वल्लालचरित · अध्याय 2.26
इति श्रीमदानन्दभट्टप्रोक्ते वल्लालचरिते कालिदासनन्दिलिखित-श्रीजयमङ्गलगाथा-कीर्त्तनं नाम पञ्चविंशो ऽध्यायः ।
[[118]]
अथ षड्विंशो ऽध्यायः
अथ निर्व्वासितः पूर्व्वं गणैर्धर्म्मगिरिः सह ।
वृत्तिहीनो ययौ दूरं देशाद्देशान्तरं भ्रमन्
राजाज्ञया कृतं ध्यायन्नवमानं च पीडनम् ।
स्वस्य भ्रष्टाधिकारञ्च न लेभे निर्वृतिं गिरिः
वैरस्यान्तं चिन्तयान आवर्त्त्य वत्सरान् ततः ।
वायादुम्बं ददर्शासौ म्लेच्छेशं स्वगणैर्वृतम्
वल्लालधनरत्नानां उत्थाप्य पणनात् स तम् ।
म्लेच्छेशं निशि तत् सैन्यैर्न्यरुणद्विक्रमं पुरम्
धूम्रवर्णो धनुर्द्धारी धनुष्मानिव वारिदः ।
वायादुम्बः सैन्यमध्ये जगर्ज च ललम्फ च
कुद्दालपरशुग्राहं कुर्दनोर्म्मिमहास्वनम् ।
अट्टहासवारिहासं तत्सैन्यं सागरायते
पद्घातैः कम्पयन् पृथ्वीं हुङ्कारैश्च दिशो दश ।
नादयन् पञ्चसाहस्रं म्लेच्छसैन्यं ननर्त्त ह
अथ भोगसुखाच्छन्नो राजान्तःपुरमध्यगः ।
काले ऽविदितवृत्तान्तश्चिराय प्रत्यबुध्यत
प्रभाते पार्थिवः श्रुत्वा महाहलहलारवम् ।
कान्ताभुजलतां हित्वा जग्राहासिलतां तदा
अशोधिताम्बुपरिखाञ्चाट्टयन्त्रविवर्ज्जिताम् ।
चिन्तयन् पुरमात्मानममंस्त निहतं नृपः
ततो विलोक्य राजानं युद्धयात्रासमुद्यतम् ।
सर्व्वा राजसीमन्तिन्यो वाष्पाकुलविलोचनाः
शिलादेवी च पद्माक्षी सुभगा हेममालिका ।
सोनदेवा च चण्डेली तमुपेत्य वभाषिरे ।
माभूदभद्रं युद्धे ऽस्मिन् भद्राभद्रं भवेद्यदि
अनाथाः किं करिष्यामो वद नाथ तदावलाः ।
तच्छ्रत्वा वचनं तासां राजा वाष्पाविलेक्षणः
परिष्यज्य क्रमात्ताश्च चुम्बित्वा वदनेषु च ।
प्रत्यूचे मुखपद्मानि तासां पश्यन् महीपतिः
पारावतद्वयं याति प्रेयस्यः समराङ्गणम् ।
यदि तौ प्रत्यागच्छेताम् खगौ प्रावृत्तिकाविव
तदानीं ज्ञास्यथास्माकं रणक्षेत्रे पराजयम् ।
रक्षितं वो सतीधर्म्मं यवनेभ्यो वराननाः ।
वह्निं प्रज्वालयिष्यन्ति भृत्या दत्ताज्ञया मया
इत्युक्ता पुनरालिङ्ग्य चुम्बित्वा च पुनः पुनः ।
सन्नद्धो युद्धयात्रां स चकार स्ववलैर्वृतः
तस्याभिषेणनं रेजे नानाप्रहरणायुतम् ।
हस्त्यारोहैरश्ववारै रथिभिश्च पदातिभिः
[[120]]
ततोभूत्तुमुलं युद्धं म्लेच्छक्षयकरं महत् ।
हताहतयोद्धृवर्गरक्तप्लावितभूतलम्
जजं नष्टबलं तत्र वायादुम्बम् महावलम् ।
रुरोध क्ष्मापतिर्युद्धे श्रीराम इव रावणम्
ततस्तरसा विक्रम्य शीघ्रहस्तो महीपतिः ।
मस्तकं तस्य चिच्छेद नमूचेरिव वासवः
जयश्रीर्वरयामास दामहस्ता नृपं यदा ।
दामहस्तास्तदा दुम्बमवध्नन् यमकिङ्कराः
काले तस्मिन् भाग्यदोषात् पिञ्जरान्निःसृतौ खगौ ।
उन्मक्तौ केनचिद्वा चेत् रामपालपुरं गतौ
तत्र पारावतौ दृष्ट्वा यमदूताविवागतौ ।
सर्व्वा ज्वलद्वह्निकुण्डे पेतुर्नृपतियोषितः
मूल पाठ: Vallālacarita · Edition: Haraprasāda Śāstrī: Vallāla Caritam, Calcutta : Asiatic Society 1904 (Bibliotheca Indica, 164) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0