भाषा

ENहिગુ
ग्रंथ पाठ

वज्रसूची · श्लोक 41-53

41

एकवर्णमिदं पूर्वं विश्वमासीद्युधिष्ठिर ।
कर्मक्रियाविशेषेण चातुर्वर्ण्यं प्रतिष्ठितम्

42

सर्वे वै योनिजा मर्त्याः सर्वे मूत्रपुरीषिणः ।
एकेन्द्रियेन्द्रियार्थाश्च तस्माच्छीलगुणैर्द्विजाः

43

शूद्रो ऽपि शीलसम्पन्नोगुणवान् ब्राह्मणो भवेत् ।
ब्राह्मणो ऽपि क्रियाहीनः शूद्रात्प्रत्यवरो भवेत्

44

पञ्चेन्द्रियार्णवं घोरं यदि शूद्रो ऽपि तीर्णवान् ।
तस्मै दानं प्रदातव्यमप्रमेयं युधिष्ठिर

45

न जातिर्दृश्यते राजन् गुणाः कल्याणकारकाः ।
जीवितं यस्य धर्मार्थे परार्थे यस्य जीवितम् ।
अहोरात्रं चरेत्क्षान्तिं तं देवा ब्राह्मणं विदुः

46

परित्यज्य गृहावासं ये स्थिता मोक्षकाक्षिणः ।
कामेष्वसक्ताः कौन्तेय ब्राह्मणास्ते युधिष्ठिर

47

अहिंसानिर्ममत्वं चा मत्कृत्यस्य वर्जनम् ।
रागद्वेषनिवृत्तिश्च एतद् ब्राह्मणलक्षणम्

48

क्षमा दया दमो दानं सत्यं शौचं स्मृतिर्घृणा ।
विद्या विज्ञानमास्तिक्यमेतद् ब्राह्मणलक्षणम्

49

गायत्रीमात्र सारो ऽपि वरं विप्रः सुयन्त्रितः ।
नायन्त्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी

50

एकरात्रोषितस्यापि या गतिर्ब्रह्मचारिणः ।
न तत्क्रतुसहस्रेण प्राप्नुवन्ति युधिष्ठिर

51

पारगं सर्ववेदानां सर्वतीर्थाभिषेचनम् ।
मुक्तश्चरति यो धर्मं तमेव ब्राह्मणं विदुः

52

यदा न कुरुते पापं सर्वभूतेषु दारुणम् ।
कायेन मनसा वाचा ब्रह्म सम्पद्यते तदा

53

अस्माभिरुक्तं यदिदं द्विजानां मोहं निहन्तुं हतबुद्धिंकानाम् ।
गृह्मन्तु सन्तो यदि युक्तमेतन्मुञ्चन्त्वथायुक्तमिदं यदि स्यात्

मूल पाठ: Vajrasūcī · Edition: Ramayana Prasad Dvivedi: Vajrasuchi. Varanasi : Chaukhamba Amarbharati Prakasan, 1985. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc