भाषा

ENहिગુ
ग्रंथ पाठ

वराह पुराण · अध्याय 127

127.1

अथ ब्राह्मणदीक्षासूत्रवर्णनम् ॥
सूत उवाच ॥
एवं धर्मांस्ततः श्रुत्वा बहुमोक्षार्थकारणात् ॥
प्रत्युवाच ततो भूमिर्लोकनाथं जनार्दनम्

127.2

अहो प्रभावः क्षेत्रस्य कथ्यमानोऽतिपुष्कलम् .॥
अहं भारभराक्रान्ता लघुर्जातास्मि धावती

127.3

विमोहा च विशुद्धा च शृण्वानाहं त्विमां प्रभो ॥
अहं लोकेषु विख्याता मुखात्तव विनिस्सृता

127.4

पुनः पृच्छामि ते देव संशयं धर्मसंहितम् ॥
येन धर्मविधानेन दीक्षा प्राप्यते पुष्कला

127.5

एतन्मे परमं गुह्यं परं कौतूहलं च मे ॥
धर्मसंग्रहणार्थाय तद्भवान्वक्तुमर्हसि

127.6

ततो महीवचः श्रुत्वा मेघदुन्दुभिनिःस्वनः ॥
वराहरूपी भगवान्प्रत्युवाच वसुन्धराम्

127.7

श्रीवराह उवाच ॥
शृणु तत्त्वेन मे देवि मम धर्मं सनातनम् ॥
देवा एतन्न जानन्ति ये च योगव्रते स्थिता।

127.8

एतं धर्मं वरारोहे मङ्गल्यं मुखनिःसृतम् ॥
अहमेको विजानामि मद्भक्ता ये जना भुवि

127.9

यच्च पृच्छसि मे भद्रे दीक्षां भागवतीं कथाम् ॥
तच्छृणुष्व वरारोहे कर्मसंसारमोक्षणम्

127.127.10

मयोक्तां लभते कश्चिद्दीक्षां चैव सुखावहाम् ॥
चातुर्वर्ण्यविधानेन तां दीक्षां शृणु सुन्दरि

127.11

हरन्ति मनुजा येन गर्भसंसारसागरात् ॥
मयि शान्तं मनः कृत्वा तदुत्कृष्टं च सुन्दरि

127.12

अभिगच्छेद्गुरुं देवि शाधि शिष्योऽस्मि मां गुरो ॥
तदाज्ञां तु पुरस्कृत्य दीक्षाद्रव्यानथाहरेत्

127.13

लाजा मधु कुशाश्चैव घृतं चामृतसन्निभम् ॥
गन्धं सुमनसो धूपं दीपं प्रापणकादिकम्

127.14

कृष्णाजिनं च पालाशं दण्डं चैव कमण्डलुम् ॥
घटं वासः पादुके च शुक्लयज्ञोपवीतकम्

127.15

यन्त्रिकामर्घपात्रं च चरुस्थालीं सदर्विकाम् ॥
तिलव्रीहियवांश्चैव विविधं च फलोदकम्

127.16

भक्ष्यभोज्यान्नपानं च कर्मण्यांश्चैव संचयान् ॥
दीक्षिता यदि भुञ्जन्ति मम कर्मपरायणाः

127.17

यानि कानि च बीजानि रत्नानि विविधानि च ॥
कांचकादीनि सुश्रोणि तानिं शीघ्रमुपाहरेत्

127.18

एतान्येवोपहार्याणि गुरुमूले ततः परम् ॥
स्नात्वा मङ्गलसंयुक्तो दीक्षाकामश्च ब्राह्मणः

127.19

गुरोस्तु चरणौ गृह्य ब्रूहि किं करवाणि ते ॥
ततस्तु गुर्वनुज्ञातो वेदिं कुर्याच्च पुष्कलाम्

127.127.20

ब्राह्मणो दीक्षमाणस्तु चतुरस्रां तु षोडशहस्तां कृत्वा तत्र च कलशोपरि युञ्जेत्

127.21

प्रतिष्ठाप्य विधानेन धान्योपरिदृढं नवम् ॥
जलेन पूरितं मन्त्रैः पुष्पपल्लवशोभितम्

127.22

तस्योपरि तिलैः पूर्णपात्रं स्थाप्य विधानतः ॥
पूजयेन्मां गुरुं द्रव्यैः शिष्येणैवोपकल्पितैः

127.23

तत्रार्चनविधिं कृत्वा गुरुधर्मविनिश्चयः ॥
पूर्वोक्तानि च द्रव्याणि वेदिमध्यमुपाहरेत्

127.24

चतुरः कलशान्दद्याच्चतुष्पार्श्वेषु सुन्दरि ॥
वारिपूर्णान्द्विजाञ्छुद्धान्सहकारविभूषितान्

127.25

सर्वतः शुक्लसूत्रेण वेष्टयेत तथानघे ॥
पूर्ण पात्राणि चत्वारि चतुष्पार्श्वेषु स्थापयेत्

127.26

एवं मन्त्रं ततः कृत्वा दद्याद्दीक्षाप्रयोजकः ॥
स च मन्त्रो यथान्यायं येन वा तुष्यते गुरुः

127.27

यथान्यायं च संगृह्य गुरुकर्मविनिश्चितः ॥
प्रपद्यावसथं विष्णोर्दीक्षाणां परिकाङ्क्षिणः

127.28

उपस्पृश्य यथान्यायं भूत्वा पूर्वमुखस्ततः ॥
सर्वांस्तु श्रावयेच्छिष्यान्दीक्षणार्थं न संशयः

127.29

यस्तु भागवतान्दृष्ट्वा स्वयं भागवतः शुचिः ॥
अभ्युत्थानं न कुर्वीत तेनाहं तु विहिंसितः

127.127.30

कन्यां दत्त्वा पुनस्तांस्तु कर्मणा नोपपादयेत् ॥
अष्टौ पितृगणास्तेन हिंसिता नात्र संशयः

127.31

भार्यां प्रियसखीं यस्तु साध्वीं हिंसति निर्घृणः ॥
न तेन तां प्राप्नुवन्ति हिंसका दुष्टयोनिजाः

127.32

ब्रह्मघ्नश्च कृतघ्नश्च गोघ्नश्च कृतपातकाः ॥
एताञ्छिष्यान् विवर्जेत उक्ता ये चान्यपातकाः

127.33

बिल्ववृक्षोदुम्बरौ च तथा चान्ये कदाचन ॥
कर्मण्याश्चैव ये वृक्षा न च्छेत्तव्याः कदाचन

127.34

यदीच्छेत्परमां सिद्धिं मोक्षधर्मं सनातनम् ॥
भक्ष्याभक्ष्यं च तं शिष्यं वेदितव्यं तदन्तरे

127.35

करीरस्य वधः शस्तः फलान्यौदुम्बरस्य च ॥
सद्योभक्षा भवेत्तेन अभक्ष्या पूतिवासिका

127.36

न भक्षणीयं वाराहं मांसं मत्स्याश्च सर्वशः ॥
अभक्ष्या ब्राह्मणैरेते दीक्षितैश्च न संशयः

127.37

परीवादं न कुर्वीत न हिंसां वा कदाचन ॥
पैशुन्यं न च कर्त्तव्यं स्तैन्यं वापि कदाचन

127.38

अतिथिं चागतं दृष्ट्वा दूराध्वानं गतं क्वचित् ॥
संविभागस्तु कर्त्तव्यो येन केनापि पुत्रक

127.39

गुरुपत्नी राजपत्नी ब्राह्मणस्त्री कदाचन ॥
मनसापि न गन्तव्या एवं विष्णुः प्रभाषते

127.127.40

कनकादीनि रत्नानि यौवनस्था च कामिनी ॥
तत्र चित्तं न कर्तव्यमेवं विष्णुः प्रभाषते

127.41

दृष्ट्वा परस्य भाग्यानि आत्मनो व्यसनं तथा ॥
तत्र मन्युर्न कर्त्तव्यं एवं धर्मः सनातनः

127.42

एवं ततः श्रावयीत दीक्षाकामं वसुन्धरे ॥
छत्रं चोपानहं चैव मनसा चोपकल्पयेत्

127.43

द्वे द्वे औदुम्बरस्य पत्रे वेदिमध्ये तु स्थापयेत् ॥
क्षुरं चैव वरारोहे जलपूर्णं च भाजनम्

127.44

ममावाहनपूर्वं तु मन्त्रेण विधिनार्चयेत् ॥
मन्त्रः-
ॐ सप्त सागराश्च सप्तद्वीपानि सप्त पवर्ताश्च दश स्वर्गसहस्राश्च समस्ताश्च नमोऽस्तु सर्वास्ते हृदये वसन्ति॥
यश्चैतद्वर्षति पुनरुन्नमति

127.45

ॐ भगवन्वासुदेव ममैतत्सारय युक्तं वराहरूपसृष्टेन पृथिव्यां तु मन्त्रानुस्मरणं च आज्ञापयानुभावनास्माकमाज्ञप्तमनुचिन्तयित्वा भगवन्नागच्छ दीक्षाकामविप्रस्त्वत्प्रसादात्तु दीक्षति

127.46

एतन्मन्त्रमुदाहृत्य शिरसा जानुभ्यामवनिं गतेन भवितव्यम्

127.47

ॐ स्वागतं स्वागतवानिति

127.48

तत एतेन मन्त्रेण आनयित्वा वसुन्धरे ॥
अर्घ्यं पाद्यं च दातव्यं मन्त्रेण विधिनिश्चयात्

127.49

मन्त्रः-
अकृतघ्ने देवानसुराकृतघ्नरुद्रेण ब्राह्मणाय च लब्धं सर्वमिमां भगवतेऽस्तु दत्तं प्रतिगृह्णीष्व च लोकनाथ

127.127.50

एवं भूमे ततो दत्त्वा अर्घ्यं पाद्यं च कर्मणा॥
क्षुरं गृहीत्वा यथान्यायमिमं मन्त्र मुदीरयेत्

127.51

मन्त्रः –
एवं वरुणः पातु शिष्य ते वपतः शिरः ॥
जलेन विष्णुयुक्तेन दीक्षा संसारमोक्षणम्

127.52

एकस्य कलशं दद्यात्कर्मकारस्य सुन्दरि ॥
निष्कलं तु शिरः कृत्वा शोणितेन विवर्जितम्

127.53

पुनः स्नानं ततः कृत्वा शीघ्रमेव न संशयः॥
एतस्य विधिवत्कृत्वा दीक्षाकामस्य सुन्दरि

127.54

दत्त्वा संसारमोक्षाय सर्वकामविनिश्चितः॥
जानुभ्यामवनिं गत्वा इमं मन्त्रमुदीरयेत्

127.56

मन्त्रः -
ॐ वेदाम्यहं भागवतांश्च सर्वान् सुदीक्षिता ये गुरवश्च सर्वे ॥
विष्णुप्रसादेन च लब्धदीक्षा मम प्रसीदन्तु नमामि सर्वान् ॥५५।
नत्वा तु भगवद्भक्तान् प्रज्वाल्य च हुताशनम् ॥
घृतेन मधुमिश्रेण लाजाकृष्णतिलैस्तथा

127.57

सप्तवारांस्ततो दत्त्वा विंशतिं च तिलोदनम् ॥
जानुभ्यामवनिं गत्वा इमं मन्त्रमुदाहरेत्

127.58

मन्त्रः –
अश्विनौ दिशः सोमसूर्यौ साक्षिमात्रं वयं प्रसन्नाः शृण्वन्तु मे सत्यवाक्यं वदामि

127.59

सत्येन धार्यते भूमिर्भूमिः सत्येन तिष्ठति ॥
सत्येन गच्छते सूर्यो वायुः सत्येन वाति च

127.127.60

एवं सत्यं ततः कृत्वा ब्राह्मणा वीक्षणं पुनः॥
गुरुं प्रसादेयत्तत्र मन्त्रेण विधिनार्च्चयन्

127.61

तिस्रः प्रदक्षिणाः कृत्वा देवं भागवतं गुरुम् ॥
गुरुपादौ तु संगृह्य इमं मन्त्रमुदीरयेत्

127.62

मन्त्रः –
गुरुदेवप्रसादेन लब्धा दीक्षा यदृच्छया ॥
यच्चैवापकृतं किंचिद्गुरुर्मर्षयतां मम

127.63

एवं प्रसादयित्वा तु शिष्यो मन्त्रेण सुन्दरि ॥
वेदिमध्ये स्थापयित्वा भूत्वा पूर्वमुखस्ततः

127.64

शिष्यमेव यतो दृष्ट्वा गृहीत्वा च कमण्डलुम् ॥
शुक्लयज्ञोपवीतं च इमं मन्त्रमुदाहरेत्

127.65

मन्त्रः –
विष्णुप्रसादेन गतोऽसि सिद्धिं प्राप्ता च दीक्षा सकमण्डलुश्च ॥
गृहीत्वा तु कराभ्यां युक्तोऽसि कर्मणा क्रियायां चैव

127.66

ततो मुखपदं कृत्वा दीक्षितो गुरुणा तथा ॥
सर्वप्रदक्षिणं कृत्वा इमं मन्त्रमुदाहरेत्

127.67

अधोऽधो भूत्वा यद्यहं भ्राम्यल्लँब्धो गुरुर्विष्णुदीक्षा च लब्धा ॥
तव प्रसादाच्च गुरो यथा च

127.68

एतेन मन्त्रेण मुखपदं कारयेत् ॥
शौचसेके वै कुर्याद्देवान्तन्तुवाससम्

127.69

एवं वै वास आदत्ते गृह्ण वत्स कमण्डलुम् ॥
इमं लोकेषु विख्यातं शोधनं सर्वकर्मसु

127.127.70

मन्त्रः –
गृह्णीष्व गन्धपात्राणि सर्वगन्धं सुखोचितम् ॥
सर्ववैष्णवकं शुद्धं सर्वसंसारमोक्षणम्

127.71

मधुपर्कं गृहीत्वा च त्विमं मन्त्रमुदीरयेत् ॥
मन्त्रः –
गृहाण मधुपर्कं च प्रार्थकाय विशोधनम्

127.72

ततो गृहीत्वा चरणौ गुरोर्यत्नात्सुतोषयेत् ॥
शिरसा चाञ्जलिं कृत्वा मनश्चैव सुसंयतम् ॥
गुरूपदिष्टं सन्धार्य इमं मन्त्रमुदीरयेत्

127.73

मन्त्रः –
शृण्वन्तु मे भागवतास्तु सर्वे गुरुश्च मे सर्वकामक्षयं चकार ॥
अहं शिष्यो दासभूतस्तथैव देवसमो गुरुश्च मे तथोपपन्नम्

127.74

एषागमे ब्राह्मणस्य दीक्षा भूमे ह्युदाहृता ॥
त्रयाणामथ वर्णानां मम दीक्षाविधीञ्छृणु

127.79

एतेनैव विधानेन दीक्षयेत वसुन्धरे ॥
उभौ च प्राप्नुतां सिद्धिमाचार्यः शिष्य एव च

127.127

इति श्रीवराहपुराणे ब्राह्मणदीक्षासूत्रं नाम सप्तविंशत्यधिकशततमोऽध्यायः

मूल पाठ: varāhapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc