भाषा

ENहिગુ
ग्रंथ पाठ

वराह पुराण · अध्याय 105

105.1

अथ क्षीरधेनुदानविधिः ॥
होतोवाच ॥
क्षीरधेनुं प्रवक्ष्यामि तां निबोध नराधिप ॥
अनुलिप्ते महीपृष्ठे गोमयेन नृपोत्तम

105.2

गोचर्ममात्रमानेन कुशानास्तीर्य सर्वतः ॥
तस्योपरि महाराज न्यसेत्कृष्णाजिनं बुधः

105.3

तत्र कृत्वा कुण्डलिकां गोमयेन सुविस्तृताम् ॥
क्षीरकुम्भं ततः स्थाप्य चतुर्थांशेन वत्सकम्

105.4

सुवर्णमुखशृङ्गाणि चन्दनागुरुकाणि च ॥
प्रशस्तपत्रश्रवणां तिलपात्रोपरि न्यसेत्

105.9

मुखं गुडमयं तस्या जिह्वां शर्करया तथा ॥
फलप्रशस्तदशनां मुक्ताफलमयेक्षणाम्

105.6

इक्षुपादां दर्भरोमां सितकम्बलसंवृताम् ॥
ताम्रपृष्ठां कांस्यदोहां पट्टसूत्रमयीं शुभाम्

105.7

पुच्छं च नृपशार्दूल नवनीतमयस्तनीम्॥
स्वर्णशृङ्गीं रौप्यखुरां पञ्चरत्नसमन्विताम्

105.8

चत्वारि तिलपात्राणि चतुर्दिक्ष्वपि विन्यसेत् ॥
सप्तधान्ययुतं पात्रे दिक्षु दिक्षु च विन्यसेत्

105.9

एवं लक्षणसंयुक्तां क्षीरधेनुं प्रकल्पयेत् ॥
आच्छाद्य वस्त्रयुग्मेन गन्धपुष्पैः समर्चयेत्

105.105.10

धूपदीपादिकं कृत्वा ब्राह्मणाय निवेदयेत् ॥
वस्त्रादिभिरलंकृत्य मुद्रिकाकर्णकुण्डलैः

105.11

पादुकोपानहौ छत्रं दत्त्वा दानं समर्पयेत् ॥
दद्यादनेन मन्त्रेण क्षीरधेनुं प्रयत्नतः

105.12

आप्यायस्वेति मन्त्रेण वेदोक्तेन विधानतः ॥
आश्रयः सर्वभूतानामित्यादि नरपुङ्गव

105.13

आप्यायस्वेति मन्त्रेण क्षीरधेनुं प्रसादयेत् ॥
प्रतिग्राही पठेन्मन्त्रमेष दानविधिः स्मृतः

105.14

दीयमानां प्रपश्यन्ति ते यान्ति परमां गतिम् ॥
एतां हेमसहस्रेण शतेनाथ स्वशक्तितः

105.15

दत्वा धेनुं महाराज शृणु तस्यापि यत्फलम् ॥
षष्टिवर्षसहस्रं तु इन्द्रलोके महीयते

105.16

पित्रादिभिश्च सहितो ब्रह्मणो भवनं व्रजेत् ॥
दिव्यं विमानमारूढो दिव्यस्रगनुलेपनः

105.17

क्रीडित्वा सुचिरं कालं विष्णुलोकं स गच्छति ॥
द्वादशादित्यसंकाशे विमानवरमण्डिते

105.19

गीतवादित्रनिर्घोषैरप्सरोभिश्च सेविते ॥
तत्रोष्य विष्णोर्भवने विष्णुसायुज्यमाप्नुयात् ॥१८।
यं इमं शृणुयाद्राजन्पठेद्वा भक्तिभावतः॥
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति

105.105

इति श्रीवराहपुराणे श्वेतविनीताश्वापोख्याने क्षीरधेनुदानविधिर्नाम पञ्चाधिकशततमोऽध्यायः

मूल पाठ: varāhapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc