भाषा

ENहिગુ
ग्रंथ पाठ

वराह पुराण · अध्याय 130

130.1

अथ राजान्नभोगे प्रायश्चित्तम् ॥
सूत उवाच ॥
एवं दीक्षां ततः श्रुत्वा नारायणमुखान्मही ॥
विशुद्धमानसा देवी नारायणमथाब्रवीत्

130.2

धरण्युवाच ॥
अहो ते दीक्षामाहात्म्यं यस्य वै व्युष्टिरुत्तमा ॥
श्रुत्वाहं तु महाभाग जातास्मि विमला विभो

130.3

अहो देवस्य माहात्म्यं लोकनाथस्य तत्त्वतः ॥
येन सा कारिता दीक्षा चातुर्वर्ण्यसुखावहा

130.4

एकं मे परमं गुह्यं यदीश हृदि वर्त्तते ॥
भव भक्तसुखार्थाय तत्त्वं मे वक्तुमर्हसि

130.5

देव पूर्वापराधास्ते द्वात्रिंशदपि कीर्तिताः ॥
एवं कृत्वापराधानि मनुजा ह्यल्पचेतसः

130.6

कर्मणा केन शुद्ध्यन्ति अपराधस्य कारिणः ॥
तन्ममाचक्ष्व तत्त्वेन मम प्रीत्या च माधव

130.7

तद्वै भूम्या वचः श्रुत्वा हृषीकेशो महामनाः ॥
दिव्यं ध्यानं समादाय प्रत्युवाच वसुन्धराम्

130.8

श्रीवराह उवाच ॥
शुद्धा भागवता भूत्वा मम कर्मपरायणाः ॥
ये तु भुञ्जन्ति राजान्नं लोभेन च भयेन वा

130.9

आपद्गता हि भुञ्जन्ति राजान्नं तु वसुन्धरे ॥
दशवर्षसहस्राणि पच्यन्ते नरके नराः

130.130.10

भगवद्वचनं श्रुत्वा कम्पिता च वसुन्धरा ॥
दिनानि सप्त दश च भयं तीव्रमजायत

130.11

ततो दीनमना भूत्वा सा मही संशितव्रता ॥
उवाच मधुरं वाक्यं सर्वलोकसुखावहम्

130.12

धरण्युवाच ॥
शृणु तत्त्वेन मे देव हृदये हि व्यवस्थितम् ॥
को नु दोषोऽस्ति राज्ञां हि तन्मे त्वं वक्तुमर्हसि

130.13

ततो भूम्या वचः श्रुत्वा सर्वधर्मविदां वरः ॥
प्राह नारायणो वाक्यं धर्मकामां वसुन्धराम्

130.14

श्रीवराह उवाच ॥
शृणु सुन्दरि तत्त्वेन गुह्यमेतदनिन्दिते ॥
राजान्नं तु न भोक्तव्यं शुभैभार्गवतैः सदा

130.15

यद्यप्येष समत्वेन राजा लोके प्रवर्त्तते ॥
राजसं तामसं वापि कुर्वन्कर्म सुदारुणम्

130.16

अपि वा गर्हितं तेन राजान्नं तु वसुन्धरे ॥
धर्मसन्धारणार्थाय न तु मे रोचते भुवि

130.17

ततो यद्यत्प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ॥
यथा राज्ञां तु भोज्यं वै शुद्धैर्भागवतैर्नरैः

130.18

स्थापयित्वा तु मां देवि विधिदृष्टेन कर्मणा ॥
धनधान्यसमृद्धानि दत्त्वा भागवतैरपि

130.19

सिद्धं भागवतैश्चान्नं मम प्रापणशेषकम् ॥
भुञ्जानस्तु वरारोहे न स पापेन लिप्यते

130.130.20

एवं विष्णुवचः श्रुत्वा धरणी संशितव्रता ॥
वराहरूपिणं देवं प्रत्युवाच वरानना

130.21

धरण्युवाच ॥
राजान्नं तु नरो भुक्त्वा शुद्धो भागवतः शुचिः ॥
कर्मणा केन शुद्ध्येत तन्मे ब्रूहि जनार्दन

130.22

श्रीवराह उवाच ॥
शृणु तत्त्वेन मे देवि यन्मां त्वं भीरु भाषसे ॥
तरन्ति पुरुषा येन राजान्नस्योपभुञ्जकाः

130.23

एकं चान्द्रायणं कृत्वा तप्तकृच्छ्रं च पुष्कलम् ॥
कुर्यात्सान्तपनं चैकं शीघ्रं मुच्यन्ति किल्बिषात्

130.24

न तस्य चापराधोऽस्ति वसुधे वै वचो मम ॥
एवमेव न भोक्तव्यं राजान्नं वै कदाचन ॥
ममात्र पूजाकामेन यदीच्छेत्परमां गतिम्

130.130

इति श्रीवराहपुराणे भगवच्छास्त्रे राजान्नप्रायश्चित्तं नाम त्रिंशदधिकशततमोऽध्यायः

मूल पाठ: varāhapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc