भाषा

ENहिગુ
ग्रंथ पाठ

वराह पुराण · अध्याय 116

116.1

अथ सुखदुःखनिरूपणम्॥
श्रीवराह उवाच ॥
मया प्रोक्तविधानेन यस्तु कर्माणि कारयेत् ॥
तच्छृणुष्व महाभागे यो साफल्यमाप्नुयात्

116.2

एकचित्तः समास्थाय अहङ्कारविवर्ज्जितः ॥
मच्चित्तसंहतो नित्यं क्षान्तो दांतो जितेन्द्रियः

116.3

फलमूलानि शाकानि द्वादश्यां वा कदाचन॥
पयोव्रतं च तत्काले पुनरेव निरामिषः

116.4

षष्ठ्यष्टमी ह्यमावास्या तूभयत्र चतुर्दशी ॥
मैथुनं नाभिसेवेत द्वाद्वश्यां च तथा प्रिये

116.5

एवं योगविधानेन कर्म कुर्याद्दृढव्रतः ॥
पूतात्मा धर्मसंयुक्तो विष्णुलोकं तु गच्छति

116.6

न ग्लानिर्न जरा तस्य न मोहो रोग एव च ॥
भुजाष्टादश जायन्ते धन्वी खड्गी शरी गदी

116.7

तेषां व्युष्टिं प्रवक्ष्यामि मम कर्मसमुत्थिताम् ॥
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च

116.8

ममार्चनविधिं कृत्वा मम लोके महीयते ॥
दुःखमेवं प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे

116.9

उचितेनोपचारेण दुःखमोक्षविनाशनम् ॥
अहङ्कारावृतो नित्यं नरो मोहेन चावृतः

116.116.10

यो मां नैव प्रपद्येत ततो दुःखतरं नु किम् ॥
सर्वाशी सर्वविक्रेता नमस्कारविवर्जितः

116.11

यो न मां प्रतिपद्येत ततो दुःखतरं नु किम् ॥
प्राप्तकाले वैश्वदेवे दृष्ट्वा चातिथिमागतम्

116.12

अदत्त्वा तस्य यो भुंक्ते ततो दुःखतरं नु किम् ॥
सर्वान्नानि तु सिद्धानि पाकभेदं करोति यः

116.13

तस्य देवा न चाश्नन्ति ततो दुःखतरं नु किम् ॥
असन्तुष्टस्तु वैषम्ये परदाराभिमर्शकः

116.14

परोपतापी मन्दात्मा ततो दुःखतरं नु किम् ॥
अकृत्वा पुष्कलं कर्म गृहे संवसते नरः

116.15

मृत्युकालवशं प्राप्तस्ततो दुःखतरं नु किम् ॥
हस्त्यश्वरथयानानि गम्यमानानि पश्यति

116.16

धावन्त्यस्याग्रतः पृष्ठे ततो दुःखतरं नु किम् ॥
अश्नन्ति पिशितं केचित्केचिच्छालिसमन्वितम्

116.17

शुष्कान्नं केचिदश्नन्ति ततो दुःखतरं नु किम् ॥
वरवस्त्रावृतां शय्यां समासेवति भूषिताम्

116.18

केचित्तृणेषु शेरन्ते ततो दुःखतरं नु किम् ॥
सुरूपो दृश्यते कश्चित्पुरुषश्चात्मकर्मभिः

116.19

केचिद्विरूपा दृश्यन्ते ततो दुःखतरं नु किम् ॥
विद्वान् कृती गुणज्ञश्च सर्वशास्त्रविशारदः

116.116.20

केचिन्मूकाश्च दृश्यन्ते ततो दुःखतरं नु किम् ॥
विद्यमाने धने केचित्कृपणा भोगवर्जिताः

116.21

दरिद्रो जायते दाता ततो दुःखतरं नु किम् ॥
द्विभार्यः पुरुषो यस्तु तयोरेकां प्रशंसति

116.22

एका तु दुर्भगा तत्र ततो दुःखतरं नु किम् ॥
ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णाः सुमध्यमे

116.23

पापकर्मरता ह्यासन्ततो दुःखतरं नु किम् ॥
लब्ध्वा तु मानुषीं संज्ञां पंचभूत समन्विताम्

116.24

मामेव न प्रपद्यन्ते ततो दुःखतरं नु किम् ॥
एतत्ते कथितं भद्रे दुःखकर्मविनिश्चयम्

116.25

सर्वभूताहितं पापं यत्त्वया परिपृच्छितम् ॥
यच्च मां पृच्छते भद्रे शुभं कीदृशमुच्यते

116.26

तच्छृणुष्वानवद्याङ्गि मम कर्मविनिश्चयम् ॥
कृत्वा तु विपुलं कर्म मद्भक्तेषु निवेदयेत्

116.27

यस्य बुद्धिर्विजायेत स दुःखायोपजायते ॥
मां पूजयित्वा नैवेद्यं विशिष्टं परिकल्प्य च

116.28

शेषमन्नं समश्नाति ततः सौख्यतरं नु किम् ॥
त्रिकालं ये प्रपद्यन्ते मयोक्तेन वसुन्धरे

116.29

कृत्वा सायाह्निकं कर्म ततः सौख्यतरं नु किम् ॥
देवतातिथिमर्त्त्यानां त्यक्त्वा चान्नं वसुन्धरे

116.116.30

यश्चात्मा वै समश्नाति ततः सौख्यतरं नु किम् ॥
प्रविष्टस्त्वतिथिर्यस्य निराशो यन्न गच्छति

116.31

येन केनचिद्दत्तेन ततः सौख्यतरं नु किम् ॥
मासि मास्येकदिवसस्त्वमावास्येति योच्यते

116.32

पितरो यस्य तृप्यन्ति ततः सौख्यतरं नु किम् ॥
भोजनेषु प्रपन्नेषु यवान्नं यः प्रयच्छति

116.33

अभिन्नमुखरागेण ततः सौख्यतरं नु किम् ॥
उभयोरपि भार्यासु यस्य बुद्धिर्न नश्यति

116.34

समं पश्यति यो देवि ततः सौख्यतरं नु किम् ॥
अहिंसनं तु कुर्वीत विशुद्धेनान्तरात्मना

116.35

अहिंसोपरतः शुद्धः स सुखायोपजायते ॥
परभार्यां सुरूपां तु दृष्ट्वा दृष्टिर्न चाल्यते

116.36

यस्य चित्तं न गच्छेत्तु ततः सौख्यतरं नु किम् ॥
मौक्तिकादीनि रत्नानि तथैव कनकानि च

116.37

लोष्टवत्पश्यते यस्तु ततः सौख्यतरं नु किम् ॥
मुदिते वाश्वनागेन्द्रे उभे सैन्ये पथि स्थिते

116.38

यस्तु प्राणान्प्रमुच्येत ततः सौख्यतरं नु किम्॥
लब्धेन चाप्यलब्धेन कुत्सितं कर्म गर्हयन्

116.39

यस्तु जीवति संतुष्टः स सुखायोपपद्यते ॥
भर्तुस्तु वै व्रतं स्त्रीणामेवमेव वसुन्धरे

116.116.40

या तोषयति भर्त्तारं ततः सौख्यतरं नु किम् ॥
विद्यते विभवेनापि पुरुषो यस्तु पण्डितः

116.41

निगृहीतेन्द्रियः पंच ततः सौख्यतरं नु किम् ॥
सहते चावमानं तु व्यसने न तु दुर्मनाः

116.42

यस्येदं विदितं सर्वं ततः सौख्यतरं नु किम् ॥
अकामो वा सकामो वा मम क्षेत्रे वसुंधरे

116.43

यस्तु प्राणान्प्रमुच्येत ततः सौख्यतरं नु किम् ॥
मातरं पितरं चैव यः सदा पूजयेन्नरः

116.44

देवतेव सदा पश्येत्ततः सौख्यतरं नु किम् ॥
ऋतुकाले तु यो गच्छेन्मासेमासे च मैथुनम्

116.45

अनन्यमानसो भूत्वा ततः सौख्यतरं नु किम्॥
प्रयुक्तः सर्वदेवानां यो मामेवं प्रपूजयेत्

116.46

तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥
एतत्ते कथितं भद्रे शुभनिर्देशनिश्चयः ॥
सर्वलोकहितार्थाय यन्मां त्वं परिपृच्छसि

116.116

इति श्रीवराहपुराणे सुखदुःखनिरूपणं नाम षोडशाधिकशततमोऽध्यायः

मूल पाठ: varāhapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc