तान् सहस्रशः
बहुशस्त्रप्रहारैश्च शस्त्रैश्च विविधोज्ज्वलैः ॥
तरसा राक्षसा विग्ना रुधिरेण परिप्लुताः
मोचयामास संग्रामं स्वयमेव यमस्ततः ॥
राक्षसान्मोचयित्वाऽथ हन्यमानान्समन्ततः
गत्वा ज्वरं महाभागं विनयात्सान्त्वयन्मुहुः ॥
पूजयन्वै ज्वरं दिव्यं गृह्य हस्ते महायशाः
प्रविवेश गृहं स्वं तु सम्भ्रमेणेदृशेन तु ॥
आननं तु समुत्प्रोश्छ्य संग्रामे स्वेदबिन्दुवत्
धर्मराजोऽथ विश्रान्तं कालभूतं महाज्वरम् ॥
किंकिं वृत्तमिदं देव व्यापिनस्त्वं महातपाः
रोषायासकरं चैव सर्वलोकनमस्कृतः ॥
अहं त्वं चैव देवेश इमं लोकं चराचरम्
शासेमहि यथाकामं यथादृष्टं यथाश्रुतम् ॥
त्वया ग्राह्यो ह्यहं देव मृत्युना च सुसंवृतः
लोकान्सर्वानहं हन्मि सर्वघाती न संशयः ॥
गच्छ गच्छ यथास्थानं युद्धं च त्यजतु स्वयम्
राक्षसानां हतास्तत्र षष्टिकोट्यो रणाजिरे॥
अमराश्चाक्षयाश्चैव न हि त्वां प्रापयन्ति वै
ततो ह्युपरतं युद्धं धर्मराजो यमः स्वयम् ॥
दूतानां चित्रगुप्तेन सख्यमेकमकारयत्
सम्भाषन्ते ततो दूताश्चित्रगुप्तं तथैव च ॥
नियुञ्जस्व मया पूर्वं सर्वकर्माणि जन्तुषु
स्वकर्मगुणभूतानि ह्यशुभानि शुभानि च॥
रुद्रं दूताः समागम्य चित्रगुप्तस्य पार्श्वतः।
उपस्थानं च कुर्वन्ति कालचिंतकमब्रुवन् ॥
यथा लोका यथा राजा यथा मृत्युः सनातनः
तदैवोत्तिष्ठ तिष्ठेति क्षम्यतां क्षम्यतां प्रभो
इति श्रीवराहपुराणे भगवच्छास्त्रे संसारचक्रे राक्षसकिंकरयुद्धं नामैकाधिकद्विशततमोऽध्यायः
मूल पाठ: varāhapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0