भाषा

ENहिગુ
ग्रंथ पाठ

वराह पुराण · अध्याय 106

106.1

अथ दधिधेनुदान माहात्म्यम् ॥
होतोवाच ॥
दधिधेनोर्महाराज विधानं शृणु सांप्रतम् ॥
अनुलिप्ते महीभागे गोमयेन नराधिपः

106.2

गोचर्ममात्रं तु पुनः पुष्पप्रकरशोभिते ॥
कुशैरास्तीर्य वसुधां कृष्णाजिनकुशोत्तरीम्

106.3

दधिकुम्भं तु संस्थाप्य सप्तधान्यचयोपरि ॥
चतुर्थांशेन वत्सं तु सौवर्णं मुखमण्डितम्

106.4

आच्छाद्य वस्त्रयुग्मेन पुष्पगन्धैस्तु पूजिताम् ॥
ब्राह्मणाय कुलीनाय साधुवृत्ताय धीमते

106.5

क्षमादिगुणयुक्ताय दद्यात्तां दधिधेनुकाम् ॥
पुच्छदेशोपविष्टस्तु मुद्रिकाकर्णभूषणैः

106.6

पादुकोपानहौ छत्रं दत्त्वा मंत्रमिमं पठेत् ॥
दधिक्राव्णेति मंत्रेण दद्याद्धेनुं सुपूजिताम्

106.7

एवं दधिमयीं धेनुं दत्त्वा राजर्षिसत्तम ॥
एकाहारी दिनं तिष्ठेद्दध्ना च नृपनन्दन

106.8

यजमानो वसेद्राजंस्त्रिरात्रं च द्विजोत्तमः ॥
दीयमानां प्रपश्यन्ति ते यान्ति परमं पदम्

106.9

य इदं शृणुयाद्भक्त्या श्रावयेद्वापि मानवः ॥
सोऽश्वमेधफलं प्राप्य विष्णुलोकं च गच्छति

106.106

इति श्रीवराहपुराणे श्वेतविनीताश्वापोख्याने दधिधेनुदानमाहात्म्यंनाम षडधिकशततमोऽध्यायः

मूल पाठ: varāhapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc