वाक्यपदीय · अध्याय 3.10
प्रत्यक्ता परभावश् चाप्य् उपाधी कर्तृकर्मनोः
तयोः श्रुतिविशेषेण वाचकौ मध्यमोत्तमौ ॥
सद् असद् वापि चैतन्यम् एताभ्याम् अवगम्यते
चैतन्यभागे प्रथमः पुरुषो न तु वर्तते ॥
बुधिजानातिचितिभिः प्रथमे पुरुषे सति
सम्ज्ञानार्थैर् न चैतन्य स्योपयोगः प्रकाश्यते ॥
संबोधनार्थः सर्वत्र मध्यमे कैश् चिद् इष्यते
तथा संबोधने सर्वां प्रथमां युष्मदो विदुः ॥
संबोधनं न लोके ऽस्ति विधातव्येन वस्तुना
स्वाहेन्द्रशत्रुर् वर्धस्व यथा राजा भवेति च ॥
युष्मदर्थस्य सिद्धत्वान् नियता चाद्युदात्तता
युष्मदः प्रथमान्तस्य परश् चेन् न पदाद् असौ ॥
गुणप्रधानताभेदः पुरुशादिविपर्ययः
निर्देशश् चान्यथा शास्त्रे नित्यत्वान् न विरुध्यते ॥
यथानिर्देशम् अर्थाः स्युर् येसां शास्त्रं विधायकम्
किम् चित् सामान्यम् आश्रित्य स्थिते तु प्रतिपादनम् ॥
यो ऽश्वे यः पीठ इत्य् अत्र भूतयोर् अश्वपीठयोः
यथोपलक्षणार्थत्वं तथार्थेष्व् अनुशासनम् ॥
मूल पाठ: Vākyapadīya · Data entry Yves Ramseier · GRETIL (Göttingen) · CC BY-NC-SA 4.0