भाषा

ENहिગુ
ग्रंथ पाठ

वज्रसूची · श्लोक 21-40

21

शूद्रीपरिवृतो विप्रः शूद्री च गृहमेधिनी ।
वर्जितः पितृदेवेन रौरवं सो ऽधिगच्छति

22

अरणीगर्भसम्भूतः कठो नाम महामुनिः ।
तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम्

23

कैवर्तीगर्भसम्भूतो व्यासो नाम महामुनिः ।
तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम्

24

उर्वर्शीगर्भसम्भूतो वसिष्ठो ऽपि महामुनिः ।
तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम्

25

हरिणीगर्भसम्भूत ऋष्यश्रृङ्गो महामुनिः ।
तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम्

26

चण्डाली गर्भसम्भूतो विश्वामित्रो? महामुनिः ।
तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम्

27

ताण्डूलीगर्भसम्भूतो नारदो हि महामुनिः ।
तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम्

28

जितात्मा यतिर्भवति..................... जितेन्द्रियः ।
[यतात्मा यतिर्भवति विजितात्मा(जितात्मा च)जितेन्द्रियः ।]
तपसा तापसो जातो ब्रह्मचर्येण ब्राह्मणः

29

न च ते ब्राह्मणीपुत्रास्ते च लोकस्य ब्राह्मणाः ।
शीलशौचमयं ब्रह्म तस्मात्कुलम कारणम्

30

शीलं प्रधानं न कुलं प्रधानं कुलेन किं शीलविवर्जितेन ।
बहवो नरा नीचकुल प्रसूताः स्वर्गं गताः शीलमुपेत्य धीराः

31

मुखतो ब्राह्मणो जातो बाहुभ्यां क्षत्रियस्तथा ।
उरुभ्यां वैश्यः संजातः पद्भ्यां शूद्रक एव च

32

पाण्डोस्तु विश्रुतः पुत्रः स वै नाम्ना युधिष्ठिरः ।
वैशम्पायनमागम्य प्राञ्जलिः परिपृच्छति

33

के च ते ब्राह्मणाः प्रोक्ताः किं वा ब्राह्मणलक्षणम् ।
एतदिच्छामि भो ज्ञातुं तद् भवान् व्याकरोति मे

34

क्षान्त्यादिभिर्गुणैर्युक्तस्त्यक्त दण्डो निरामिषः ।
न हन्ति सर्वभूतानि प्रथमं ब्रह्मलक्षणम्

35

यदा सर्वं परद्रव्यं पथि वा यदि वा गृहे ।
अदत्तं नैव गृह्णाति द्वितीयं ब्रह्मलक्षणम्

36

त्यक्त्वा क्रूरस्वभावं तु निर्ममो निष्परिग्रहः ।
मुक्तश्चरति यो नित्यं तृतीयं ब्रह्मलक्षणम्

37

देवमानुष नारीणां तिर्यग्योनिगतेष्वपि ।
मैथुनं हि सदा त्यक्तं चतुर्थं ब्रह्मलक्षणम्

38

सत्यं शौचं दया शौचं शौचमिन्द्रियनिग्रहः ।
सर्वभूत दया शौचं तपः शौचञ्च पञ्चमम्

39

पञ्चलक्षणसम्पन्न ईदृशो यो भवेद् द्विजः ।
तमहं ब्राह्मणं ब्रूयां शेषाः शूद्रा युधिष्ठिर

40

न कुलेन न जात्या वा क्रियाभिर्ब्राह्मणो भवेत् ।
चण्डालो ऽपि हि वृतस्थो ब्राह्मणः स युधिष्ठिर
अहिंसा ब्रह्मचर्यं च विशुद्धाच्च प्रतिग्रहः ।
फलेन न समर्थं च ब्राह्मणः स्याद्युधिष्ठिर

मूल पाठ: Vajrasūcī · Edition: Ramayana Prasad Dvivedi: Vajrasuchi. Varanasi : Chaukhamba Amarbharati Prakasan, 1985. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc