भाषा

ENहिગુ
ग्रंथ पाठ

वामनपुराण, सरोमाहात्म्य · अध्याय 6

6.1

इति श्रीवामनपुराणे सरोमाहात्म्ये चतुर्थे ऽध्यायः
कश्यप उवाच
नमो ऽस्तु ते देवदेव एकशृङ्ग वृषार्च्चे सिन्धुवृष वृषाकपे सुरवृष अनादिसंभव रुद्र कपिल विष्वक्सेन सर्वभूतपते ध्रुव धर्मधर्म वैकुण्ठ वृषावर्त अनादिमध्यनिधन धनञ्जय शुचिश्रवः पृश्नितेजः निजय (5) अमृतेशय सनातन त्रिधाम तुषित महातत्त्व लोकनाथ पद्मनाभ विरिञ्चे बहुरूप अक्षय अक्षर हव्यभुज खण्डपरशो शतक्र मुञ्जकेश हंस महादक्षिण हृषीकेश सूक्ष्म महानियमधर विरज लोकप्रतिष्ठ अरूप अग्रज धर्मज धर्मनाभ (10) गभस्तिनाभ शतक्रतुनाभ चन्द्ररथ सूर्यतेजः समुद्रवासः अजः सहस्रशिरः सहस्रपाद अदोमुख महापुरुष पुरुषोत्तम सहस्रबाहो सहस्रमूर्ते सहस्रास्य परुषोत्तम सहस्रबाहो सहस्रमूर्ते सहस्रास्य सहस्रसंभव सहस्रसत्त्वं
त्वमाहुः ।
पुष्पहास चरम त्वमेव वौषट् (15) वषट्कारं त्वामाहुरग्रयं मखेषु प्राशितारं सहस्रधारं च भुश्च भुवश्च स्वश्च त्वमेव वेदवेद्य ब्रह्मशय ब्राह्मणप्रिय त्वमेव द्यौरसि मातरिश्वासि धर्मो ऽसि होता पोता मन्ता नेता होमहेतुस् त्वमेव अग्रय विश्वधाम्ना त्वमेव दिग्भिः सुभाण्ड (20) इज्यो ऽसि सुमेधो ऽसि समिधस्त्वमेव मतिर् गतिर् दाता त्वमसि ।
मोक्षो ऽसि योगो ऽसि ।
सृजसि ।
धाता परमयज्ञो ऽसि सोमो ऽसि दीक्षितो ऽसि दक्षिणासि विश्वमसि ।
स्थविर हिरण्यनाम नारायण त्रिनयन आदित्यवर्म आदित्यतेजः महापुरुष (25) पुरुषोत्तम आदिदेदेव सुविक्रम प्रभाकर शंभो स्वयंभो भूतादिः महाभूतो ऽसि विश्वभूत विश्वं त्वमेव विश्वगोप्तासि पवित्रमसि विश्वभव ऊर्ध्वकर्म अमृत दिवस्पते वाचस्पते घृतार्चे अनन्तकर्म वंश प्रग्वंश विश्वपास्त्वमेव वरार्थिनां वरदो ऽसि त्वम् ।
(30) चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्जभिरेव च ।
हूयते च पुनर्द्वाभ्यां तुभ्यं होत्रात्मने नमः ।
इति श्रीवामनपुराणे सरोमाहात्म्ये पञ्चमो ऽध्यायः
लोमहर्षण उवाच ।
नारायणस्तु भगवाञ्छ्रुत्वैवं परमं स्तवम् ।
ब्रह्मज्ञेन द्विजेन्द्रेण कश्यपेन समीरितम्

6.2

उपाच वचनं सम्यक् तुष्टः पुष्टपदाक्षरम् ।
श्रीमान् प्रीतमना देवो यद्वदेत् प्रभुरीश्वरः

6.3

वरं वृणुध्वं भद्रं वो वरदो ऽस्मि सुरोत्तमाः ।
कश्यप उवाच
प्रीतो ऽसि नः सुरश्रेष्ठ सर्वेषामेव निश्चयः

6.4

वासवस्यानुजो भ्राता ज्ञातीनां नन्दिवर्धनः ।
अदित्या अपि च श्रीमान् भगवानस्त वै सुतः

6.5

अदितिर्देवमाता च एतमेवार्थमुत्तमम् ।
पुत्रार्थं वरदं प्राह भगवन्तं वरार्थिनी

6.6

देवा ऊचुः
निःश्रेयसार्थं सर्वेषां दैवतानां महेश्वर ।
त्राता भर्ता च दाता च शरणं भव नः सदा

6.7

ततस्तानब्रवीद्विष्णुर्देवान् कश्यपमेव च ।
सर्वेषामेव युष्माकं ये भविष्यन्ति शत्रवः ।
मुहूर्तमपि ते सर्वे न स्थास्यन्ति ममाग्रतः

6.8

हत्वासुरागणन् सर्वान् यज्ञभागाग्रभेजिनः ।
हव्यादांश्च सुरान् सर्वान् कव्यादांश्च पितृनपि

6.9

करिष्ये विबुधश्रेष्ठाः पारमेष्ठ्येन कर्मणा ।
यथायातेन सार्गेण निवर्तध्वं सुरोत्तमाः

6.10

लोमहर्षण उवाच
एवमुक्ते तु देवेन विष्णुना प्रभविष्णुना ।
ततः प्रहृष्टमनसः पूजयन्ति स्म तं प्रभुम्

6.11

विश्वेदेवा महात्मानः कश्यपो ऽदितिरेव च ।
नमस्कृत्य सुरेशाय तस्मै देवाय रंहसा

6.12

प्रयाताः प्राग्दिशं सर्वे विपुलं कश्यपाश्रमम् ।
ते कश्यपाश्रमं गत्वा कुरुक्षेत्रवनं महात्

6.13

प्रसाद्य ह्यदितिं तत्र तपसे तां न्ययोजयन्।
थ सा चचार तपो घोरं वर्षाणामयुतं तदा

6.14

तस्या नाम्ना वनं दिव्यं सर्वकामप्रदं शुभम् ।
आराधनाय कृष्णस्य वाग्जिता वायुभोजना

6.15

दैत्यैर्निराकृतान् दृष्ट्वा तनयानृषिसत्तमाः ।
वृथापुत्राहमिति सा निर्वेदात् प्रणयाद्धरिम् ।
तुष्टाव वाग्भिरग्र्याभिः परमार्थवबोधिनी

6.16

शरण्यं शरणं विष्णुं प्रणता भक्तवत्सलम् ।
देवदैत्यमयं चादिमध्यमान्तस्वरूपिणम्

6.17

अदितिरुवाच
नमः कृत्यार्तिनाशाय नमः पुष्करमालिने ।
नमः परमकल्याण कल्याणायादिवेधसे

6.18

नमः पङ्कजनेत्राय नमः पङ्कजनाभये ।
नमः पङ्कजसंभूतिसंभवायात्मयोनये

6.19

श्रियः कान्ताय दान्ताय दान्तदृश्याय चक्रिणे ।
नमः पद्मासिहस्ताय नमः कनकरेतसे

6.20

तथात्मज्ञानयज्ञाय योगिचिन्त्याय योगिने ।
निर्गुणाय विशेषाय हरये ब्रह्मरूपिणे

6.21

जगच्च तिष्ठते यत्र जगतो यो न दृस्यते ।
नमः स्थूलातिसूक्ष्माय तस्मै देवाय शार्ङिड्णे

6.22

यं न पश्यन्ति पश्यन्तो जगदप्यखिलं नराः ।
अपश्यद्भिर्जगद्यश्च दृश्यते हृदि संस्थितः

6.23

बहिर्ज्योति रलक्ष्यो यो लक्ष्यते ज्योतिषः परः ।
यस्मिन्नेव यतश्चैव यस्यैतदखिलं जगत्

6.24

तस्मै समस्तजगताम् अमराय नमो नमः ।
आद्यः प्रजापतिः सो ऽपि पितॄणां परमः पतिः ।
पतिः सुराणां यस्तस्मै नमः कृष्णाय वेधसे

6.25

यः प्रवृत्तैर्निवृत्तैश्च कर्मस्तस्मै विरज्यते ।
स्वर्गापवर्गफलदो नमस्तस्मै गदाभृते

6.26

यस्तु संचित्यमानो ऽपि सर्वं पापं व्यपोहति ।
नमस्तस्मै विशुद्धाय परस्मै हरिमेधसे

6.27

ये पश्यन्त्यखिलाधारमीशानमजमव्ययम् ।
न पुनर्जन्ममरणं प्राप्नुवन्ति नमामि तम्

6.28

यो यज्ञो यज्ञपरमैरिज्यते यज्ञसंस्थितः ।
तं यज्ञपुरुषं विष्णुं नमामि प्रभुमीश्वरम्

6.29

गीयते सर्ववेदेषु वेदविद्भिर्विदां गतिः ।
यस्तस्मै वेदवेद्याय नित्याय विष्णवे नमः

6.30

यतो विश्वं समुद्भूतं यस्मिन् प्रलयमेष्यति ।
विश्वोद्भवप्रतिष्ठाय नमस्तस्मै महात्मने

6.31

आब्रह्मस्तम्बपर्यन्तं व्याप्तं येन चराचरम् ।
मायाजालसमुन्नद्धं तमुपेन्द्रं नमाम्यहम्

6.32

यो ऽत्र तोयस्वरूपस्थो बिभर्त्यखिलमीश्वरः ।
विश्वं विश्वपतिं विष्णुं तं नमामि प्रजापतिम्

6.33

मूर्त तमो ऽसुरमयं तद्विधो विनिहन्ति यः ।
रात्रिजं सूर्यरूपी च तमुपेन्द्रं नमाम्यहम्

6.34

यस्याक्षिणि चन्द्रसूर्यौ सर्वलोकशुभाशुभम् ।
पश्यतः कर्म सततं तमुपेन्द्रं नमाम्यहम्

6.35

यस्मिन् सर्वेश्वरे सर्वं सत्यमेतन्मयोदितम् ।
नानृतं तमजं विष्णुं नमामि प्रभवाव्ययम्

6.36

यद्येतत्सत्यमुक्तं मे भूयश्चातो जनार्दन ।
सत्येन तेन सकलाः पूर्यन्तां मे मनोरथाः

मूल पाठ: Vāmanapurāṇa, Saromāhātmya · Edition: A.S. Gupta, Varanasi : All India Kashiraj Trust 1967 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc