भाषा

ENहिગુ
ग्रंथ पाठ

वराह पुराण · अध्याय 115

115.1

अथ विविधधर्मोत्पत्तिः ॥
ततो महीवचः श्रुत्वा देवो नारायणोऽब्रवीत् ॥
कथयिष्यामि ते देवि कर्म स्वर्गसुखावहम्

115.2

यत्त्वया पृच्छ्यते देवि तच्छृणुष्व वसुन्धरे ॥
स्थितिं सत्तां तु मर्त्यानां भक्त्या ये च व्यवस्थिताः

115.3

नाहं दानसहस्रेण नाहं यज्ञशतैरपि ॥
तुष्यामि न तु वित्तेन ये नराः स्वल्पचेतसः

115.4

एकचित्तं समाधाय यो मां जानाति माधवि ॥
नित्यं तुष्यामि तस्याहं पुरुषं बहुदोषकम्

115.5

यच्च पृच्छसि मां भद्रे कर्म स्वर्गसुखावहम् ॥
तच्छृणुष्व वरारोहे गदतो मे शुचिस्मिते

115.6

ये नमस्यति मां नित्यं पुरुषा बहुचेतसः ॥
अर्द्धरात्रेऽन्धकारे च मध्याह्ने वापराह्णके

115.7

यस्य चित्तं न नश्येत मम भक्तिव्यवस्थितम् ॥
द्वादश्यामुपवासं तु यः कुर्यान्मम तत्परः

115.8

ते मामेव प्रपश्यन्ति मयि भक्तिपरायणाः ॥
लब्धचेतो गुणज्ञश्च नरो भक्तिव्यवस्थितः

115.9

इच्छयाऽपि भवेद्भद्रे स्वर्गे वसति सुन्दरि ॥
स्वल्पकेन न गम्यन्ते दुष्प्राप्योऽहं वरानने

115.115.10

यानि कर्माणि कुर्वन्तु मां प्रपश्यन्ति माधवि ॥
तानि ते कथयिष्यामि येन भक्त्या व्यवस्थिताः

115.11

द्वादश्यामुपवासं तु ये च कुर्वन्ति ते नराः ॥
तेषामेव प्रपश्यन्ति मम भक्तिपरायणाः

115.12

कृत्वा चैवोपवासं प्रगृह्य चैव जलाञ्जलिम् ॥
नमो नारायणेत्युक्त्वा आदित्यं चावलोकयेत्

115.13

यावन्तो बिन्दवः किंचित्पतन्त्येवाञ्जलेर्जलात् ॥
तावद्वर्षसहस्राणि स्वर्गलोके महीयते

115.14

अथ चैव तु द्वादश्यां पुरुषा धर्मवादकाः॥
विधिना च प्रयत्नेन ये मां कुर्वन्ति मानुषाः

115.15

पाण्डुरैश्चैव पुष्पैश्च मृष्टैर्धूपैस्तु धूपयेत्॥
यो मे धारयते भूमौ तस्यापि शृणु या गतिः

115.16

दत्त्वा शिरसि पुष्पाणि इमं मन्त्रमुदीरयेत् ॥
हृदि कृत्वा तु मन्त्रांश्च शुक्लाम्बरधरो धरे

115.17

सुमान्यः सुमना गृह्य प्रीयतां भगवान्हरिः

115.18

नमोऽस्तु विष्णवे व्यक्ताव्यक्तगन्धिगन्धान्सुगन्धान्वा गृह्ण गृह्ण नमो भगवते विष्णवे ॥
अनेन मन्त्रेण गन्धं दद्यात् ॥
श्रुत्वा प्रत्यागतमाधारसवनं पतये भवं प्रविष्टं मे धूप धूपनं गृह्णातु मे भगवानच्युतः ॥
अनेन मन्त्रेण धूपं दद्यात्

115.19

श्रुत्वा चैवं च शास्त्राणि यो मामेव तु कारयेत् ॥
मम लोकं च गच्छेत जायेतैव चतुर्भुजः

115.115.20

एतत्ते कथितं देवि श्रेष्ठं चैव मम प्रियम् ॥
तव चैवं प्रियार्थाय मन्त्रपूजां सुखावहम्

115.21

श्यामाकं स्वस्तिकं चैव गोधूमं मुद्गकं तथा ॥
शालयस्तु यवाश्चैव तथा नीवारकाङ्गुकाः

115.22

एतानि यस्तु भुञ्जीत मम कर्मपरायणः ॥
शङ्खं चक्रं लाङ्गलं च मुसलं स च पश्यति

115.23

ब्राह्मणस्य तु वक्ष्यामि शृणु कर्म वसुन्धरे ॥
यानि कर्माणि कुर्वीत मम भक्तिपरायणः

115.24

षट्कर्मनिरतो भूत्वा अहङ्कारविवर्ज्जितः ॥
लाभालाभं परित्यज्य भिक्षाहारो जितेन्द्रियः

115.25

मम कर्मसमायुक्तः पैशुन्येन विवर्जितः ॥
शास्त्रानुसारिमध्यस्थो नवृद्धशिशुचेतनः

115.26

एतद्वै ब्रह्मणः कर्म एकचित्तो जितेन्द्रियः ॥
इष्टापूर्तं च कुरुते स मामेति वसुन्धरे

115.27

क्षत्रियाणां प्रवक्ष्यामि मम कर्मसु तिष्ठताम् ॥
यानि कर्माणि कुर्वीत क्षत्रियो मध्यसंस्थितः

115.28

दानशूरश्च कर्मज्ञो यज्ञेषु कुशलः शुचिः ॥
मम कर्मसु मेधावी अहङ्कारविवर्जितः

115.29

अल्पभाषी गुणज्ञश्च नित्यं भागवतप्रियः ॥
गुरुविद्योऽनसूयश्च निन्द्यकर्मविवर्जितः

115.115.30

अभ्युत्थानादिकुशलः पैशुन्येन विवर्जितः॥
एतैर्गुणैः समायुक्तो यो मां व्रजति क्षत्रियः

115.31

भजते मम यो नित्यं मम लोकाय गच्छति ॥
वैश्यानां तु प्रवक्ष्यामि मम कर्मसु तिष्ठताम्

115.32

यानि कर्माणि कुरुते मम भक्तिपथे स्थितः ॥
एतैर्गुणैः स्वधर्मेण लाभालाभविवर्जितः

115.33

ऋतुकालाभिगामी च शान्तात्मा मोहवर्जितः ॥
शुचिर्दक्षो निराहारो मम कर्मरतः सदा

115.34

गुरुसम्पूजको नित्यं युक्तो भक्तानुवत्सलः ॥
वैश्योऽप्येवं सुसंयुक्तो यस्तु कर्माणि कारयेत्

115.35

तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ ॥
अथ शूद्रस्य वक्ष्यामि कर्माणि शृणु माधवि

115.36

कर्माणि यानि कृत्वा ह शूद्रो मह्यं व्यवस्थितः ॥
दम्पती मम भक्तौ यो मम कर्म परायणौ

115.37

उभौ भागवतौ भक्तौ मद्भक्तौ कर्मनिष्ठितौ ॥
देशकालौ च वानीतौ रजसा तमसोज्झितौ

115.38

निरहङ्कारशुद्धात्मा आतिथेयो विनीतवान् ॥
श्रद्दधानोऽतिपूतात्मा लोभमोहविवर्जितः

115.39

नमस्कारप्रियो नित्यं मम चिन्ताव्यवस्थितः ॥
शूद्रः कर्माणि मे देवि य एवं सममाचरेत्

115.115.40

त्यक्त्वा ऋषिसहस्राणि शूद्रमेव भजाम्यहम् ॥
चातुर्वर्ण्यस्य कर्माणि यत्त्वया परिपृच्छितम्

115.41

एवं कर्मगुणाश्चैव येन भक्त्या व्यवस्थितः ॥
सर्ववर्णाश्च मां देवि अपरं क्षत्रिये शृणु

115.42

येन तत्प्राप्यते योगं तच्छृणुष्व वसुन्धरे ॥
त्यक्त्वा लाभमलाभं च मोहं कामं च वर्जयेत्

115.43

न शीतं च न चोष्णे च लब्धाऽलब्धं विचिन्तयेत् ॥
न तिक्तेनास्ति कटुना मधुराम्लैर्न लावणैः

115.44

न कषायैः स्पृहा यस्य प्राप्नुयात्सिद्धिमुत्तमाम् ॥
भार्या पुत्राः पिता माता उपभोगार्थसंयुतम्

115.45

य एतान् हि परित्यज्य मम कर्मरतः सदा ॥
धृतिज्ञः कुशलश्चैव श्रद्दधानो धृतव्रतः

115.46

तत्परो नित्यमुद्युक्तः अन्यकार्यजुगुप्सकः ॥
बाले वयसि कल्पश्च अल्पभोगी कुलान्वितः

115.47

कारुण्यः सर्वसत्त्वानां प्रत्युत्थायी महाक्षमः ॥
काले मौनक्रियां कुर्याद्यावत्तत्कर्म कारयेत्

115.48

त्रिकालं च दिशो भागं सदा कर्मपथि स्थितः ॥
उपपन्नानभुञ्जानः कर्माण्यभोजनानि च

115.49

अनुष्ठानपरश्चैव मम पार्श्वे मनश्चरः ॥
काले मूत्रपुरीषाणि विसृज्य स्नानवत्सलः

115.115.50

पुष्पे गन्धे च धूपे च मत्कर्मणि सदा रतः ॥
कदाचित्कन्दमूलानि फलानि च कदाचन

115.51

पयसा यावकेनापि कदाचिद्वायुभक्षणः ॥
कदाचित्षष्ठकालेन क्वचिद्दृष्टमहाफलः

115.52

कदाचित्तु चतुर्थेन कदाचित्फलमेव च ॥
कदाचिद्दशमे भुञ्जेत्पक्षे मासे वसुन्धरे

115.53

य एतत्सप्त जन्मानि मम कर्माणि कुर्वते ॥
योगिनस्तान्प्रपश्यन्ति पूर्वोक्तान्कर्मसु स्थितान्

115.115

इति श्रीवराहपुराणे विविधकर्मोत्पत्तौ पंचदशाधिकशततमोऽध्यायः

मूल पाठ: varāhapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc