भाषा

ENहिગુ
ग्रंथ पाठ

वराह पुराण · अध्याय 131

131.1

अथ दन्तकाष्ठाचर्वणप्रायश्चित्तम् ॥
श्रीवराह उवाच ॥
दन्तकाष्ठमचर्वित्वा यो हि मामुपसर्पति ॥
पूर्वकालकृतं कर्म तेन चैकेन नश्यति

131.2

नारायणवचः श्रुत्वा पृथिवी धर्मसंश्रितः ॥
विष्णुभक्तसुखार्थाय हृषीकेशमुवाच ह

131.3

धरण्युवाच ॥
सर्वकालकृतं कर्म क्लेशेन महताऽनघ ॥
कथमेकापराधेन सर्वमेव प्रणश्यति

131.4

श्रीवराह उवाच ॥
शृणु सुन्दरि तत्त्वेन कथ्यमानं मयाऽनघे ॥
येन चैकापराधेन पूर्वकर्म प्रणश्यति

131.5

मनुष्यः किल्बिषी भद्रे कफपित्तसमन्वितः ॥
पूयशोणितसम्पूर्णं दुर्गन्धि मुखमस्य तत्

131.6

तत्सर्वबीजं नश्येत दन्तकाष्ठस्य भक्षणात् ॥
शुद्धिर्भागवती चैव आचारेण विवर्जिता

131.7

धरण्युवाच ॥
दन्तकाष्ठमखादित्वा यः कर्माणि करोति ते ॥
प्रायश्चित्तं च मे ब्रूहि येन धर्मो न नश्यति

131.8

श्रीवराह उवाच ॥
एवमेतन्महाभागे यन्मां त्वं परिपृच्छसि ॥
कथयिष्यामि हीदं ते यथा शुद्ध्यन्ति मानवाः

131.9

आकाशशयनं कृत्वा दिनानि द्वे च पंच च ॥
अभुक्तदन्तकाष्ठाश्च एवं शुध्यन्ति मानवाः

131.131.10

एवं ते कथितं भद्रे दन्तकाष्ठस्य भक्षणम् ॥
य एतेन विधानेन प्रायश्चित्तं समाचरेत्

131.11

कुतस्तस्यापराधोऽस्ति एवमेव न संशयः

131.131

इति श्रीवराहपुराणे दन्तकाष्ठाचर्वणप्रायश्चित्तं नामैकत्रिंशदधिकशततमोऽध्यायः

मूल पाठ: varāhapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc