भाषा

ENहिગુ
ग्रंथ पाठ

वल्लालचरित · अध्याय 2.25

2.25.1

इत्यानन्दभट्टप्रोक्ते वल्लालचरिते दानवर्म्मानुष्ठानं नाम चतुर्विंशो ऽध्यायः ।
अथ पञ्चविंशो ऽध्यायः
ओंनमः शिवाय ।
आदित्यवर्णस्तमसः परस्तात् हिरण्यगर्भो जगदन्तरात्मा ।
त्वत्तो ऽस्ति जातः पुरुषः पुराणः त्वत्तो ऽपि वेदा जय देव देव

2.25.2

त्वत्तः प्रसूता जगतः प्रसूतिः सर्व्वानुभूस्त्वं परमाणुभूतः ।
अनोरणीयान् महतो महीयान् आनन्दरुप जय देव शम्भो

2.25.3

त्वमेव विष्णुश्चतुराननस्त्वम्
त्वमेव रुद्रो भगवान् महेशः ।
खं ब्रह्म शून्यं सगुणोगुणश्च
चिन्मात्ररुपो जय देव सर्व्व

2.25.4

एकोरुद्रस्त्वं करोषीह विश्वम्
त्वं पालयस्यखिलं विश्वरूपम् ।
त्वामेवान्ते निलयं विन्दतीदम्
वन्दामहे जयदेवादिदेव

2.25.5

[[116]]
प्रमुञ्चमान अमृतस्य धारां
समेहि तापं सुरमानुषाणाम् ।
अनन्तरुपं खलु बोधयन्ति
त्वामेव वेदा जय विश्वनाथ

2.25.6

अधिमुक्तिविमुक्तिप्रदं भवम्
महामुनिं ब्रह्मपरं पवित्रम् ।
शिरसा वन्दामहे जगद्गुरुम्
स्वयम्भवं देव जय लोकनाथ

2.25.7

त्रातासि दीप्तोसि परायणेसि
नाथोसि लोके प्रणतो ऽस्मि तुभ्यम् ।
वैद्योत्तमस्त्वं खलु शल्यहर्त्ता
चिकित्सकस्त्वं जय देवदेव

2.25.8

अमलं विमलं रजताद्रिनिभम्
भवपारकारं जगदर्थकरम् ।
पञ्चधा विमोक्षवर चक्षुःप्रदम्
वन्दामहे त्रिनयनं जय देव

2.25.9

सहस्रपादाक्षिशिरोभियुक्तम्
सहस्रवाहुं परतः परस्तात् ।
त्वां ब्रह्मपारं प्रणमामि शम्भुम्
पिनाकिनं त्वां जय देवदेव

2.25.10

उमाधवोग्राय भवोद्भवाय
नमामि सर्व्वाय हराय तुभ्यम् ।
कालाय भगाय प्रभाकराय
सर्व्वात्मने देव नमः शिवाय

मूल पाठ: Vallālacarita · Edition: Haraprasāda Śāstrī: Vallāla Caritam, Calcutta : Asiatic Society 1904 (Bibliotheca Indica, 164) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc