भाषा

ENहिગુ
ग्रंथ पाठ

वामनपुराण, सरोमाहात्म्य · अध्याय 27

27.1

इति श्रीवामनपुराणे सरोमाहात्म्ये षड्विंशो ऽध्यायः
सनत्कुमार उवचा ।
अथैनमब्रवीद् देवस्त्रैलोक्याधिपतिर्भवः ।
आश्वासनकरं चास्य वाक्यविद् वाक्यमुत्तमम्

27.2

अहो तुष्टो ऽस्मि ते राजन् स्तवेनानेन सुव्रत ।
बहुनात्र किमुक्तेन मत्समीपे वसिष्यसि

27.3

उषित्वा सुचिरं कालं मम गात्रोद्भवः पुनः ।
असुरो ह्यन्धको नाम भविष्यसि सुरान्तकृत्

27.4

हिरण्याक्षगृहे जन्म प्राप्य वृद्धिं गमिष्यसि ।
पूर्वाधर्मेण घोरेण वेदनिन्दाकृतेन च

27.5

साभिलाषो जगन्मातुर्भविष्यसि यदा तदा ।
देहं शुलेन हत्वाहं पावयिष्यामि समार्बुदम्

27.6

तत्राप्यकल्मषो भूत्वा स्तुत्वा मां भक्तितः पुनः ।
ख्यातोगणाधिपो भूत्वा नाम्ना भृङ्गिरिटिः स्मृतः

27.7

मत्सन्निधाने स्थित्वा त्वं ततः सिद्धिं गमिष्यसि ।
वेनप्रोक्तं स्तवमिमं कीर्तयेद् यः शृणोति च

27.8

नाशुभं प्राप्नुयात् किञ्चिद् दीर्घमायुरवाप्नुयात् ।
यथा सर्वेषु देवेषु विशिष्टो भगवाञ्शिवः

27.9

तथा स्तवो वरिष्ठो ऽयं स्तवानां वेननिर्मितः ।
यशोराज्यसुखैश्वर्यधनमानाय कीर्तितः

27.10

श्रोतव्यो भक्तिमास्थाय विद्याकामैश्च यत्नतः ।
व्याधितो दुःखितो दीनश्चौरराजभयान्वितः

27.11

राजकार्यविमुक्तो वा मुच्यते महतो भयात् ।
अनेनैव तु देहेन गणानां श्रेष्ठतां व्रजेत्

27.12

तेजसा यशसा चैव युक्तो भवति निर्मलः ।
न राक्षसाः पिशाचा वा न भूता न विनायकाः

27.13

विघ्नं कुर्युर्गृहे तत्र यत्रायं पठ्यते स्तवः ।
श्रुणुयाद् या स्तवं नारी अनुज्ञां प्राप्य भर्तृतः

27.14

मातृपक्षे पितुः पक्षे पूज्या भवति देववत् ।
श्रुणुयाद् यः स्तवं दिव्यं कीर्तयेद् वा समाहितः

27.15

तस्य सर्वाणि कार्याण सिद्धिं गच्छन्ति नित्यशः ।
मनसा चिन्तितं यच्च यच्च वाचानुकीर्तितम्

27.16

सर्वं संपद्यते तस्य स्तवनस्यानुकीर्तनात् ।
मनसा कर्मणा वाचा कृतमेनो विनश्यति ।
वरं वरय भद्रं ते यत्त्वया मनसेप्सितम्

27.17

वेन उवाच
अस्य लिङ्गस्य माहात्म्यात् तथा लिङ्गस्य दर्शनात् ।
मुक्तो ऽहं पातकैः सर्वैस्तव दर्शनतः किल

27.18

यदि तुष्टो ऽसि मे देव यदि देयो वरो मम ।
देवस्वभक्षणाञ्जातं श्वयोनौ तव सेवकम्

27.19

एतस्यापि प्रसादं त्वं कर्तुमर्हसि शङ्कर ।
एतस्यापि भयान्मध्ये सरसो ऽहं निमञ्जितः

27.20

देवैर्निवारितः पूर्वं तीर्थे ऽस्मिन् स्नानकारणात् ।
अयं कृतोपकारश्च एतदर्थे वृणोम्यहम्

27.21

तस्यैतद् वचनं श्रुत्वा तुष्टः प्रोवाच शङ्करः ।
एषो ऽपि पापिनिर्मुक्तो भविष्यति न संशयः

27.22

प्रसादान्मे महाबाहो शिवलोकं गमिष्यति ।
तथा स्तवमिमं श्रुत्वा मुच्यते सर्वपातकैः

27.23

कुरुक्षेत्रस्य माहात्म्यं सरसो ऽस्य महीपते ।
मम लिङ्गस्य चोत्पत्तिं श्रुत्वा पापैः प्रमुच्यते

27.24

सनत्कुमार उवाच
इत्येवमुक्त्वा भगवान् सर्वलोकनमस्कृतः ।
पश्यतां सर्वलोकानां तत्रैवान्तरधीयत

27.25

स च श्वा तत्क्षणादेव स्मृत्वा जन्म पुरातनम् ।
दिव्यमूर्तिधरो भूत्वा तं राजानमुपस्थितः

27.26

कृत्वा स्नानं ततो वैन्यः पितृदर्शनलालसः ।
स्थाणतीर्थे कुटीं शून्यां दृष्ट्वा शोकसमन्वितः

27.27

दृष्ट्वा वेनो ऽब्रवीद् वाक्यं हर्षेण महतान्वितः ।
सत्पुत्रेण त्वया वत्स त्रातो ऽहं नरकार्मवात्

27.28

त्वयाभिषिञ्चितो नित्यं तीर्थस्थपुलिने स्थितः ।
अस्य साधोः प्रसादेन स्थाणोर्देवस्य दर्शनात्

27.29

मुक्तापापश्च स्वर्लोकं यास्ये यत्र शिवः स्थितः ।
इत्येवमुक्त्वा राजानं प्रतिष्ठाप्य महेश्वरम्

27.30

स्थाणुतीर्थे ययौ सिद्धिं तेन पुत्रेण तारितः ।
स च श्वा परमां सिद्धिं स्थाणुतीर्थप्रभावतः

27.31

विमुक्तः कलुषैः सर्वैर्जगाम भवमन्दिरम् ।
राजा पितृऋणैर्मुक्तः परिपाल्य वसुन्धराम्

27.32

पुत्रानुत्पाद्य धर्मेण कृत्वा यज्ञं निरर्गलम् ।
दत्त्वाकामांश्चविप्रेभ्यो भुक्त्वा भोगान् पृथग्विधान्

27.33

सुहृदो ऽथ ऋणैर्मुक्त्वा कामैः संतर्प्य च स्त्रियः ।
अभिषिच्य सुतं राज्ये कुरुक्षेत्रं ययौ नृपः

27.34

तत्र तप्त्वा तपो घोरं पूजयित्वा च शङ्करम् ।
आत्मेच्छया तनुं त्यक्त्वा प्रयातः परमं पदम्

27.35

एतत्प्रभावं तीर्थस्य स्थाणोर्यः शृणुयान्नरः ।
सर्वपापविनिर्मुक्तः प्रयाति परमां गतिम्

मूल पाठ: Vāmanapurāṇa, Saromāhātmya · Edition: A.S. Gupta, Varanasi : All India Kashiraj Trust 1967 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc