वल्लालचरित · अध्याय 1
[[001]]
ओं नमो विघ्नविनायकाय ।
प्रणमामि जगत्सृष्टिस्थितिसंहारकारणम् ।
विश्वेश्वरं विश्वधरं विश्वं च विश्वहेतुकम्
जगद्वीजं सत्यरूपं सर्वसाक्षिणमव्ययम् ।
सर्व्वज्ञं सर्वभूतस्थं सर्वशक्तिधरं विभुम्
ब्राह्मणेभ्यो नमस्कृत्य नवद्वीपनृपाज्ञया ।
ब्राह्मणानां समुत्पत्तितद्भेदादिसमन्वितम् ।
राढीयानां वरेन्द्राणां गोत्रगाञीसमन्वितम् ।
वल्लालचरिताख्यं तद्राजचरितमुच्यते
सिसृक्षोर्ब्रह्मणो जातः पुलहो वामकर्णतः ।
अङ्गिरा नासिकारन्ध्रदजायत मुखाद्रुचिः
मरीचिः स्कन्धदेशाच्च प्रचेता अधरोष्ठतः ।
एकादश चैव रुद्रा ललाटात् क्रोधसम्भवाः
पुलहस्य सुतो वात्स्यः शाण्डिल्यश्च रुचेः सुतः ।
बृहस्पतेराङ्गिरसो भरद्वाजः सुतः स्मृतः
[[002]]
मरीचेर्मनसो जातः कश्यपश्च प्रजापतिः ।
प्रचेतसोपि मनसो गौतमो भगवानृषिः
सावर्णिर्गौतमाज्जज्ञे मुनिप्रवर एव सः ।
बभूवुः पञ्चगोत्राणि चैतेषां प्रवरा भवे
बभूवुर्ब्रह्मणो वक्त्रादन्या ब्राह्मणजातयः ।
ताः स्थिताः देशभेदेन गोत्रशून्याश्च भूपते
अदित्यां द्वादशादित्यान् जनयामास कश्यपः ।
अत्रेर्नेत्रमलाच्चन्द्रः क्षीरोदे च बभूव ह
चन्द्रादित्यमनूनाञ्च प्रवराः क्षत्रियाः स्मृताः ।
ब्रह्मणो वाहुदेशाच्चैवान्याः क्षत्रियजातयः ।
ऊरुदेशाच्च वैश्याश्च पादतः शूद्रजातयः
जन्मना जायते शूद्रः संस्कारैर्द्विज उच्यते ।
वेदपाठाद्भवेद्विप्रो ब्राह्मणो ब्रह्मविद्यया
सारस्वताः कान्यकुब्जा गौडा मैथिलकोल्कलाः ।
पञ्चगौडाः समाक्ष्याताः विन्ध्यस्योत्तरवासिनः
कर्णाटाश्चैव तैलङ्गाः गुर्ज्जरा राष्ट्रवासिनः ।
अन्ध्राश्च द्रविडाः पञ्च विन्ध्यदक्षिणवासिनः
सर्व्वे द्विजाः कान्यकुजाः माथुरं मागधं विना ।
मागधो ब्रह्मणा पर्व्वूं कल्पितो द्विज एव च ।
वराहस्य च घर्म्मेण माथुरो जायते तथा
वेदवाणाङ्कशकि तु गौडे विप्राः समागताः ।
हययानं समारुह्य सर्वशास्त्रविशारदाः
[[003]]
मेधातिथिः क्षितीशश्च वीतरागसुषेणकौ ।
सौभरिरत्नगर्भौ च तथा विप्रः सुधानिधिः
तैरूढा नृपतेर्व्वाक्यात् सप्त सप्तशतात्मजाः ।
तद्देववशतो जातास्तासु सप्त सुता वराः ।
वरन्दरं गताः पञ्च कनिष्ठो राढसंस्थितौ
नृपेन्द्रेनादिशूरेण चानीतं विप्रपञ्चकम् ।
पञ्चगोत्रान्वितं तेषां नाम गोत्रञ्च कथ्यते
श्रीहर्षस्य भरद्वाजो दक्षस्य काश्यपः स्मृतः ।
वेदगर्भस्य सावर्णो वात्स्यश्च छान्दडस्य च ।
शाण्डिल्यगोत्रः कथितो भट्टनारायणस्य च
भट्टतः षोडशोद्भूता दक्षतश्चापि षोडश ।
चत्वारः श्रीहर्षजाता भरद्वाजकुलोद्वहाः ।
द्वादश वेदगर्भाच्च तथैकादथ छान्दडात्
केचिद्विप्रा आगताश्च वैदिका वेदपारगाः ।
पाश्चात्या दाक्षिणात्याश्च शेषोक्ता द्राविडाः स्मृताः
बल्लालविषये नूनं कुलीमा देवताः स्वयम् ।
श्रोत्रिया मेरवो ज्ञेया घटकाः स्तुतिपाठकाः
आचारो विनयो विद्या प्रतिष्ठा तीर्थदर्शनम् ।
निष्ठावृत्तिस्तपोदानं नवधा कुललक्षणम्
काममामरणात् तिष्ठेत् गृहे कन्यर्त्तुमत्यपि ।
न चैवैनां प्रयच्छेत्तु कुलहीनाय कर्हिचित्
[[004]]
एकां शाखां सकल्पां वा षड्भिरङ्गैरधीत्य च ।
षट्कर्म्मनिरतो विप्रः श्रोत्रियो नाम धर्म्मवित्
गुणानुसारतोऽकारि कुलीनश्चैव मौलिकः ।
वंशजश्च पुरा राज्ञा वल्लालेन सुनिश्चितम्
इति वल्लालचरिते वर्णानामुत्पत्तिकथनम् ।
अथ प्रतिग्राहि-संज्ञा-कारण-कथनम ।
धेनुं स्वर्णमयीं यज्ञे विप्रेभ्यः प्रददौ नृपः ।
धेनोस्तस्याः स्वर्णमय्याश्छेदने पतितोऽभवत्
ततो निर्व्वासितो राज्ञा कश्चन स्वर्णकारकः ।
विप्राः प्रतिग्रहाज्जाताः सर्व्वधर्म्मबहिष्कृताः
इति प्रतिग्राहिकारणम् ।
अथ प्रतिग्राहि-संज्ञकानां सग्रामि-नामानि ।
शङ्करे पीतमुण्डी च गडोपि च दिवाकरः ।
गुडो दाडकनामा च दोकडिश्चैव पिप्पली
वन्द्यो मार्त्तण्डनामा च ब्राह्मणो नाम नामतः ।
आयानिश्च गणायिश्च हाडो गोपी च वन्द्यजाः
[[005]]
माषो दोकडिनामा च रायो च मधुसूदनः ।
कुशिको यवनामा च हडो नारायणो ऽपि च
महिन्ता दिविधो नाम दावारिश्चैव केशवः ।
चट्टः शकुनिनामा च तैलवाटीर्नयारिकः
कुन्दो विश्वेश्वरो नाम वन्द्यजो विठुसंज्ञकः ।
घोषजौ भ्रातरावेतौ मदनविश्वरूपकौ
गाङ्गुलिर्हास्यनामा च पूतिर्गौतमसंज्ञकः ।
पराशराख्यः शिम्ली च शङ्करो डिण्डिसंज्ञकः
अमी विप्रकुलोद्भतूआ गोदानं जगृहुर्द्विजाः ।
तेषां सम्बन्धमात्रेण पङ्के गौरिव सीदति
सम्बन्धे भोजने चैव दाने यज्ञे तथैव च ।
विद्वद्भिः श्राद्धकाले च वर्ज्ज्या एते पुनः पुनः
इति प्रतिग्राहिणां नामादयः ।
अथ प्रतिग्राहिसुतानां विवाहकथनम् ।
गणकन्या वशिष्ठेन टोटेन शकुनेः सुताः ।
हाड्कन्या दायिकेन कुबेरो हास्यजापतिः
चक्रपाणिनापि कन्या गृहीता धनलोभतः ।
[[006]]
विठुसुतापतिर्भूत्वा चट्टजः कुलभूषणः ।
प्रतिग्राहिसुतोद्वाहात् षडेते वंशजाः स्मृताः
श्रोत्रियाय सुतां दत्त्वा कुलीनो वंशजः पुनः
ग्रामं लब्ध्वा च वल्लालात् कौण्डिल्यस्तत्प्रचारितः ।
यवग्रामी कडारो च कौण्डिल्यो वैदुडीस्तथा
इति प्रतिग्राहिसुतानां विवाहकथनम् ।
अथ पञ्चगोत्रीयानां सग्रामि-नामादि-कथनम् ।
अथ शाण्डिल्यगोत्रस्य भट्टनारायणस्य वंशधराणां गांइनामानि ।
आदौ वन्द्यो वराहः स्यात् रामो गड्गडिस्तथा ।
नृपः स्यात् केशरश्चैव नानः कुसुमकौलिकः
वाटुः स्यात् पारिहालोसौ कुलभिर्गुइनामकः ।
गणो घोषलितां प्राप्तः सेयुः शाण्डीश्वरीस्तथा
वुडोमाश्चरकश्चैव, वटव्यालो विकर्त्तनः ।
वसुरायिस्तथा नीलः कड्यालो मधुसूदनः
कुशी च कोयनामा च कुलिसा चैव वासुकः ।
आकाशो माधवो दीर्घग्रामी चैव महामतिः
एते षोडश शाण्डिल्याः कथिता राजपूजिताः ।
ततः काश्यप-गोत्रीय-दक्ष-वंशश्च कथ्यते
[[007]]
अथ काश्यपगोत्रस्य दक्षस्य वंशधराणां गांइनामानि ।
धीरो ऽभवत् गुडीग्रामी नीरः स्यादामरूलिकः ।
भूरिष्टालः शुभश्चैव शम्भुः स्यात्तैलवाटिकः
कौतुकः पीतमुण्डी स्यात् चट्टग्रामी सुलोचनः ।
पलशायी पालुनामा हड्ःकाको मतस्तथा
पोडारिः कृष्णसंज्ञो ऽसौ पालधी रामनामकः ।
जननामा कोयारिः स्यात् पर्क्कटिर्वनमालिकः
सिमलायी श्रीहरिः स्यात् जटः पूषलिकस्तथा ।
भट्टग्रामी शशिधरो मूलग्रामी च केशवः ।
एते षोडश भूदेवाः ज्ञेयाः काश्यपसंज्ञकाः
अथ भरद्वाजगोत्रस्य श्रीहर्षस्य वंशधराणाम् गांइनामानि ।
धांदुनामा मुखैटिः स्यात् जनः स्याद्दीनसायिकः ।
नानः साहरिको ज्ञेयो रायी च रामनामकः
श्रीहर्षस्य सुता एते भरद्वाजकुलोद्भवाः ।
सर्व्वदेशेषु विदितमग्रवर्तचतुष्टयम्
[[008]]
अथ सावर्णगोत्रस्य वेदगर्भस्य वंशधराणां गांइनामानि ।
गाङ्गुली हलनामा च कुन्दो राज्यधरस्तथा ।
वशिष्ठः सिद्धलो ज्ञेयो दायी च मदनो भवत्
विश्वरूपस्तथा नन्दी वालिग्रामी कुमारकः ।
योगी सियारिको ज्ञेयः पुंसिको रामनामकः
दक्षः साकटसंज्ञो ऽसौ पारी च मधुसूदनः ।
घण्टाग्रामी माधवश्च नायारी च गुणाकरः ।
एते पुत्रा महाप्राज्ञाः सावर्णा द्वादश स्मृताः
अथ वात्स्यगोत्रस्य छान्दड्स्य वंशधराणां गांइनामानि ।
रविर्महिन्ता सुरभिश्च घोषः कविः पृथिव्यां खलु शिम्बलालः ।
महायशा वापुलिकश्च पिप्ली धीरश्च पूतिर्ननु शङ्कराख्यः
विश्वम्भरो ऽभूत् खलु पूर्ब्बग्रामी वात्स्याश्च तादर्थनिवासदेशाः
[[009]]
श्रीश्रीधरोभूत् खलु काञ्जिविल्ली नारायणो नाम च काञ्जियारी ।
चौत्खण्डिको नाम गुणाकरः स्यात् मनो दीघालो भुवि रुद्रतुल्यः
अथ गौणकुलीनानामुल्लेखनम् ।
दीर्घाङ्गी पारिः कुलभी पोडारी राइः केशरी ।
घण्टा डिण्डिः पीतमुण्डीर् महिन्ता गुड्पिप्पली ।
हड्श्च गड्गडिश्चैव इमे गौणाः प्रकीर्त्तिताः ।
अतःपरं विशेषं यदत्रैव वर्ण्यते मया
एकदा राजवल्लालः कौलिन्य-स्थापनाय च ।
आमन्त्रयामास विप्रान् सभारोहण-कर्म्मणि
नित्यकर्म्माणि निष्पाद्य ततस्तन्निश्चिते ऽहनि ।
आययुर्ब्राह्मणाः सर्व्वे सभायां नृपसन्निधौ
केचित् प्रहरमध्ये च सार्द्धप्रहरमध्यतः ।
सार्द्धद्विप्रहरे के वा ययुर्नृपतिसन्निधिम्
[[010]]
ततस्तु मतिमान् राजा विविच्य द्विज-चेष्टितान् ।
कौलीन्यादियथायोग्यं तेभ्यस्तत्र ददौ मुदा
सार्द्धद्विप्रहरातीते सभायामागतास्तु ये ।
ते सम्पर्णूधर्म्म-निष्ठाः कौलीन्यं लेभिरे द्विजाः
ये सार्द्धप्रहरे प्राप्ताः श्रोत्रियास्ते प्रकीर्त्तिताः ।
बभूर्गौणकुलीनास्ते यामान्तरगतास्तु ये
कालेनादिश्रोत्रियेषु विशुद्धेषु निवेशिताः ।
आसन् गौणाश्च विख्याताः कष्टश्रोत्रियसंज्ञया
यथा गौणास्तथा कष्टा हेया एव समं सदा ।
इति राढीयविप्राणां कथितः कुलनिश्चयः
इति राढीयविप्राणाम् कौलीन्यादिप्राप्तिकथनम् ।
अथ वरेन्द्रवंशकथनम् ।
काश्यपे ऽष्टादश ज्ञेयाः शाण्डिल्येषु चतुर्दश ।
चतुर्व्विंशतिर्वात्स्यानाम् भरद्वाजे तथाविधः
सावर्णे विंशतिर्ज्ञेयाः कथिताः पञ्चगोत्रकाः ।
तेषां ग्रामी सविस्तारं कथ्यते च यथाक्रमम्
[[011]]
अथ काश्यपगोत्रस्य कृपानिधेर्वंशधराणाम् गांइनामानि ।
करञ्जो भादुडी मैत्रो बालयष्टिककेरलौ ।
मधुग्रामी बलीहारी मोयाली बीजकुञ्जकः
कोटिः सर्व्वग्रामकोटिः परेशश्चैव धोसकः ।
भद्रयामी चाश्रुकोटिः शरग्रामी च विश्रुतः ।
वेलग्रामी चमग्रामौ वंशजाश्च कृपानिधेः
अथ शाण्डिल्यगोत्रस्य दामोदरस्य वंशधराणां गांइनामानि ।
रुद्रवाग्ची साधुवाग्ची लाहिडी चम्पटिस्तथा ।
नन्दनावाटी कालिन्दी चट्टग्रामी च पूषणः
शिहरिर्विशी मत्स्याशी वेलुडीश्चम्पसंज्ञकः ।
सुवर्णतोटः शाण्डिल्योदामोदरस्य वंशजाः
अथ वात्स्यगोत्रस्य धराधरस्य वंशधराणां गांइनामानि ।
संयामिनी भीमकाली भट्टशाली च कुड्मुडिः
[[012]]
भाडियालः कामकाली वात्स्यग्रामी च लक्षकः ।
वोड्ग्रामी जामरूखी कालीग्रामी कलीहरः
शीतली धोसली चैव तालुडी कुक्कुटी तथा ।
निद्राली चाक्षुषग्रामी देउलि सिहरी तथा
प्रौण्ड्रीकाक्षिः श्रुतवटी चतुरान्दी तथा स्मृतः ।
कालिन्दी वात्स्यगोत्रस्य धराधरस्य वंशजाः
अथ भरद्वाजगोत्रस्य गौतमस्य वंशधराणां गांइनामानि ।
भादडो लाड्डेल-झामा झामाली झम्पटी च वा ।
उर्त्तिवाही उग्ररेखी आखु-रत्नाबली खनिः
गोस्वाशिराथः पिस्वीनि चेङ्गा चाखुरि पिप्पली ।
विशाला काञ्चनग्रामी असृक् शाकोटकस्तथा
क्षेत्रग्रामी राजग्रामी नन्दीग्रामी च जध्यलः ।
पुक्तिर्वृहती गोत्रेषु भरद्वाजेषु गोतमात्
अथ सावर्णगोत्रस्य पराशरस्य वंशधराणां गांइनामानि ।
सिंहडालक उन्दुडी शृङ्गी पाकडी लेधुडी ।
धुन्धुडी तातोया सेतुः कपाली लोमपेटरौ
[[013]]
पञ्चवटी खण्डवटी निकडिश्च समुद्रकः ।
पुण्डरिको यशोग्रामी केतुग्रामी च विश्रुतः
पुष्पपो भादुषी चैव वरेन्द्रा गांइसंज्ञकाः ।
मुनिकल्पा अमी जाता सावर्णेषु पराशरात्
अथ वैदिकानां कौलिन्यादिविहीनत्वकारणम् ।
वैदिका ब्राह्मणा आसन् वणिजां पक्षपातिणः ।
ततस्तान्सदसि क्रोधान्नाजुहाव महीपतिः
नाकाङ्क्षन्नभिहारं ते राजदत्तं तपोधनाः ।
ब्राह्मणाः ब्रह्मविद्वांसो वैदिका इति केचन
इति वैदिकानां कौलीन्यादिराहित्यकथनम् ।
अथ कान्यकुब्जागत-कायस्यानां नामगोत्राणि ।
काश्यपे गोत्रे सञ्जातो दक्षनामा महामतिः ।
तस्य दासो गौतमस्य गोत्रे दशरथो वसुः
शाण्डिल्यगोत्रे संभूते भट्टनारायणः क्वती ।
तस्य सौकालिनो दासो घोषजो मकरन्दकः
भरद्वाजेषु विख्यातः श्रीहर्षो मुनिसत्तमः ।
दासस्तस्य विराटाख्यः गुहकः काश्यपः स्मृतः
[[014]]
सावर्णगोत्रो निर्दिष्टो वेदगर्भस्तपोधनः ।
तस्य दासो मित्रवंशो विश्वामित्रस्य गोत्रकः ।
कालिदास इति ख्यातः शूद्रवंशसमुद्भवः
वात्स्यगोत्रेषु सम्भूतः छान्दड् इति संज्ञितः ।
मौद्गल्यगोत्रकोदत्तः पुरुषोत्तमसंज्ञकः ।
एतेषां रक्षणार्थाय स्वागतो गौढ्मण्डलम्
ये घोषवसुमित्रास्तु कुलीनाः सर्व्व एव ते ।
देव-दत्तौ सेनसिंघौ पालितश्च करो गुहः ।
दासश्च मध्यमा अष्टौ द्विसप्ततिर्घरास्ततः
अशीति र्मौलिका राजवल्लालसेन-सम्मताः ।
द्विसप्ततिर्घरा ये ते कायस्थेष्वधमाः स्मृताः
अथ गुणवत्कायस्थप्रशंसा ।
शूद्रास्तु ये दानपरा भवन्ति व्रतान्विता विप्रपरायणाश्च ।
अन्नं हि तेषां सततं सुभोज्यं भवेत् द्विजैर् दृष्टम् इदं पुरातनैः
मूल पाठ: Vallālacarita · Edition: Haraprasāda Śāstrī: Vallāla Caritam, Calcutta : Asiatic Society 1904 (Bibliotheca Indica, 164) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0