भाषा

ENहिગુ
ग्रंथ पाठ

वामनपुराण, सरोमाहात्म्य · अध्याय 26

26.1

इति श्रीवामनपुराणे सरोमाहात्म्ये पञ्चविशो ऽध्यायः
मार्कण्डेय उवाच
स्थाणुतीर्थप्रभावं तु श्रोतुमिच्छाम्यहं मुने ।
केन सिद्धिरथ प्राप्ता सर्वपापभयापहा

26.2

सनत्कुमार उवाच।
शृणु सर्वमशेषेण स्थाणुमाहात्म्यमुत्तमम् ।
यच्छ्रुत्वा सर्वपापेभ्यो मुक्तो भवति मानवः

26.3

एकार्णवे जगत्यस्मिन् नष्टे स्थावरजङ्गमे ।
विष्णोर्नाभिसमुद्भूतं पद्ममव्यक्तजन्मनः ।
तस्मिन् ब्रह्म समुद्भूतं सर्वलोकपितामहः

26.4

तस्मान्मरीचिरभवन्मरीचेः कश्यपः सुतः ।
कश्यपादभवद् भास्वांस्तमान्मनुरजायत

26.5

मनोस्तु क्षुवतः पुत्र उत्पन्नो मुखसंभवः ।
पृथिव्यां चतुरन्तायां राजासीद् धर्मरक्षिता

26.6

तस्य पत्नी बभूवाथ भया नाम भयावहा ।
मृत्योः सकाशादुत्पन्ना कालस्य दुहिता तदा

26.7

तस्यां समभवद् वेनो दुरात्मा वेदनिन्दकः ।
स दृष्ट्वा पुत्रवदनं क्रुद्धो राजा वनं ययौ

26.8

तत्र कृत्वा तपो घोरं धर्मेणावृत्य रोदसी ।
प्राप्तवान् ब्रह्मसदनं पुरनावृत्तिदुर्वभम्

26.9

वेनो राजा समभवत् समस्ते क्षितिमण्डले ।
स मातामहदोषेण तेन कालात्मजात्मजः

26.10

घोषयामस नगरे दुरात्मा वेदनिन्दकः ।
न दातव्यं न यष्टव्यं न होतव्यं कदाचन

26.11

अहमेको ऽत्र वै वन्द्यः पूज्यो ऽहं भवतां सदा ।
मया हि पालिता यूयं निवसध्वं यथासुखम्

26.12

तन्मत्तो ऽन्यो न देवो ऽस्ति युष्माकं यः परायणम् ।
एतच्छ्रत्वा तु वचनमृषयः सर्व एव ते

26.13

परस्परं समागम्य राजानं वाक्यमब्रवन् ।
श्रुतिः प्रमाणं धर्मस्य ततो यज्ञः प्रतिष्ठितः

26.14

यज्ञैर्विना नो प्रीयन्ते देवाः स्वर्गनिवासिनः ।
अप्रीता न प्रयच्छन्ति वृष्टिं सस्यस्य वृद्धये

26.15

तस्माद् यज्ञैश्च देवैश्च धार्यते सचराचरम् ।
एतच्छ्रुत्वा क्रोधदृष्टिर्वेनः प्राह पुनः पुनः

26.16

न यष्टव्यं न दातव्यमित्याह क्रोधमूर्च्छितः ।
ततः क्रोधसमाविष्टा ऋषयः सर्व एव ते

26.17

निजघ्नुर्मन्त्रपूतैस्ते कुशैर्वज्रसमन्वितैः ।
ततस्त्वराजके लोके तमसा संवृते तदा

26.18

दस्युभिः पीड्यमानास्तान् ऋषींस्ते शरणं ययुः ।
ततस्ते ऋषयः सर्वे ममन्थुस्तस्य वै करम्

26.19

सव्यं तस्मात् समुत्तस्थौ पुरुषो ह्रस्वदर्शनः ।
तमूचुरृषयः सर्वे निषीदतु भवानिति

26.20

तस्मान्निषादा उत्पन्ना वेनकल्मषसंभवाः ।
ततस्ते ऋषयः सर्वे मन्मथुर्दक्षिणं करम्

26.21

मथ्यमाने करे तस्मिन् उत्पन्नः पुरुषो ऽपरः ।
बृहत्सालप्रतीकाशो दिव्यलक्षणलक्षितः

26.22

धनुर्बाणाङ्कितकरश्चश्चक्रध्वसमन्वितः ।
तमुत्पन्नं तदा दृष्ट्वा सर्वे देवाः सवासवाः

26.23

अभ्यषिञ्चन् पृथिव्यां तं राजानं भूमिपालकम् ।
ततः स रञ्जयामास धर्मेण पृथिवीं तदा

26.24

पित्राःऽपरञ्जिता तस्य तेन सा परिपालिता ।
तत्र राजेतिशब्दो ऽस्य पृथिव्या रञ्जनादभूत्

26.25

स राज्यं पाप्य तेभ्यस्तु चिन्तयामास पार्थिवः ।
पिता मम अधर्मिष्ठो यज्ञव्युच्छित्तिकारकः

26.26

कथं तस्य क्रिया कार्या परलोकसुखावहा ।
इत्येवं चिन्तयानस्य नारदो ऽभ्याजगाम ह

26.27

तस्मै स चासनं दत्त्वा प्रणिपत्य च पृष्टवान् ।
भगवन् सर्वलोकस्य जानासि त्वं शुभाशुभम्

26.28

पिता मम दुराचारो देवब्राह्मणनिन्दकः ।
स्वकर्मरहितो विप्र परलोकमवाप्तवान्

26.29

ततो ऽब्रवीन्नारदस्तं ज्ञात्वा दिव्येन चक्षुषा ।
म्लेच्छमघ्ये समुत्पन्नं क्षयकुष्ठसमन्वितम्

26.30

तच्छ्रुत्वा वचनं तस्य नारदस्य महात्मनः ।
चिन्तयामास दुखार्तः कथं कार्यं मया भवेत्

26.31

इत्येवं चिन्तयानस्य मतिर्जाता महात्मनः ।
पुत्रः स कथ्यते लोके यः पितॄंस्त्रायते भयात्

26.32

एवं संचिन्त्य स तदा नारदं पृष्टवान् मुनिम् ।
तारणं मत्पितुस्तस्य मया कार्यं कथं मुने

26.33

नारद उवाच
गच्छ त्वं तस्य तं देहं तीर्थेषु कुरु निर्मलम् ।
यत्र स्थाणोर्महत्तीर्थं सरः संनिहितं प्रति

26.34

एतच्छ्रत्वा तु वचनं नारदस्य महात्मनः ।
सचिवे राज्यमाधाय राजा स तु जगाम ह

26.35

स गत्वा चोत्तरां भूमिं म्लेच्छमध्ये ददर्श ह ।
कुष्ठरोगेण महाता क्षयेण च समन्वितम्

26.36

ततः शोकेन महता संतप्तो वाक्यमब्रवीत् ।
ह म्लेच्छा नौमि पुरुषं स्वगृहं च नयाम्यहम्

26.37

तत्राहमेनं निरुजं करिष्ये यदि मन्यथ ।
तथेति सर्वे ते म्लेच्छाः पुरुषं तं दयापरम्

26.38

ऊचुः प्रणतसर्वाङ्गा यथा जानासि तत्कुरु ।
तत आनीय पुरुषान् शिविकावाहनोचितान्

26.40

दत्त्वा शुल्कं च द्विगुणं सुखेन नयत द्विजम् ।
ततः श्रुत्वा तु वचनं तस्य राज्ञो दयावतः ।
26.39 गृहीत्वा शिविकां क्षिप्रं कुरुक्षेत्रेण यान्ति ते ।
तत्र नीत्वा स्थाणुतीर्थे अवतार्य च ते गताः

26.41

ततः स राजा मध्याह्ने तं स्नापयति वै तदा ।
ततो वायुरन्तरिक्षे इदं वचनमब्रवीत्

26.42

मा तात साहसं कार्षिस्तीर्थ रक्ष प्रयत्नतः ।
अयं पापेन घोरेम अतीव परिवेष्टितः

26.43

वेदनिन्दा महत्पापं यस्यान्तो नैव लभ्यते ।
सो ऽयं स्नानान्महत्तीर्थं नाशयिष्यति तत्क्षणात्

26.44

एतद् वोयर्बचः श्रुत्वादुःखेन महतान्वितः ।
उवाच शोकसंतप्तस्तस्य दुःखेन दुःखितः ।
एष घोरेण पापेन अतीव परिवेष्टितः

26.45

प्रायश्चित्तं करिष्ये ऽहं यद्वदिष्यन्ति देवताः ।
ततस्ता देवताः सर्वा इदं वचनमब्रुवन्

26.46

स्नात्वा स्नात्वा च तीर्थेषु अभिषिञ्चस्व वारिणा ।
ओजसा चुलुकं यावत् प्रतिकूले सरस्वतीम्

26.47

स्नात्वा मुक्तिमवाप्नोति पुरुषः श्रद्धयान्वितः ।
एष स्वपोषणपरो देवदूषणतत्परः

26.48

ब्राह्मणैश्च परित्यक्तो नैष शुद्ध्यति कर्हिचित् ।
तस्मादेनं समुद्दिश्य स्नात्वा तीर्थेषु भक्तितः

26.49

अभिषिञ्चस्व तोयेन ततः पूतो भविष्यति ।
इत्येतद्वचनं श्रुत्वा कृत्वा तस्याश्रमं ततः

26.50

तीर्थयात्रां ययौ राजा उद्दिश्य जनकं स्वकम् ।
स तेषु प्लावनं कुर्वस्तीर्थेषु च दिने दिने

26.51

अभ्यषिढ्चत् स्वपितरं तीर्थतोयेन नित्यशः ।
एतस्मिन्नेव काले तु सारमेयो जगाम ह

26.52

स्थाणोर्मठे कौलपतिर्देवद्रव्यस्य रक्षिता ।
परिग्रहस्य द्रव्यस्य परिपालयिता सदा

26.53

प्रियश्च सर्वसोकेषु देवकार्यपरायणः ।
तस्यैवं वर्तमानस्य धर्ममार्गे स्थितस्य च

26.55

कालेन चलिता बुद्धिर्देवद्रव्यस्य नाशेने ।
तेनाधर्मेण युक्तस्य परलोकगतस्य च । ।
26.54 दृष्ट्वा यमो ऽब्रवीद् वाक्यं श्वयोनिं व3ज मा चिरम् ।
तद्वाक्यानन्तरं जातः श्व वै सौगन्धिके वने

26.56

ततः कालेन महता श्वयूथपरिवारितः ।
परिभूतः सरमया दुःखेन महता वृतः

26.57

त्यक्त्वा द्वैतवनं पुण्यं सान्निहत्यं ययौ सरः ।
तस्मिन् प्रविष्टमात्रस्तु स्थाणोरेव प्रसादतः

26.58

अतीव तृषया युक्तः सरस्वत्यां ममञ्ज ह ।
तत्र संप्लुतदेहस्तु विमुक्तः सर्वाकिल्बिषैः

26.59

आहारलोभेन तदा प्रविवेश कुटीरकम् ।
प्रविशन्तं तदा दृष्ट्वा श्वानं भयसमन्वितः

26.60

स तं पस्पर्श शनकैः स्थाणुतीर्थे ममञ्ज ह ।
पततः पूर्वतीर्थेषु विप्रुषैः परिषिञ्चतः

26.61

शुनो ऽस्य गात्रसंभूतैरब्बिन्दुभिः स सिञ्चितः ।
विरक्तदृष्टिश्च शुनः क्षेपेण च ततः परम्

26.62

स्थाणुतीर्थस्य माहात्म्यात् स पुत्रेण च तारितः ।
नियतस्तत्क्षणाञ्जातो स्तुतिं कर्तुं प्रचक्रमे

26.63

वेन उवाच
प्रपद्ये देवमीशानं त्वामजं चन्द्रभूषणम् ।
महादेवं महात्मानं विश्वस्य जगतः पतिम्

26.64

नमस्ते देवदेवेश सर्वशत्रुनिषूदन ।
देवेश बलिविष्टम्भदेवदैत्यैश्च पूजित

26.65

विरूपाक्ष सहस्राक्ष त्र्यक्ष यक्षेश्वरप्रिय ।
सर्वतः पाणिपादान्त सर्वतो ऽक्षिशिरोमुख

26.66

सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठसि ।
शङ्कुकर्ण महाकर्म कुम्भकर्णार्णवालय

26.67

गजेन्द्रकर्ण गोकर्ण पाणिकर्ण नमो ऽस्तु ते ।
शतजिह्व शतावर्त शतोदर शतानन

26.68

गायन्ति त्वां गायत्रिणो ह्यर्चयन्त्यर्क्कमर्चिणः ।
ब्रह्माणं त्वा शतक्रतो उद्वंशमिव मेनिरे

26.69

मूर्तौ हि ते महामूर्ते समुद्राम्बुधरास्तथा ।
देवताः सर्व एवात्र गोष्ठे गाव इवासते

26.70

शरीरे तव पश्यामि सोममग्निं जलेश्वरम् ।
नारायणं तथा सूर्यं ब्रह्माणं च बृहस्पतिम्

26.71

भगवान् कारणं कार्यं क्रियाकारणमेव तत् ।
प्रभवः प्रलयश्चैव सदसच्चापि दैवतम्

26.72

नमो भवाय शर्वाय वरदायोग्ररूपिणे ।
अन्धकासुरहन्त्रे च पशूनां पतये नमः

26.73

त्रिजटाय त्रिशीर्षाय त्रिशुलासक्कपाणये ।
त्र्यम्बकाय त्रिनेत्राय त्रिपुरघ्र नमो ऽस्तु ते

26.74

नमो मुण्डाय चण्डाय अण्डायोत्पत्तिहेतवे ।
डिण्डिमासक्तहस्ताय डिण्डिमुण्डाय ते नमः

26.75

नमोर्ध्वकेशदंष्ट्राय शुष्काय विकृताय च ।
धूम्रलोहितकृष्णाय नीलग्रीवाय ते नमः

26.76

नमो ऽस्त्वप्रतिरूपाय विरुपाय शिवाय च ।
सूर्यमालाय सूर्याय स्वरूपध्वजमालिने

26.77

नमो मानातिमानाय नमः पटुतराय ते ।
नमो गणेन्द्रनाथाय वृषस्कन्धाय धन्विने

26.78

संक्रन्दनाय चण्डाय पर्णधारपुटाय च ।
नमो हिरण्यवर्णाय नमः कनकवर्चसे

26.79

नमः स्तुताय स्तुत्याय स्तुतिस्थाय नमो ऽस्तु ते ।
सर्वाय सर्वभक्षाय सर्वभूतशरीरिणे

26.80

नमो होत्रे च हन्त्रे च सितोदग्रपताकिने ।
नमो नम्याय नम्राय नमः कटकटाय च

26.81

नमो ऽस्तु कृशनाशाय शयितायोत्थिताय च ।
स्थिताय धावमानाय मुण्डाय कुटिलाय च

26.82

नमो नर्तनशीलाय लयवादित्रशालिने ।
नाट्योपहारलुब्धाय मुखवादित्रशालिने

26.83

नमो ज्योष्ठाय श्रेष्ठाय बलतिबलघातिने ।
कालनाशाय कालाय संसारक्षयरूपिणे

26.84

हिमवद्दुहितुः कान्त भैरवाय नमो ऽस्तु ते ।
उग्राय च नमो नित्यं नमो ऽस्तु दशबाहवे

26.85

चितिभस्मप्रियायैव कपालासक्तपाणये ।
विभीषणाय भीष्माय भीमव्रतधराय च

26.86

नमो विकृतवक्त्राय नमः पूतोग्रदृष्टये ।
पक्वाममांसलुब्धाय तम्बिवीणाप्रियाय च

26.87

नमो वृषाङ्कवृक्षाय गोवृषाभिरुते नमः ।
कटङ्कटाय भीमाय नमः परपराय च

26.88

नमः सर्ववरिष्ठाय वराय वरदायिने ।
नमो विरक्तरक्ताय भावनायाक्षमालिने

26.89

विभेदभेदभिन्नाय छायायै तपनाय च ।
अघोरघोररूपाय घोरघोरतराय च

26.90

नमः शिवाय शान्ताय नमः शान्ततमाय च ।
बहुनेत्रकपालाय एकमूर्ते नमो ऽस्तु ते

26.91

नमः क्षुद्राय लुब्धाय यज्ञभागप्रियाय च ।
पञ्चालाय सिताङ्गाय नमो यमनियामिने

26.92

नमश्चित्रोरुघण्टाय घण्टाघण्टनिघण्टिने ।
सहस्रशतघण्टाय घण्टामालविभूषिणे

26.93

प्रणसंघट्टगर्वाय नमः किलिकिलिप्रिये ।
हुंहुङ्काराय पाराय हुंहुङ्कारप्रियाय च

26.94

नमः समसमे नित्यं गृहवृक्षनिकेतिने ।
गर्भमांसशृगालाय तारकाय तराय च

26.95

नमो यज्ञाय यजिने हुताय प्रहुताय च ।
यज्ञवाहाय हव्याय तप्याय तपनाय च

26.96

नमस्तु पयसे तुभ्यं तुण्डानां पतये नमः ।
अन्नदायान्नपतये नमो नानान्नभोजिने

26.97

नमः सहस्रशीर्षाय सहस्रचरणाय च ।
सहस्रोद्यतशूलाय सहस्राभरणाय च

26.98

बालनुचरगोप्त्रे च बाललीलाविलासिने ।
नमो बालाय वृद्धाय क्षुब्धाय क्षोभणाय च

26.99

गङ्गालुलितकेशाय मुञ्जकेशाय वै नमः ।
नमः षट्कर्मतुष्टाय त्रिकर्मनिरताय च

26.100

नग्नप्राणाय चण्डाय कृशाय स्फोटनाय च ।
धर्मार्थकाममोक्षाणां कथ्याय कथनाय च

26.101

साङ्ख्याय साङ्ख्यमुख्याय साङ्ख्ययोगमुखाय च ।
नमो विरथरथ्याय चतुष्पथरथाय च

26.102

कुष्णाजिनोत्तरीयाय व्यालयज्ञोपवीतिने ।
वक्त्रसंधानकेशाय हरिकेश नमो ऽस्तु ते ।
त्र्यम्बिकाम्बिकनाथायव्यक्तव्यक्ताय वेधसे

26.103

कामकामदकामघ्न तृप्तातृप्तविचारिणे ।
नमः सर्वद पापघ्न कल्पसंख्याविचारिणे

26.104

महासत्त्व महाबाहो महाबल नमो ऽस्तु ते ।
महामेघ महाप्रख्य महाकाल महाध्युते

26.105

मेघावर्त युगावर्त चन्द्रार्कपतये नमः ।
त्वमन्नमन्नभोक्ता च पक्वभुक् पावनोत्तम

26.106

जरायुजाण्डजाश्चैव स्वेदजोद्भिदजाश्च ये ।
त्वमेव देवदेवेश भूतग्रामश्चतुर्विधः

26.107

स्रष्टा चराचरस्यास्य पाता हन्ता तथैव च ।
त्वामाहुर्ब्रह्य विद्वांसो ब्रह्म ब्रह्मविदां गतिम्

26.108

मनसः परमज्योतिस्त्वं वायुर्ज्योतिषामपि ।
हंहवृक्षे मधुकरमाहुस्त्वं ब्रह्मवादिनः

26.109

यजुर्मयो ऋङ्मयस्त्वामाहुः साममयस्तथा ।
पठ्यसे स्तुतिभिर्नित्यं वेदोपनिषदां गणैः

26.110

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णावराश्च ये ।
त्वमेव मेघसंघाश्च विद्युतो ऽसनिगर्जितम्

26.111

संवत्सरस्त्वमृतवो मासो मासार्धमेव च ।
युगा निमेषाः काष्ठाश्च नक्षत्राणि ग्रहाः कलाः

26.112

वृक्षाणां ककुभो ऽसि त्वं गिरीणां हिमवान् गिरिः ।
व्याघ्रो मृगाणां पततां तार्क्ष्यो ऽनन्तश्च भोगिनाम्

26.113

क्षिरोदो ऽस्युदधीनां च यन्त्राणां धनुरेव च ।
वज्रं प्रहरणानां च व्रतानां सत्यमेव च

26.114

त्वमेव द्वेष इच्छा च रागो मोहः क्षमाक्षमे ।
व्यवसायो धृतिर्लोभः कामक्रोधौ जयाजयौ

26.115

त्वं शरी त्वं गदी चापि खट्वाङ्गी च शरासनी ।
छेत्ता मेत्ता प्रहर्तासि मन्ता नेता सनातनः

26.116

दशलक्षणसंयुक्तो धर्मोर्ऽथः काम एव च ।
समुद्राः सरितो गङ्गा पर्वताश्च सरांसि च

26.117

लतावल्ल्यस्तृणौषध्यः पशवो मृगपक्षिणः ।
द्रव्यकर्मगुणारम्भः कालपुष्पफलप्रदः

26.118

आदिश्चन्तश्च वेदानां गायत्री प्रणवस्तथा ।
लोहितो हरितो नीलः कुष्णः पीतः सितस्तथा

26.119

कद्रुश्च कपिलश्चैव कपोतो मेचकस्तथा ।
सवर्णश्चाप्यवर्णाश्च कर्ता हर्ता त्वमेव हि

26.120

त्वमिन्द्रश्च यमश्चैव वरुणो धनदो ऽनिलः ।
उपप्लवश्चित्रभानुः स्वर्भानुरेव च

26.121

शिक्षाहैत्रं त्रिसौपर्णं यजुषां शतरुद्रियम् ।
पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम्

26.122

तिन्दुको गिरिजो वृक्षे मुद्गं चाखिलजीवनम् ।
प्राणाः सत्त्वं रजश्चैव तमश्च प्रतिपत्पितिः

26.123

प्राणो ऽपानः मसानश्च उदानो व्यान एव च ।
उन्मेषश्च निमेषश्च क्षुतं जृम्भितमेव च

26.124

लोहितान्तर्गतो दृष्टिर्महावक्त्रो महोदरः ।
शुचिरोमा हरिश्मश्रुरूर्ध्वकेशश्चलाचलः

26.125

गीतवादित्रनृत्यज्ञो गीतवादित्रकप्रियः ।
मत्स्यो जालो जलौकाश्च कालः केलिकला कलिः

26.126

अकालश्च विकालश्च दुष्कालः काल एव च ।
मृत्युश्च मृत्युकर्ता च यक्षो यक्षभयङ्करः

26.127

संवर्तको ऽन्तकश्चैव संवर्तकबलाहकः ।
घण्टो घण्टी माहघण्टी चिरी माली च मातलिः

26.128

ब्रह्मकालयमाग्नीनां दण्डी मुण्डी त्रिमुण्डधृक् ।
चतुर्युगश्चतुर्वेदश्चातुर्हेत्रप्रवर्तकः

26.129

चातुराश्रम्यनेता च चातुर्वर्ण्यकरस्तथा ।
नित्यमक्षप्रियो धूर्तो गणाध्यक्षो गणाधिपः

26.130

रक्तमाल्याम्बरधरो गिरिको गिरिकप्रियः ।
शिल्पं च शिल्पिनां श्रेष्ठः सर्वशिल्पप्रवर्तकः

26.131

भगनेत्राङ्कुशश्चण्डः पूष्णो दन्तविनाशनः ।
स्वाहा स्वधा वषट्कारो नमस्कारो नमो नमः

26.132

गूढव्रतो गुह्यतपास्तारकास्तारकामयः ।
धाता विधाता संधाता पृथिव्या धरणो ऽपरः

26.133

ब्रह्म तपश्च सत्यं च व्रतचर्य मथार्जवम् ।
भूतात्मा भूतकृद् भूतिर्भूतभव्यभवोद्भवः

26.134

भूर्भुवः स्वरृतं चैव ध्रुवो दान्तो महेश्वरः ।
दीक्षितो ऽदीक्षितः कान्तो दुर्दान्तो दान्तसंभवः

26.135

चन्द्रावर्तो युगावर्तः संवर्तकप्रवर्तकः ।
बिन्दुः कामो ह्यणुः स्थूलः कर्णिकारस्रजप्रियः

26.137

नन्दीमुखो भीममुकः सुमुको दुर्मुखस्तथा ।
हिरण्यगर्भः शकुनिर्महोरगपतिर्विराट् । ।
26.136 अधर्महा महादेवो दण्डधारो गणोत्कटः ।
गोनर्दे गोप्रतारश्च गोवृषेश्वरवाहनः

26.138

त्रैलोक्यगोप्ता गोविन्दो गोमार्गो मार्ग एव च ।
स्थिरः श्रेष्ठश्च स्थाणुश्च विक्रोशः क्रोश एव च

26.139

दुर्वारणो दुर्विषहो दुःसहो दुरतिक्रमः ।
दुर्द्धर्षो दुष्प्रकाशश्च दुर्दुर्शो दुर्जयो जयः

26.140

शशाङ्कानलशीतोष्णः क्षुत्तृष्णा च निरामयः ।
आधयो व्याधयश्चैव व्याधिहा व्याधिनाशनः

26.141

समूहश्च समूहस्य हन्ता देवः सनातनः ।
शिखण्डी पुण्डरीकाक्षः पुण्डरीकवनालयः

26.142

त्र्यम्बको दण्डधारश्च उग्रदंष्ट्रः कुलान्तकः ।
विषापहः सुरश्रेष्ठः सोमपास्त्वं मरुत्पते ।
अमृताशी जगन्नातो देवदेव गणेश्वरः

26.143

मधुश्च्युतानां मधुपो ब्रह्मवाक् त्वं घृतच्युतः ।
सर्वलोकस्य भोक्ता त्वं सर्वलोकपितामहः

26.144

हिरण्यरेताः पुरुषस्त्वमेकः त्वं स्त्री पुमांस्त्वं हि नपुंसकं च ।
बालो युवा स्थविरो देवदंष्ट्रा त्वन्नो गिरिर्विश्वकृद् विश्वहर्ता

26.145

त्वं वै धाता विश्वकृतां वरेण्यस् त्वां पूजयन्ति प्रणताः सदैव ।
चन्द्रादित्यौ चक्षुषी ते भवान् हि त्वमेव चाग्निः प्रपितामहश्च ।
आराध्य त्वां सरखतीं वाग्लभन्ते अहोरात्रे निमिषोन्मेषकर्ता

26.146

न ब्रह्मा न च गोविन्दः पौराणा ऋषयो न ते ।
माहात्म्यं वेदितुं शक्ता यातातथ्येन शङ्कर

26.147

पुंसां शतसहस्राणि यत्समावृत्य तिष्ठति ।
महतस्तमसः पारे गोप्ता मन्ता भवान् सदा

26.148

यं विनिद्रा जितश्वासाः सत्त्वस्थाः संयतेन्द्रियाः ।
ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः

26.149

या मूर्तयश्च सूक्ष्मास्ते न शक्या या निदर्शितुम् ।
ताभिर्मां सततं रक्ष पिता पुत्रमिवौरसम्

26.150

रक्ष मां रक्षणीयो ऽहं तवानघ नमो ऽस्तु ते ।
भक्तानुकम्पी भगवान् भक्तश्चाहं सदा त्वयि

26.151

जटिने दण्डिने नित्यं लम्बोदरशारीरिणे ।
कमण्डलुनिषङ्गाय तस्मै रुद्रात्मने नमः

26.152

यस्य केशेषु जीमूता नद्याः सर्वाङ्गसन्धिषु ।
कुक्षौ समुद्रश्चत्वारस्तस्मै तोयात्मने नमः

26.153

संभक्ष्य सर्वभूतानि युगान्ते पर्युपस्थिते ।
यः शेते जलमध्यस्थस्तं प्रपद्ये ऽम्बुशायिनम्

26.154

प्रविश्य वदनं राहोर्यः सोमं पिबते निशि ।
ग्रसत्यर्कं च खर्भानू रक्षितस्तव तेजसा

26.155

ये चात्र पतिता गर्भा रुद्रगन्धस्य रक्षेण ।
नमस्ते ऽस्तु खधा खाहा प्राप्नुवन्ति तदद्भुते

26.156

ये ऽङ्गुष्ठमात्राः पुरुषा देहस्थाः सर्वदेहिनाम् ।
रक्षन्तु ते हि मां नित्यं ते मामाप्याययन्तु वै

26.157

ये नदीषु समुद्रेषु पर्वतेषु गुहासु च ।
वृभमूलेषु गोष्ठेषु कान्तारगहनेषु च

26.158

चतुष्पथेषु रथ्यासु चत्वरेषु सभासु च ।
हस्त्यश्वरथशालासु जीर्णोद्यानालयेषु च

26.159

ये च पञ्चसु भूतेषु दिशासु विदिशासु च ।
चन्द्रार्कयोर्मध्यागता ये च चन्द्रार्करश्मिषु

26.160

रसातलगता ये च ये च तस्मात् परं गताः ।
नमस्तेभ्यो नमस्तेभ्यो नमस्तेभ्यश्च नित्यशः

26.161

येषां न विद्यते संख्या प्रमाणं रूपमेव च ।
असंख्येयगणा रुद्रा नमस्तेभ्यो ऽस्तु नित्यशः

26.162

प्रसीद मम भद्रं ते तव भावगतस्य च ।
त्वयि मे हृदयं देव त्वयि बुद्धिर्मतिस्त्वयि

26.163

स्तुत्वैवं स महादेवं विरराम द्विजोत्त्मः

मूल पाठ: Vāmanapurāṇa, Saromāhātmya · Edition: A.S. Gupta, Varanasi : All India Kashiraj Trust 1967 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc