वल्लालचरित · अध्याय 2.27
इति वल्लालचरिते श्रीमदानन्दभट्टकृतं खिलवल्लालचरितं नाम षड्वविंशो ऽध्यायः ।
अथ सप्तविंशो ऽध्यायः
पिञ्जरं शून्यमालक्ष्य रणक्षेत्रे महीपतिः ।
अत्यन्तमशुभाशङ्की त्वरया स परावृतत्
वह्निध्वजं पश्यमानो दूरतः परमाकुलः ।
ततः स्वं प्राविशद्वेश्म सर्व्वनाशं विलोकितुम्
दृष्ट्वार्द्धदग्धा ज्वलने स्वपत्नी रुम्मत्तरूपो नितरां बभूव ।
निवार्य्यमानोपि जनैः प्रयत्नात् पपात राजा ज्वलदग्निकुण्डे
सहस्रे ऽष्टविंशयुते शकाब्दे पृथिवीपतिः ।
स्त्रीभिः सार्द्धं महाभाग उत्पपात दिवं प्रति
श्रूयते ऽत्र प्रवचनं पारम्यर्य्यक्रमागतम् ।
वल्लालो ऽनुययौ युद्धे पितरं शौर्य्यशालिनम्
मिथिलायां स्थितस्तत्र कश्चिद्योगी धृतव्रतः ।
वल्लालो युद्धयात्रायां तरसा तमलङ्घयत्
[[122]]
अश्वपादेनाभिहतो वल्लालमशपन्मुनिः ।
सकलत्रो वह्निकुण्डे पतित्वा त्वं मरिष्यसि
तत् स्मृत्वा ब्रह्मशापं स विजयं लब्धवानपि ।
चिन्तयामास मनसि मृत्युकाल उपस्थितः
तेनैव विवशो राजा ध्रुवं ज्वलनमाविशत् ।
ब्रह्मशापादृते नैव विपत्तिर्भवेदीदृशी
स ब्रह्मदण्डेन पुरा हतो ऽभूत् दारैश्च सार्द्धमवनीश्वरः सः ।
कपोतप्रत्यागमनञ्च मृत्यौ राज्ञश्च शोको न हि मुख्यहेतुः
मूल पाठ: Vallālacarita · Edition: Haraprasāda Śāstrī: Vallāla Caritam, Calcutta : Asiatic Society 1904 (Bibliotheca Indica, 164) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0