भाषा

ENहिગુ
ग्रंथ पाठ

वामनपुराण, सरोमाहात्म्य · अध्याय 7

7.1

इति श्रीवामनपुराणे सरोमाहात्म्ये षष्ठो ऽध्यायः
लोमहर्षण उवाच ।
एवं स्तुतो ऽथ भगवान् वासुदेव उवाच ताम् ।
अदृश्यः सर्वभूतानां तस्याः संदर्शने स्थितः

7.2

श्रीभगवानुवाच
मनोरथांस्त्वमदिते यानिच्छस्यभिवाञ्छितान् ।
तांस्त्वं प्राप्यसि धर्मज्ञे मत्प्रसादान्न संशयः

7.3

शृणु त्वं च महाभागे वरो यस्ते हृति स्थितः ।
मद्दर्शनं हि विफलं न कदाचिद् भविष्यति

7.4

यश्चेह त्वद्वने स्थित्वा त्रिरात्रं वै करिष्यति ।
सर्वे कामाः समृध्यन्ते मनसा यानिहेच्छति

7.5

दूरस्थो ऽपि वनं यस्तु अदित्याः स्मरते नरः ।
सो ऽपि याति परं स्थानं किं पुनर्निवसन् नरः

7.6

यश्चेह ब्राह्मणान् पञ्च त्रीन् वा द्वावेकमेव वा ।
भोजयेच्छ्रद्धया युक्ताः स याति परमां गतिम्

7.7

अदितिरुवाच
यदि देव प्रसन्नस्त्वं भक्त्या मे भक्तवत्सल ।
त्रैलोक्याधिपतिः पुत्रस्तदस्तु मम वासवः

7.8

हृतं राज्यं हृतश्चास्य यज्ञभाग इहासुरैः ।
त्वयि प्रसन्ने परद तत् प्राप्नोतु सुतो मम

7.9

हृतं राज्यं न दुःखाय मम पुत्रस्य केशव ।
प्रपन्नदायविभ्रंशो बाधां मे कुरुते हृति

7.10

श्रीभगवानुवाच
कृतः प्रसादो हि मया तव देवि यथेप्सितम् ।
स्वांशेन चैव ते गर्भे संभविष्यामि कश्यपात्

7.11

तव गर्भे समुद्भूतस्ततस्ते ये त्वरातयः ।
तानहं च हनिष्यामि निवृत्ता भव नन्दिनि

7.12

अदितिरुवाच
प्रसीद देवदेवेश नमस्ते विश्वभावन ।
नाहं त्वामुदरे वोढुमीश शक्ष्यामि केशव ।
यस्मिन् प्रतिष्ठितं सर्वं विश्वयोनिस्त्वमीश्वरः

7.13

अहं त्वां च वहिष्यामि आत्मानं चैव नन्दिनि ।
न च पीडां करिष्यामि स्वस्ति ते ऽस्तु व्रजाम्यहम्

7.14

इत्युक्त्वान्तर्हिते देवे ऽदितिर्गर्भं समादधे ।
गर्भस्थिते ततः खृष्णे चचाल सरला क्षितिः ।
चकम्पिरे महाशैला जग्मुः क्षोभं महाब्धयः

7.15

यतो यतो ऽदितिर्याति ददाति पदमुत्तमम् ।
ततस्ततः क्षितिः खेदान्ननाम द्विजपुङ्गवाः

7.16

दैत्यानामपि सर्वेषां गर्भस्थे मधुसूदने ।
बभूव तेजसो हानिर्यथोक्तं परमेष्ठिना

मूल पाठ: Vāmanapurāṇa, Saromāhātmya · Edition: A.S. Gupta, Varanasi : All India Kashiraj Trust 1967 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc