भाषा

ENहिગુ
ग्रंथ पाठ

वल्लालचरित · अध्याय 2.6

2.6.1

इत्यानन्दभट्टप्रोक्ते वल्लालचरिते लक्ष्मणानयनं नाम पञ्चमो ऽध्यायः ।
[[034]]
अथ षष्ठोध्यायः
अथास्ति शैवैः सकलैश्च शाक्तैः सौरैस्तथा वैष्णवगाणपत्यैः ।
उपासिकोपासकदण्डिभिश्च वन्द्यः सदा भिक्षुकभिक्षुणीभिः

2.6.2

विप्रैश्च क्षेत्रैः वरिगजैश्च शूद्रैः सन्न्यासिभि र्मानुषमानुषीभिः ।
सर्व्वैश्च पूज्यो वरदः प्रसिद्ध उ माधवोग्रः किल देवदेवः

2.6.3

अथानादिमहालिङ्गं पूर्व्वस्मिन् गौड्मण्डले ।
गताः स्म पूजितुं देवं मानवा उग्रमाधवम्

2.6.5

ब्राह्मणाः क्षत्रियाः सर्व्वे वैश्याश्च मनुजादयः ।
सत्शूद्राद्याश्च शूद्राश्च महास्थानमुपागताः ॥ वल्च्_2,6.4
केचित् पुष्पाणि संगृह्य धूपदीपानथापरे ।
केचित् गन्धञ्च नैवेद्यान् केचित् व्यजनचामरान्

2.6.6

केचिच्छत्राणि रत्नानि दाम्नश्च वसनानि च ।
इत्यादीनि समागृह्य ते द्रव्याणि समागताः

2.6.7

षडार्त्तवैः प्रसूनैश्च करवीरादिभिर्जनाः ।
स्वभुवं पूजयामास र्धूपैश्च चन्दनादिभिः

2.6.8

वारिभिस्तीर्थजैः स्वच्छैः कुङ्कुमैः सह रञ्जितैः ।
शङ्करं स्नापयामासुः शीतलैश्च सुगन्धिभिः

2.6.9

ददु र्घृतप्रदीपान् च तैलदीपानथापरे ।
क्षीरार्घञ्च ददुस्तत्र पाद्यञ्चामलवारिभिः

2.6.10

गोपायसै र्गोघृतैश्च मधुकुङ्कुमकर्पूरैः ।
पञ्चामृतैः केशरैश्च गुडैश्च शर्करैरपि

2.6.11

चन्दनश्च सुगन्धश्च पञ्चगन्धै र्मुदापरे ।
शङ्करं लेपयामासु र्मानवा भक्तितत्पराः

2.6.12

शाल्यन्नमोदनैर्युक्तं परमान्नं ददु र्मुदा ।
लड्डुकाञ्च पिष्टकाञ्च नैवेद्यान् विविधानपि

2.6.13

पताकान् स्थापयामासुश्चलच्चीनांशुकान् तथा ।
ननृतुश्च जगुः केचित् केचित् घण्टामवीवदन्

2.6.14

सुवर्णं रजतं ताम्रं ददुः केचित् स्वयम्भुवे ।
ददुश्च पञ्चरत्नानि सह लाजाक्षतै र्नराः

2.6.15

करोद्धर्त्तनताम्बलमुखवासान् ददुस्तथा ।
देवस्यारूरुपन् मूर्द्ध्नि दुर्व्वापुष्पाक्षतानि च

2.6.16

एवं पञ्चोपचारेण मानवा भूसुरादयः ।
शिवमीजु र्जपञ्चक्रुः प्रचक्रुश्च प्रदक्षिणाम्

2.6.17

नृत्यै र्गीतै र्महोत्साहैः वाद्यैश्च मधुरस्वनैः ।
हां हुङ्कारैः समुल्लासैर्वाहयन्नुग्रमाधवम्

2.6.18

[[036]]
केचित्पञ्चाङ्गयुक्तेन साष्टाङ्गेन तथापरे ।
प्रणेमुश्चार्पयामासुः स्तोत्रञ्च मधुरस्वनैः

2.6.19

भल्लकै र्झल्लरीभिश्च मृदङ्गैर्मर्द्दलैस्तथा ।
मुरलीभिश्च तन्त्रीभिः केचिदीजुः स्वयम्भुवम्

2.6.20

जयमङ्गलगाथाभिर्धारणीभिश्च गीतिभिः ।
शङ्करं भिक्षुभिक्षुण्यरीजुर्गानैश्च भाषजैः

2.6.21

सुस्वरै र्वेदपाठैश्च विप्रा वेदविदां वराः ।
क्षत्रिया स्वर्णरत्नादिछत्रकैश्च महोत्तमैः

2.6.22

वणिकाश्चूडामणिभिः सौवर्णै र्बिल्वपत्रकैः ।
शूद्राश्च पूजयामासु र्विविधैश्च क्रियाफलैः

2.6.23

अथान्ये आगता ये च जातयो रजकादयः ।
ते सर्व्वे दूरतः स्थित्वा प्रणेमुश्च पुनः पुनः

मूल पाठ: Vallālacarita · Edition: Haraprasāda Śāstrī: Vallāla Caritam, Calcutta : Asiatic Society 1904 (Bibliotheca Indica, 164) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc